SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 160 * वामध्वजकृता सृङ्केतटीका त्वनियमापत्तिः / न ह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणम्, न त्विदानींतनानामिति नियामकमस्ति / _136. यदा वेदे पुरुषाभिप्रायो नाभ्युपगम्यते तदा श्रुतार्थापत्तेढुंत्पादनवैयर्थ्यमित्याह - अपि चेति / तस्मादभिप्रायस्थ इति / ननु च स्वयं स्मृतानामेव पदानामनुच्चारितानामपि श्रुतपदैः सहैकार्थप्रतिपादनतात्पर्यवत्तापरिकल्पनमेव श्रुतार्थापत्तिविषयो भविष्यतीति न तु स्वतन्त्रपुरुषाभिप्रायविषयकल्पनेति चेत् / न, वेदे हि परस्परसमभिव्याहृतानामेकार्थप्रतिपादनतात्पर्यमुपलब्धम् / तत्र यदि समभिव्याहारमन्तरेणैकार्थप्रतिपादकत्वं स्यात् तदा निश्चित एव नियमो भाष्यते / तेषां च समभिव्याहारः स्वतन्त्रपुरुषोच्चारणविषयतया वा स्वतन्त्रपुरुषाभिप्रायविषयतया वेति / तदाधारपुरुषधौरेयसिद्धिरित्याशयवानाह - गत्यन्तराभावादिति / तद्विपरीतो वेति। अध्यापितधारितवेदवेदार्थ इत्यर्थः / तथा चेतिहासपुराणादिषु श्रूयते - भगवता परमेश्वरेण किल सर्गादौ मन्वादयो वेदादिकमध्याप्यन्ते / सर्ववेदार्थविद्या(व्या)[ख्या]तत्वमभिप्रेतम्, अन्यथा दृष्टान्तस्य संदिग्धसाध्याश्रयत्वप्रसङ्गात् / न त्वेकदेशदर्शिनो व्याख्यातादपि ग्रन्थान्तरात् शिष्याणामुपाध्यायबोधश्रद्धया प्रवर्तमानात्वा(नां) निश्चलानुष्ठानय(म)स्ति / न च तदनुष्ठानमूलस्य ग्रन्थस्य समस्ततदर्थविद्व्याख्यातत्वमित्यत आह - अनुष्ठातृमतिचलनेऽपीति / न हि तत्रानुष्टातॄणामव्यवस्थितमतित्वमस्तीति / अनुष्ठातृमतिचलनादि(दी)ति तु केवलं सपक्षधर्मभूतमिति [133A] विशेष्यपदोपादानम् / अननुष्ठानमित्यत्र हेतुमाह - अव्यवस्थानादिति / अर्थानिश्चयादिति शेषः / इतरच्च / अनियतमनुष्ठानं भवेदित्याह - अ[न]नुष्ठान[म]व्यवस्था वेति / अर्थनिश्चयाव्यवस्थानादिति शेषः / कुत इत्यत आह - अनादेशिकत्वात् इति / अनौपदेशिकत्वादित्यर्थः / न तु पूर्वपुरुषैर्ययत्वा(पैर्यथा) गृहीतो वेदार्थस्तथा प्रमाणम्, इदानीन्तनानां न स्वतन्त्रस्तद्बोधो न प्रमेति न नियमो भविष्यतीत्याह - न सर्वज्ञत्वाविशेष इति / स्मृतीतिहासेषु प्रयुज्यमानत्वात्, घटादिपदवत् इति सामान्यतः सिद्धे कोऽस्यार्थः ? इति व्युत्पित्सोविमर्श सति निर्णयः, स्वर्गादिपदवत् / उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / इत्यर्थवादात्, यव-वराहादिवद् वाक्यशेषाद् वा / तद् यथा ईश्वरप्रणिधानमुपक्रम्य श्रूयते - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः / अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य // इति // 137. यववराहादिवदिति / 'यवमयश्चरुर्भवति' 'वाराही चोपानह:' 'वैतसे कटे प्राजापत्यां(त्यं) चिनुयात्' इत्यत्र यववराहवेतसशब्देषु संशयः किमेते दीर्घशूक[शूक] रवञ्जुलानां वाचकाः उत कङ्गवायसजम्बूनामिति / अत्र पूर्वपक्षः - म्लेच्छव्यवहारात् तावत् कङ्ग्वादावेव शक्तिनिरूप्यते न यवादौ, आर्यव्यवहारास्तु(त्तु) यवादावेव शक्तिनिरूप्यते न कङ्ग्वादिगोचरतयेति / वाक्यार्थेति यन्निदर्शनात् पदार्थानामध्यवसायः / न चोभयव्यवहारसामर्थ्यबलेनोभयत्रापि शक्तिरस्त्विति वाच्यम् / यस्मादेकत्र शक्तिकल्पनायामन्यत्र गौणतयापि प्रयोगसम्भवात् शक्तिकल्पनानुपपत्तिः / नन्वेकत्रापि शक्तिरवधार्यमाणा
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy