SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 159 * न्यायकुसुमाञ्जलि स्तबकः 5 अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् / 135. परमेश्वरगोचरमननसाधकानां कार्य(र्ये)त्यादिकं [132A]सकललोकसिद्धमर्थं व्याख्याय संप्रति निर्मसरं(तर्कपुरःसरं) विचारनिपुणजनैकगोचरार्थतया शिष्यबुद्धिविशदीभावायं(य) सङ्ग्रहश्लोकव्याख्यानमुपक्रमते - अथवेति / पदार्थवाक्यार्थाभ्यां तात्पर्यार्थं भेदयितुं प्रस्तौति - तत्रेति / तदेव परं यस्य स्तुत्यादिवाक्यस्य तदिदं तत्परम्, तत्र परपदस्यार्थं विकल्पयति - साध्यं वा प्रतिपाद्यं वेत्यादिना / तत्र न प्रथमः / न तावत् परं साध्यमित्यर्थः / ननु प्रमाकरणतया प्रमाणस्य साध्यं फलमस्तीत्यत आह - फलेति / न द्वितीय इति / योऽर्थस्तस्य यत् साध्यं प्रतिपाद्यस्य चापेक्षितं तत् परमित्यर्थः / ननु प्रकरणविशेषात् तात्पर्यनियमेन वाक्यभेददोष इति चेत् / न / प्रकरणं हि साध्यं वा नियमयेत प्रतिपादकाभिप्रायं वा ? नाद्यः, अशक्यत्वात् / न हि धूमध्वजं जिज्ञासमानस्य प्रतीयमानधूमात् धूमकेतुप्रतीतिवत् मशकादिनिवृत्तिर्न भवतीति / द्वितीये त्वापातते(तो)ऽपेक्षितत्वेनाभिमतं पक्षं व्यवस्थापयति - चतुर्थस्त्वित्यादिनेति / नन्वस्तु पुरुषाभिप्राय: परार्थो लोके, वेदे तु प्रवृत्तिनिवृत्ती एवेति कृतमत्र स्वतन्त्रपुरुषपरिकल्पनयेति / नैवम् / दृष्टं हि तवा(ताव)ल्लौकिकवाक्य(क्ये) स्वतन्त्रपुरुषाभिप्रायसापेक्षतयाऽर्थविशेषप्रतिपादकत्वं, यथा लक्षणवाक्येषु / तदत्र चोदयि(य)[ति] - यत्र पदशक्तिसंसर्गशक्ती विहाय तात्पर्यबलेनार्थविशेषप्रतिपादनं तत्र लौकिकवाक्यमर्यादया स्वतन्त्रपुरुषाभिप्रायमपेक्ष(क्ष्य)व युज्यते / न च वाच्यम् - अन्ये हि वैदिकाः शब्दाः लौकिकेभ्यः, तस्माल्लोकमर्यादया नैषामर्थप्रतिपादकत्वमिति / यतोऽनेनैव न्यायेन लौकिकान(ना)[132B]मर्थविशेषव्युत्पत्तिनिश्चयेऽपि वैदिकानां तद्विलक्षणत्वेनागृहीतव्युत्पत्तिकत्वादाप्रतिपादकत्वप्रसङ्गः / तस्मात् तुल्यरूपत्वाद् वेदेऽपि वक्त्रभिप्रायानुमाने परमेश्वरोऽभिप्रायो(या)धार(रः) पुरुषविशेषः सिद्ध्यतीति हृदि निधायाह - तथैव लोकव्युत्पत्तिरिति / तस्माल्लोकानुसार( रे )णेत्यादि च / कर्तव्यः / न च 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र 'रात्रौ भुङ्क्ते' इति वाक्यशेषोऽस्ति, अनुपलम्भबाधितत्वात् उत्पत्त्यभिव्यक्तिसामग्रीताल्वादिव्यापारविरहात् अयोग्यस्याशङ्कित्तुमप्यशक्यत्वात् / तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् / स चेद् वेदे नास्ति, नास्ति श्रुतार्थपत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः / तस्मात् कार्यात् तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति / आयोजनात् खल्वपि / न हि वेदादव्याख्यातात् कश्चिदर्थमधिगच्छति / न त्वेकदेशदर्शिनो व्याख्यानमादरणीयम् / 'पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम्' इति न्यायेनानाश्वासात् / त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथार्थप्रत्ययः स्यात्, किमुतातीन्द्रियादन्तरवाक्यसम्भेददुरधिगमात् / ततः सकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयोऽन्यथा अन्धपरम्पराप्रसङ्गात् / स च श्रुताधीतावधृतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति / को ह्यप्रत्यक्षीकृतविश्वतदनुष्ठान एतावानेवायमाम्नाय इति निश्चिनुयात् / कदाचित् सर्ववेदार्थविद्व्याख्याताः अनुष्ठातृमतिचलनेऽपि निश्चलानुष्ठानत्वात्, यद् एवं तत् सर्वं तदर्थविद्व्याख्यातम्, यथा मन्वादिसंहितेति / अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् / अनुष्ठातार एवादेष्टार इति चेत् / न तेषामनियतबोधत्वात् / वेदवद् वेदानुष्ठानमप्यनादीति चेत्, न / तद्धि स्वतन्त्रं वा वेदार्थबोधतन्त्रं वा ? आद्ये निर्मूलत्वप्रसङ्गः / द्वितीये
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy