SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 158 * वामध्वजकृता सृङ्केतटीका 135. अथवा कार्येत्यादिकमन्यथा व्याख्यायते - उद्देश एव तात्पर्य व्याख्या विश्वदृशः सती / ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः // 6 // आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती / भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम् / तथाहि विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते / प्रशस्ते हि सर्वः प्रवर्तते, निन्दिताच्च निवर्तते इति स्थितिः / तत्र पदशक्तिस्तावदभिधा, तबलायातः पदार्थः / आकाङ्क्षादिमत्त्वे सति चान्वयशक्तिः पदानां पदार्थानां वा वाक्यम्, तबलायातो वाक्यार्थः / तात्पर्यार्थस्तु चिन्त्यते - तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य तदिदं तत्परम्, तस्य भावः तत्वम्, तद् यद्विषयं स तात्पर्यार्थ इति स्यात् / तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् / फलस्य च तत्प्रतिपत्तितोऽन्यस्याभावात् / प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेत्, न / 'गङ्गायां घोषः' इत्यत्र तीरस्याप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्यापि परत्वात् / तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेत्, न / स्वरूपाख्यानमात्रेणापि पर्यवसानात् / न द्वितीयः / पदवाक्ययोः पदार्थतत्संसर्गों विहाय प्रतिपाद्यान्तराभावात् / ‘पदशक्ति-संसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न साम्प्रतम् / न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्य शब्दस्य, अतिप्रसङ्गात् / तदा हि 'गङ्गायां जलम्' इत्याद्यपि तीरपरं स्यात्, अविनाभावस्य तादवस्थ्यात् / मुख्य बाधके सति तत् तथा स्यादिति चेत् / न, तस्मिन्नसत्यपि भावात् / 'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः / ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् // ' इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् / न च परं व्यापकमेव, अव्यापकेऽपि तात्पर्यदर्शनात् / तद् यथा 'मञ्चाः क्रोशन्ति' इति पुरुषे तात्पर्यम् / न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः / नापि तृतीयः / तद्धि प्रतिपाद्यापेक्षितं प्रतिपादकापेक्षितं वा स्यात् / नाद्यः, शब्दप्रामाण्यस्यातदधीनत्वात्, तथात्वे वाऽतिप्रसङ्गात् / यस्य यदपेक्षितं तं प्रति तस्य परत्वप्रसङ्गात् / तदर्थसाध्यत्वेनापेक्षानियम इति चेत् / न, कार्यज्ञाप्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् / धूमस्य हि प्रदेशश्यामलतामशकनिवृत्त्याद्यनेकं कार्यम् / आर्दैन्धनदहनाद्यनेकं ज्ञाप्यम् / तथा चेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्, चेतनापेक्षाया नियन्तुमशक्यत्वात् / नापि प्रतिपादकापेक्षितम्, वेदे तदश्यावात् / चतुर्थस्तु स्यात् / यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्युत्पत्तेः / तथाहि - प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् / निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद् हानपरम्, एवमन्यत्रापि स्वयमूहनीयम् / तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम्, अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात् / स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः / तथा च प्रयोगः - वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि, प्रशंसावाक्यत्वात्, परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवत् इति / एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि, निन्दावाक्यत्वात्, परिणतिविरसं पनसफलमित्यादिवाक्यवत्,
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy