________________ _157 * न्यायकुसुमाञ्जलि स्तबकः 5 विपक्षे बाधकमाह - अन्यथेति / यदि व्यणुकपरिमाणमारम्भकं स्यात् तदा परिमाणस्य सजातीयप्रकृष्टपरिमाणजनकत्वप्रतिबन्धा[द्] व्यणुकपरिमाणजनकत्वं वक्तव्यम् / न च परमाणोरपि परमसूक्ष्मपरिमाणस्याश्रयभूतं किञ्चिद् वस्तु विद्यते / अतः परमाणुपरिमाणात् परं सूक्ष्मं परिमाणमुत्पद्यमानम् अनाश्रयं स्यात् / न चानाश्रयं कार्यमस्तीत्यनाश्रयकार्योत्पत्तिप्रसङ्ग इत्यर्थः / अणुपरिमाणस्य परिमाणारम्भकत्वे बाधकान्तरमप्याह - द्वयणुकस्येति / यदि व्यणुकपरिमाणं महत्त्वकारणं स्यात् तदा द्वयणुकेऽपि महत्त्वपरिमाणं प्रसज्येत / अथ त्र्यणुके बहुत्वं महत्त्वारम्भकं तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्यैय(व) तावदारम्भिका सिद्धेत्यनारम्भकमणुत्वमिति / त्वयैव समर्थितमित्याह - तत्र कारणेति / किञ्चाणुत्वस्य महत्त्वारम्भकत्वमवधारणेन वा व्यवस्था(स्थ)या वा। प्रथममाशङ्क्य दूषयति - अणुत्वमेवेति / व्यवस्था(स्थां) दूषयति - अणुत्वमहत्त्वयोरिति / अणुत्वमहत्त्वयोर्विरुद्धतया विरुद्धजातीयतयाऽणुत्वपरिहारेण महत्त्वान्महत्त्वोत्पत्तिदर्शनात् महत्त्वव्यभिचारेणाणुत्वा[131B]न्महत्त्वोत्पत्तिदर्शनान्नोभयोरपि कारणत्वमुपपद्यत इत्यर्थः / यदि च सङ्ख्या न कारणं किन्त्वणुपरिमाणं तदा [ब]हुभिरपि परमाणुभिर्वाभ्यामपि व्यणुकाभ्यां त्र्यणुकारम्भप्रसङ्ग इत्यत आह - बहुभिरपीति / 134. एवं सति को दोष इति चेत् / परमाणुकार्यस्य महत्त्वप्रसङ्गः / कारणबहुत्वस्य तद्धेतुत्वात् / अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् / अणुन एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् / अस्तु महदारम्भ एव त्रिभिरिति चेत्, न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् / तथापि वा तारतम्ये संख्यैव प्रयोजिकेति / न च प्रचयोऽपेक्षणीयोऽवयवसंयोगस्याभावात् / तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः / अतोऽनेकसंख्या परिशिष्यते / सा अपेक्षाबुद्धिजन्या, अनेकसंख्यात्वात् / न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति / तद् यस्यासौ सर्वज्ञः / अन्यथा अपेक्षाबुद्धेरभावात् संख्याऽनुत्पतौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः / अस्मदादीनामेवानुमानिक्यपेक्षाबुद्धिरस्त्विति चेत्, न / इतरेतराश्रयप्रसङ्गात् / जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानम्, तस्मिन् सति व्यणुकादिक्रमेण स्थूलोत्पत्तिः / अस्तु अदृष्टादेव परिमाणम्, कृतमपेक्षाबुद्धयेति चेत् / न / अस्तु तत एव सर्वम्, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति / 134. इष्ट एवायमर्थ इति शङ्कते - एवमिति / दोषमाह - परमाण्विति / परमाणुकार्यस्य महत्त्वप्रसङ्गः। कारणबहुत्वस्यान्यत्र महत्त्वहेतुत्वेन निरूपित[त्वात्] अत्रापि च कारणबहुत्वोपलभ्यमानत्वात् / ननु परमाणुभ्यामारब्धस्यैव परमाणुभिरप्यारम्भे अणुत्वमेव भविष्यतीत्यत्र बाधकमाह - अन्यथेति / नन्वणूनां सङ्ख्यावैचित्र्यमणुपरिमाणतारतम्यसंपादनाय भविष्यतीत्याशक्य परिहरति - अणुन एवेति / तथापि तारतम्ये सङ्ख्यैव प्रयोजिकेत्यर्थः / यदा च व्यणुकबहुत्वं त्र्यणुकमहत्त्वारम्भकं तदा [त]दुत्पत्तावपेक्षाबुद्धिर्वक्तव्या / सा च नास्मदादीनामपरोक्षा संभवति व्यणुकानामतीन्द्रियत्वात् / नाप्यानुमानिकी लिङ्गाभावात् / न च कार्थ(य)लिङ्गम्, तस्य महोत्त्वोत्पत्तेः पूर्वमत्यन्तपरोक्षत्वात् / तद् यस्य व्यणुकविषयिण्यपरोक्षाकारा बुद्धिः स परमेश्वर इत्याह - तद् यस्यासौ स सर्वज्ञ इति / प्रयोगस्तु - व्यणुकबहुत्वं कस्यचिदपेक्षाबुद्धिजन्यम्, बहुत्वात्, पटगतबहुत्ववत् / त्र्यणुकमहत्त्वं बहुत्वसङ्ख्याजन्यम्, परिमाणप्रचयानपेक्षत्वे सति महत्त्वात्, त्रितन्तुमहत्त्ववदिति / यदि पक्षे बाधकमाह - अन्यथेत्यादिना / सुबोधमितरत् /