________________ 156 * वामध्वजकृता सृङ्केतटीका तरगोचरार्थत्वमात्रमिति चेत्, न / तस्य वेदेऽपि सत्त्वात्, एकस्याप्यर्थस्य शाखाभेदेन बहुभिर्वाक्यैः प्रतिपादनात् / अस्त्वेवं, न तु तेषां मिथो मूलमूलीभाव इति चेत्, न / उक्तोत्तरत्वात् / संख्याविशेषात् खल्वपि / व्यणुकत्र्यणुके तावत् परिमाणवती द्रव्यत्वात् / तच्च परिमाणं कार्यं कार्यगुणत्वात् / न च तस्य परमाणुपरिमाणं द्वयणुकपरिमाणं वा कारणम् / नित्यपरिमाणत्वात्, अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात् / द्वयणुकस्य महत्त्वप्रसङ्गाच्च त्र्यणुकवत् अण्वारभ्यत्वाविशेषात् / तत्र कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थितेः / अणुत्वमेव महदारम्भे विशेष इत्यपि न युक्तम् / महतो महदनारम्भप्रसङ्गात् / अणुत्वमहत्त्वयोविरुद्धतया एकजातीयकार्यानारम्भकत्वप्रसङ्गात् / बहुभिरपि परमाणुभिभ्यिामपि द्वयणुकाभ्यामारम्भप्रसङ्गाच्च / / 133. ननु किमिदं पौरुषेयत्वम् ? - किं साक्षात् स्वतन्त्रपुरुषपूर्वका त्वं] परम्परया स्वतन्त्रपुरुषपूर्वकत्वं वा / न तावदाद्यः, परम्परापूर्वेप(पूर्वकेषु) वाक्येषु तदभावेन वाक्यत्वस्य व्यभिचारित्वात् / नापि द्वितीयः, प्राथमिकवाक्ये तदभावे[न] व्यभिचारित्वात् / किं स्वातन्त्र्यं वाक्यानुकूलविवक्षादिमत्त्वम् ? तदा सर्वत्रसम्भवात् सिद्धसाधनम् / अथ सर्वविषयज्ञानादिशालित्वं तदा दृष्टान्ताभाव इत्याशयसहिता(तः) कारीष' दूषणं हृदि निधाय साध्यानुप्रवेशं दर्शयितुं साध्यं विवेचयति स्वतन्त्रेत्यादिना / स्वातन्त्र्यमित्यनेन आदर्शनभूतानुपूर्वीविज्ञानरहितस्य वाच्यवाचकत्वं स्वातन्त्र्यम्, तच्च साक्षात् परम्पराविशेषेणोदासीनसाध्यमिति न व्यभिचार इति त(ता)त्पर्य[म्] इति / स्वातन्त्र्यमित्यथवा आदिभूतं वाक्यं पक्षीक्रियते / आदिभूतं वेदा(द)वाक्यं स्वतन्त्रपुरुषपूर्वकं वाक्यत्वात् / अभिन्नवा[130B]चकविनिर्मितप्रथमवाक्यवत् / इयं च वाक्यपरम्परा आदिवाक्यवती वाक्यपरम्परात्वात् / कालिदासकृतवाक्यपरम्परावत् / किञ्च, प्रमाणान्तरगोचरार्थत्वं किं शब्देतरप्रमाणान्तरगोचरार्थत्वं वा मानान्तरगोचरार्थत्वमात्रं वा मूलभूतमानान्तरगोचरार्थत्वं वा / साध्यव्यापकतया नाद्यस्योपाधित्वमित्याह - मन्वादीति / द्वितीयमाशङ्क्य साधनव्यापकतया नोपाधिरिति परिहरति - प्रयुज्यमानेत्यादिना / तृतीयस्यापि साधनव्यापकतया नोपाधित्वमित्याशय परिहरति - अस्त्वेवमिति / न, उक्तोत्तरत्वात् / प्रणेतृमूलभूतप्रमाणान्तरगोचरार्थत्वस्यासिद्धेरन्यं प्रत्यनैकान्तिकत्वादित्यनेन ग्रन्थेनेत्यर्थः / सङ्ख्याविशेषाच्चेति / व्याख्यातुमुपक्रमते व्यगुणकत्र्यणुके तावदिति / व्यणुकपरिमाणमादाय विचारयति - न च तस्येति / / द्वयणुकपरिमाणस्येत्यर्थः / नित्यपरिमाणत्वादिति आकाशपरिमाणवदिति शेषः / यदि च वैयात्वात् परो ब्रूयात् परममहत्परिमाणमेव नास्तीत्यतोऽपरितोषाद् द्वितीयहेतुमाह - अणुपरिमाणत्वाद् मनःपरिमाणवदिति / स्वसिद्धेनोभयसिद्धेनैकपरमाणुपरिमाणवदिति द्रष्टव्यम् / ननु द्रव्यानारम्भकपरिमाणत्वप्रयुक्तं हि गगनपरिमाणस्यानारम्भकत्वमेवं मन:परिणाणस्यापि / या(य)दि नित्यपरिमाणत्वेनानारम्भकत्वमणुपरिमाणत्वेन वा तदा नित्यसङ्ख्यात्वेन च सङ्ख्याया अप्यनारम्भकत्वं सङ्ख्यात्वमुपाधिस्तत्रापि द्रव्यानारम्भकपरिमाणत्वे उपाधिरिति समानम् / मैवम् अनारम्भकपरिमाणस्यापि व्यणुकपरिमाणस्य परिमाणानारम्भकत्वदर्शनेन साध्याव्यापकत्वेन अनुपाधित्वात् / तथाहि [131A] [णु]परिमाणं तावन्न त्र्यणुकपरिमाणस्यासमवायिकारणम्, तथा व्यणुकपरिमाणस्यापि, महज्जातीयताप्रसङ्गात् / अणुपरिमाणादनारभ्यमहज्जातीयत्वोपलम्भा[द्] व्यणुकपरिमाणमपि तज्जातीयं स्यात् / तस्मादेतद्बाधक[व]शेन न द्व्यणुकपरिमाणं परिमाणान्त[रा]रम्भकम् / अतो ना(नो)क्तमुपाधिरित्याशयवान् 1. अर्थो न स्पष्टः /