________________ 155 * न्यायकुसुमाञ्जलि स्तबकः 5 संप्रतितनं वाक्यं च भवतीत्यादिवाक्ययोरपौरुषेयत्वप्रसङ्गात् / तथा च साध्याव्यापकतया[129B] नोपाधिरित्युपाधौ विशेषदोषम् / एतेनैव वेदस्याध्ययनं पूर्वाध्ययनपूर्वकं वेदाध्ययनत्वात् अधुनातनाध्ययनं यथा' इति निरस्तम् / अतः सिद्धसाधनादन्यत्र हेतोरसिद्धत्वाच्च / ननु वेदकर्तृस्मृतिर्या साऽर्थवादनिबन्धना न तु पारम्पर्येणाभियुक्ता / 132. अर्थवादमात्रमिदमिति चेत्, न / कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् / तथा चास्मरणे कालिदासादेरस्मरणात् / एवं च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः / अनैकान्तिकत्वं वा हेतोः / प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेत्, न, प्रणेतारं प्रत्यसिद्धेः / अन्यं प्रत्यनैकान्तिकत्वात् / आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात् / वक्तैव प्रकृते न सम्भवति / हेत्वभावे फलाभावात् / चक्षुरादीनां तत्रासामर्थ्यात् / अस्मदादीन्द्रियवत् / मनसो बहिरस्वातन्त्र्यात् / न / चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् / नित्यनिराकरणे चासामर्थ्यात् / परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेत्, न / द्रष्टारं प्रत्यसिद्धेः / अन्यं प्रति सिद्धसाधनात् / तथापि वाक्यत्वं न प्रमाणम् / अप्रयोजकत्वात् / प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वम्, न तु वाक्यत्वप्रयुक्तम् / न / सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात् / प्रमाणवाक्यस्य सत इति चेत्, न / प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवेशात् / 132. अध्येतारः कर्तारं स्मरतीत्याशङ्कते - अर्थवादेति / अयमभिप्रायः / अर्थवाद इति 'आदित्यो यूपः' इत्यादिवन्मुख्यार्थेऽप्रमाणम्, स्तुतित्वात् किमविध(ध्य)र्थोऽयं वा / न प्रथमो बाधकाभावेन / अन्यथा यन्न दुःखेन सञ्चित्त(सम्भिन्न)मित्यादिवाक्यानां स्वार्थपरित्यागेन साधुसम्पादितम् / ब्राह्मणवाक्यानामुपदेशरूपत्वात् / द्वितीये तु न किरि(ञ्चि)द्वी(द्बा)च्य(ध्य)ते इत्याशयवानाह - न, कर्तृस्मरणस्येति / न चाविध्यङ्गता(त)याऽप्यप्रमाणमुक्तदोषप्रसङ्गात् प्रत्यक्षाद्यप्रामाण्यप्रसङ्गादिति भावः / अनैकान्तिकत्वमुक्तं स्पष्टीकरोति / आकस्मिकेति / दृष्टकारणोपहारमन्तरेण जातस्मितस्य यद् बीजं सुखानुस्मरणलक्षणं कारणं [त]स्येत्यर्थः / ननु हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा / - - प्रागुक्तम् 'विषयपरतन्त्रो बहिर्धर्मो न' इति / सर्वज्ञो वेदकर्ता न संभावनामात्रास्पदमपीति मण्डनोक्तमाशङ्कते - वक्तैवेति / ईश्वरस्तज्ज्ञानं वा तन्मनो वा नास्ती(नाती)न्द्रियार्थदर्शि(र्शी) नातीन्द्रियविषयं नातीन्द्रिये प्रवर्तते पुरुषत्वात् ज्ञानत्वात् मनस्त्वात् अस्मदादिज्ञानादि[वत्] मनोवदिति प्रयोगाः / एतदपि पागेव निरस्तमित्याह - न, चेतनस्येत्यादि / अपि चैवं कारणा[130A] भावात् कार्यज्ञानं मोपजायताम् अकार्यज्ञानं तु कुतो निवर्त्यतामित्याशयवानाह - नित्येति / बो(बा)धकान्तरमाशय निराकरोति - परमाण्वादय इति / वाक्यत्वस्याप्रयोजकतामाशक्य निषेधति - तथापीति / प्रमाणान्तरगोचरार्थत्वमुपाधिरिति किं निर्विशेषणम् उत प्रमाणस्य सत इति विशेषितं वा / नाद्यः, सुगताद्यागमानां पौरुषेयाणामपि प्रमाणान्तरगो[च]रत्वविरहिणा(णां) प्रमाणान्तरगोचरार्थत्वस्य साध्याव्यापकतयाऽनुपाधित्वादित्याह - नेति / द्वितीये तु साध्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाद्वा व्याप्यव्यापकभावस्येति नोपाधित्वमित्याह - न, प्रणेतृप्रमाणेति / 133. स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् / अर्थप्रतीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातत्र्यम् / मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च / तदर्थस्य शब्देतरप्रमाणागोचरत्वात् / प्रयुज्यमानवाक्ये