________________ __154 * वामध्वजकृता सङ्केत्तटीका निपुणतरेत्यादि / पिताऽहमस्येत्यादि / ब्रह्मणोऽप्यहमेव पिता माता धातेत्यादि / यद्यहं कर्मणि न वर्तेयं त[दा] इमे लोका उत्सीदेयुरिति / व्यवहितसम्बन्धः / लोक्यत इति लोकाः प्रामाणिकव्यवहारा इत्यर्थः / कुत इत्यत आह - यतो मम वर्मेति / एतेनेति / घटादिव्यवहारस्य स्वतन्त्रपुरुषपूर्वकत्वव्युत्पादनेन कुलालकर्मानादिदेहवतो महेश्वरस्यैव तथाभावादित्यर्थः / प्रत्ययादिति / 'प्रत्यय'शब्दः समाश्वासपर्यायः, स्वविषयप्रामाण्यं लक्षयति प्रत्ययशब्देनेति / लक्षणबीजमविनाभावमाह - न हीति / न तु प्रमाणत्वादित्यसिद्धमित्यत आह - न चेति। न चाप्रतीतौ प्रामाण्यस्य पारलौकिकफले कर्मणि प्रेक्षावत: प्रवृत्त्युपपत्तिरित्यर्थः / ननु तथापि तेन कारणगुणपूर्वकेणैव भवितव्यमित्यत्र किं नियामकमित्यत आह - न च स्वत इति / ननु तथापि प्रमाणत्वाद् गुणवद्वक्तृमात्रं सिद्ध्येत सर्वज्ञस्तु कुतः सेत्स्यतीत्यत आह - न चासर्वज्ञ इति / 131. श्रुतेः खल्वपि / तथाहि - सर्वज्ञप्रणीता वेदाः, वेदत्वात् / यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदो यथेतरवाक्यम् / ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात्, अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेत्, न / अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् / न ह्यस्मदादीनां प्रत्यक्षादि मूलम् / भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् / नापि परम्परैव मूलम्, महाप्रलये विच्छेदादित्युक्तम् / अन्वयतो वा / वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्, अस्मदादिवाक्यवत् / अस्मर्यमाणकर्तृकत्वान्नैवमिति चेत्, न / असिद्धेः / अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः / प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते // 'वेदान्तकृद्वेदविदेव चाहम्' इति स्मृतेः / तस्मात् 'यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे' इत्यादिश्रुतिपाठस्मृतेश्च / ___131. श्रुतेरिति / वेदत्वादित्यर्थः / ननु सर्वज्ञनिर्मिता सर्वज्ञप्रणीता वेत्यर्थो विवक्षित: / नाद्यः, तथा चाङ्करादिः(देः) सर्वज्ञनिर्मितात् सपक्षादपि व्यावृत्त[229B]त्वेनासाधारण्यमिति / न, सपक्षाभावाभ्युपगमेन व्यतिरेकिणः सर्वत्र प्रवृत्तिस्वीकारात् निश्चितसाध्यधर्मा धर्मी सपक्षः, न चाङ्करादेस्तथात्वं निश्चितं यत उक्तदोषः / न च कार्यत्वानुमानापेक्षं सर्वज्ञप्रणीतत्वानुमान: यतः परस्परनिरपेक्षमेव हि कार्यत्वादिकं सर्वशं साधयति / न च संदिग्धसाध्येपु निश्चितसाध्यता मु(उ)क्ता / न च सर्वज्ञप्रतीतौ सपक्षता / न च सर्वज्ञः / न किञ्चिदभ्युपगतं परैः / अतोऽन्यदो(दु)दाहरणसंभवाद् व्यतिरेकोदाहरणमाह - यत् पुनरिति / आभासविनाशपूर्वकं वेदत्वं हेतुत्वं समर्चयते - नन्विति / विरुद्धत्वादिति / विप्रलम्भकवाक्यस्याप्यदृष्टविषयत्वात् / पक्षविपक्षयोर्वर्तमानो हेतुविरुद्धः / वाक्यत्वादिति समृ(संग)हीतहेतु(तुं) व्याचष्टे / वाक्यत्वादिति हेतुतो वेदान् पक्षीकृत्य सर्ववित्साधनीय [इति] भावः / अत्र परः सत्प्रतिपक्षत्वं यथाश्रुतेन व्यतिरेकेणे(ण) वोपाध्युद्भाव[ने]न वा स्मरणानुपलब्धिबाधतो वेति दूषणमाशङ्कते - अस्मर्यमाणेति / तृतीयमपि नोत्प(नोपप)द्यत इत्याशयवानाह - [अ]सिद्धेरिति / असिद्धेन न सत्प्रतिपक्षत्वम् / न च साधनव्यापकस्योपाधित्वम् / न चासिद्धाया अनुपलब्धि(ब्धे)र्बाधकत्वमिति रहस्यम् / अपि चोपाधिपक्षेऽनुभूतविस्मृतवक्तृकवाक्यस्यापौरुषेयत्वप्रसङ्गः / तथाऽनुभूयमानाननुभूतचरवक्तृकं