Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 164 * वामध्वजकृता सृङ्केतटीका प्रकृतिरूपस्य कृञः प्रयत्नवाचकत्वेऽन्यस्य करोतीत्यादौ लिङादेस्तद्विपर्ययस्तदवाचकत्वमापद्यते / प्रकृतिप्रत्यययोः समानार्थयोरपि क्व[चिद्] विशिष्टप्रयोगो दृश्यत इत्यत आह - एको द्वावित्यादि / अथैवममीषां नैकार्थत्वमात्रम्, किं तर्हि भिन्नार्थतेत्यत्रापि समानमुत्तरमित्याहुः - तत्र द्वितीयसङ्ख्येति / यद्येक इत्यत्र प्रातिपदिकेनाप्यन्यदेकत्वमभिधीयते विभक्त्याऽप्यन्यदित्यभिमतं तदा करोतीत्यत्रापि प्रकृत्याऽप्यन्यः प्रयत्नोऽभिधीयते [135B] प्रत्ययेनाऽप्यन्य इति समः समाधिरित्यर्थः / ननु प्रयत्नसम्भवासम्भवाभ्यां करोतेः प्रयोगदर्शना[द्] 'देवदत्तो गच्छति' 'रथो गच्छति' ततश्च धात्वर्थसामान्यमेव करोत्यर्थ इति साम्प्रतम् / यथोक्तम् - भावाभावप्रयोगस्य द्विविधा खलु दर्शनात् / धात्वर्थवति सामान्य(न्यं) करोत्यर्थमुपागमत् // इत्याशयवानाशङ्कते - रथो गच्छतीति / 141. तन्तवः पटं कुर्वन्तीत्यत्र या / लोकोपचारोऽयमपर्यनुयोज्य इति चेत्, तुल्यम् / लिङः कार्यत्वे वृद्धव्यवहाराद् व्युत्पत्तौ सर्वं समञ्जसम् / आख्यातमात्रस्य तु न तथेति चेत् / न, विवरणादेरपि व्युत्पत्तेः / अस्ति च तदिह - किं करोति ? पचति पाकं करोतीत्यर्थः इत्यादिदर्शनात् / तथापि फलानुकूलताऽऽपन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानकल्पनायां कल्पनागौरवं स्यात्, अतो विवरणमपि तावन्मात्रपरमिति चेत् / भवेदप्येवं यदि पाकेनेति विवृणुयात्, न त्वेतदस्ति / धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् / ततस्तं प्रत्येव किञ्चिदनुकूलताऽऽपन्नं प्रत्ययेनाभिधानीयमिति युक्तम् / तथापि तेन प्रयत्नेनैव भवितव्यम्, न त्वन्येनेति कुत इति चेत् / नियमेन तथा विवरणात् / बाधकं विना तस्यान्यथाकर्तुमशक्यत्वात् / अन्यथा अतिप्रसङ्गात् / स्यादेतत्, यस्य कस्यचित् फलं प्रत्यनुकूलतापत्तिमात्रमेव करोत्यर्थः, न तु प्रयत्न एव, सोऽपि ह्यनेनैवोपाधिना प्रत्ययेन वक्तव्यः, न तु यत्नत्वमात्रेण, प्रयत्नपदेनाविशेषप्रसङ्गात्, तद्वरं तावन्मात्रमेवास्तु लाघवाय, अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वावुपाधी कल्पनीयौ, अचेतनेषु सर्वत्र गौणास्तिङोऽसति बाधके कल्पनीया इति चेत् / ___141. 'गङ्गायां जलम्' 'गङ्गायां घोषः' इतिवल्लौकिकप्रयोगस्योभयथादर्शनादित्याशयवान् परिहरति - तन्तव इति / न च वाच्यं तन्तव: पटं कुर्वन्तीत्यत्र मुख्यार्थत्वे किमनुपपन्नम् / न हि करोतिरपि प्रयत्नार्थः किन्तु क्रियासामान्यवचन इत्यभ्युपगमः / नापि तन्तूनां कर्तृत्वानुपपत्तिः, न हि ज्ञानां(ना)दिसमवायकर्तृत्वं, किन्तु कारकाव(न्त)रनैरपेक्ष्यमित्यन्ये / धातुप्रत्ययमभिधीयमानव्यापारवत्त्वमर्थोऽपि तन्तवः पटमुत्पादयन्ति / मिथो यः संयोगः स तेषामुत्पादनमिति / न चैवं काचिदनुपपत्तिराविरस्तीति / स्यादेतदित्यादिनैतदेवाशक्य तदेव निराकरिष्यमाणत्वादिति / इह प्राभाकरा अपि 'भावार्थाः कर्मशब्दाः' इति सूत्रस्थाच्छब्दद्वयादित्यादितो धात्वर्थ एकां काञ्चिदवस्थामापन्नो भाव इति व्याचक्षते / तथाहि धातुः स्वरूपेण भावमाचष्टे, आख्यातं तु यावता कर्मक्षणे निरूपणं फलं सिद्ध्यति तावति वर्तते, 'ओदनं पचति' इति दर्शनात्, न टेकेन कर्मक्षणेनोदनः सिद्धयतीति / तदर्थस्य आख्यातप्रयोगो विरुध्यते / [136A] अतः फलार्थो व्यापारसमूहो भाव्यत्वाद् भावनेत्युच्यते, भाव्यमानश्चासौ फलं साधयतीत्याशङ्कते-तथापीति / अयमर्थः / योऽयं पाकादिरूपो धात्वर्थस्तस्य या फलानुकूलता सैवाख्यातप्रत्ययेनाभिधीयताम् / अन्यथा कल्पनागौरवात् / न तु प्रयत्नाभिधानकल्पना, तत्र प्रमाणाभावात् / तस्माद् विवरणमपि करोतीत्यादिपदं धात्वर्थस्यैव फलानुकूलतामुपदर्शयति / न [तु] प्रयत्न
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210