Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 162 * वामध्वजकृता सृङ्केतटीका पत्तिरिति / एतेन रुद्र-उपेन्द्र-महेन्द्रादिदेवताविशेषवाचका व्याख्याताः / अपि च अस्मत्पदं लोकवद् वेदेऽपि प्रयुज्यते, तस्य च लोके नाचेतनेष्वन्यतमदर्थः, तत्र सर्वथैवाप्रयोगात् / नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रसङ्गात् / अपि तु यस्तं स्वातन्त्र्येणोच्चारयति तमेवाह तथैवान्वयव्यतिरेकाभ्यामवसायात् / ततो लोकव्युत्पत्तिमनतिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः, अन्यथाऽप्रयोगप्रसङ्गात् / न च यो यदोच्चारयति वैदिकमहंशब्दं स एव तदा तस्यार्थ इति युक्तम् / तथा सति मामुपासीतेत्यादौ स एवोपास्यः स्यात् / अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्यं समधिगच्छेत्, तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् / लोकव्यवहारश्चोच्छिद्येत / तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते वेदे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति / एवमन्येऽपि यः कः स इत्यादिशब्दाः द्रष्टव्याः / तेषां बुद्ध्युपक्रमप्रश्नपरामर्शाद्युपहितमर्यादत्वात्, तस्य च वक्तृधर्मत्वात् / बुद्ध्युपक्रमो हि प्रकृतत्वम्, जिज्ञासाऽऽविष्करणं च प्रश्नः, प्रतिसन्धानं च परामर्शः इति / एवं च संशयादिवाचका अप्युन्नेयाः / न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् / शिष्यप्रतिबोधनायाहार्यत्वेनाविरोधात् / को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति / एतेन धिगहो बत हन्तेत्यादयो निपाता व्याख्याताः / 138. प्रागेव प्रतिषेधादिति / प्रमाणबाधकस्य पूर्वपूर्वप्रमाणनिरपेक्षमुत्तरोत्तरप्रमाणमिति हृदि निधाय प्रमाणाभावमाशङ्क्योभयसिद्धस्वर्गतुल्यतया समाधाय प्रयोगमाह - अत्रापीत्यादिना जगत्कर्तरीत्यन्तेन / विपक्षे बाधकमाह - अन्यथेति / को धर्म इति / 'अथातो धर्मजिज्ञासा' इति सूत्रमवतारयितुं शिष्यजिज्ञासामुपादाय कारिकाप्रथमपादभाष्यम् - 'को धर्मः कथंलक्षणकः कान्यस्य साधनानि' इत्यादि / तत्र यथेत्यर्थः / एतेनेति बुद्ध्याधुपक्रमादीनां पक्षधर्मत्वेन / धिगादिशब्दार्थानामपि पक्षधर्मत्वादित्यर्थः / धिक्पदं निन्दामाचष्टे / निन्दा चाप्रशस्तज्ञानम् / 'अहो' आश्चर्यमाचष्टे अपूर्वोऽयम् अपूर्वोऽदृष्टपूर्वोऽयमिति / बुद्धिराश्रयी / बतपदं खेदमाचष्टे। दुःखानुभवश्च खेदः / हन्तपदं सोभन(संबोधन)माह / सम्बोधनं च संबोध्यविषयवक्तृज्ञानमिति / 139. प्रत्ययादपि लिङादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रतिपादयन्ति / तथाहि प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा / तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा // 7 // __ प्रवृत्तिः खलु विधिकार्या सती न तावत् कायपरिस्पन्दमात्रम्, आत्मा ज्ञातव्य इत्याद्यव्यापनात् / नापीच्छामात्रम्, तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् / ततः प्रयत्नः परिशिष्यते / आत्मज्ञानभूतदयादावपि तस्याभावात् / तदुक्तम् - 'प्रवृत्तिरारम्भः' इति / सेयं प्रवृत्तिर्यतः सत्तामात्रावस्थितात् नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् / अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् / न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थं तदभ्यर्थनाभावात् / न च प्रवृत्तिहेतुजननार्थं तदुपयोगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् / ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्यत्वात्, तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्तकत्वाच्च, नियामकाभावात् / तस्माद् यस्य ज्ञानं प्रयत्नजननीमिच्छां प्रसूते सोऽर्थविशेषस्तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्तना नियुक्तिर्नियोग उपदेश इत्यनर्थान्तरमिति स्थिते विचार्यते / स हि कर्तृधर्मो वा स्यात्, कर्मधर्मो वा, करणधर्मो वा, नियोक्तृधर्मो वेति /
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210