Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 160 * वामध्वजकृता सृङ्केतटीका त्वनियमापत्तिः / न ह्यसर्वज्ञाविशेषे पूर्वेषां तदवबोधः प्रमाणम्, न त्विदानींतनानामिति नियामकमस्ति / _136. यदा वेदे पुरुषाभिप्रायो नाभ्युपगम्यते तदा श्रुतार्थापत्तेढुंत्पादनवैयर्थ्यमित्याह - अपि चेति / तस्मादभिप्रायस्थ इति / ननु च स्वयं स्मृतानामेव पदानामनुच्चारितानामपि श्रुतपदैः सहैकार्थप्रतिपादनतात्पर्यवत्तापरिकल्पनमेव श्रुतार्थापत्तिविषयो भविष्यतीति न तु स्वतन्त्रपुरुषाभिप्रायविषयकल्पनेति चेत् / न, वेदे हि परस्परसमभिव्याहृतानामेकार्थप्रतिपादनतात्पर्यमुपलब्धम् / तत्र यदि समभिव्याहारमन्तरेणैकार्थप्रतिपादकत्वं स्यात् तदा निश्चित एव नियमो भाष्यते / तेषां च समभिव्याहारः स्वतन्त्रपुरुषोच्चारणविषयतया वा स्वतन्त्रपुरुषाभिप्रायविषयतया वेति / तदाधारपुरुषधौरेयसिद्धिरित्याशयवानाह - गत्यन्तराभावादिति / तद्विपरीतो वेति। अध्यापितधारितवेदवेदार्थ इत्यर्थः / तथा चेतिहासपुराणादिषु श्रूयते - भगवता परमेश्वरेण किल सर्गादौ मन्वादयो वेदादिकमध्याप्यन्ते / सर्ववेदार्थविद्या(व्या)[ख्या]तत्वमभिप्रेतम्, अन्यथा दृष्टान्तस्य संदिग्धसाध्याश्रयत्वप्रसङ्गात् / न त्वेकदेशदर्शिनो व्याख्यातादपि ग्रन्थान्तरात् शिष्याणामुपाध्यायबोधश्रद्धया प्रवर्तमानात्वा(नां) निश्चलानुष्ठानय(म)स्ति / न च तदनुष्ठानमूलस्य ग्रन्थस्य समस्ततदर्थविद्व्याख्यातत्वमित्यत आह - अनुष्ठातृमतिचलनेऽपीति / न हि तत्रानुष्टातॄणामव्यवस्थितमतित्वमस्तीति / अनुष्ठातृमतिचलनादि(दी)ति तु केवलं सपक्षधर्मभूतमिति [133A] विशेष्यपदोपादानम् / अननुष्ठानमित्यत्र हेतुमाह - अव्यवस्थानादिति / अर्थानिश्चयादिति शेषः / इतरच्च / अनियतमनुष्ठानं भवेदित्याह - अ[न]नुष्ठान[म]व्यवस्था वेति / अर्थनिश्चयाव्यवस्थानादिति शेषः / कुत इत्यत आह - अनादेशिकत्वात् इति / अनौपदेशिकत्वादित्यर्थः / न तु पूर्वपुरुषैर्ययत्वा(पैर्यथा) गृहीतो वेदार्थस्तथा प्रमाणम्, इदानीन्तनानां न स्वतन्त्रस्तद्बोधो न प्रमेति न नियमो भविष्यतीत्याह - न सर्वज्ञत्वाविशेष इति / स्मृतीतिहासेषु प्रयुज्यमानत्वात्, घटादिपदवत् इति सामान्यतः सिद्धे कोऽस्यार्थः ? इति व्युत्पित्सोविमर्श सति निर्णयः, स्वर्गादिपदवत् / उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / इत्यर्थवादात्, यव-वराहादिवद् वाक्यशेषाद् वा / तद् यथा ईश्वरप्रणिधानमुपक्रम्य श्रूयते - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः / अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य // इति // 137. यववराहादिवदिति / 'यवमयश्चरुर्भवति' 'वाराही चोपानह:' 'वैतसे कटे प्राजापत्यां(त्यं) चिनुयात्' इत्यत्र यववराहवेतसशब्देषु संशयः किमेते दीर्घशूक[शूक] रवञ्जुलानां वाचकाः उत कङ्गवायसजम्बूनामिति / अत्र पूर्वपक्षः - म्लेच्छव्यवहारात् तावत् कङ्ग्वादावेव शक्तिनिरूप्यते न यवादौ, आर्यव्यवहारास्तु(त्तु) यवादावेव शक्तिनिरूप्यते न कङ्ग्वादिगोचरतयेति / वाक्यार्थेति यन्निदर्शनात् पदार्थानामध्यवसायः / न चोभयव्यवहारसामर्थ्यबलेनोभयत्रापि शक्तिरस्त्विति वाच्यम् / यस्मादेकत्र शक्तिकल्पनायामन्यत्र गौणतयापि प्रयोगसम्भवात् शक्तिकल्पनानुपपत्तिः / नन्वेकत्रापि शक्तिरवधार्यमाणा
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210