Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ _157 * न्यायकुसुमाञ्जलि स्तबकः 5 विपक्षे बाधकमाह - अन्यथेति / यदि व्यणुकपरिमाणमारम्भकं स्यात् तदा परिमाणस्य सजातीयप्रकृष्टपरिमाणजनकत्वप्रतिबन्धा[द्] व्यणुकपरिमाणजनकत्वं वक्तव्यम् / न च परमाणोरपि परमसूक्ष्मपरिमाणस्याश्रयभूतं किञ्चिद् वस्तु विद्यते / अतः परमाणुपरिमाणात् परं सूक्ष्मं परिमाणमुत्पद्यमानम् अनाश्रयं स्यात् / न चानाश्रयं कार्यमस्तीत्यनाश्रयकार्योत्पत्तिप्रसङ्ग इत्यर्थः / अणुपरिमाणस्य परिमाणारम्भकत्वे बाधकान्तरमप्याह - द्वयणुकस्येति / यदि व्यणुकपरिमाणं महत्त्वकारणं स्यात् तदा द्वयणुकेऽपि महत्त्वपरिमाणं प्रसज्येत / अथ त्र्यणुके बहुत्वं महत्त्वारम्भकं तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्यैय(व) तावदारम्भिका सिद्धेत्यनारम्भकमणुत्वमिति / त्वयैव समर्थितमित्याह - तत्र कारणेति / किञ्चाणुत्वस्य महत्त्वारम्भकत्वमवधारणेन वा व्यवस्था(स्थ)या वा। प्रथममाशङ्क्य दूषयति - अणुत्वमेवेति / व्यवस्था(स्थां) दूषयति - अणुत्वमहत्त्वयोरिति / अणुत्वमहत्त्वयोर्विरुद्धतया विरुद्धजातीयतयाऽणुत्वपरिहारेण महत्त्वान्महत्त्वोत्पत्तिदर्शनात् महत्त्वव्यभिचारेणाणुत्वा[131B]न्महत्त्वोत्पत्तिदर्शनान्नोभयोरपि कारणत्वमुपपद्यत इत्यर्थः / यदि च सङ्ख्या न कारणं किन्त्वणुपरिमाणं तदा [ब]हुभिरपि परमाणुभिर्वाभ्यामपि व्यणुकाभ्यां त्र्यणुकारम्भप्रसङ्ग इत्यत आह - बहुभिरपीति / 134. एवं सति को दोष इति चेत् / परमाणुकार्यस्य महत्त्वप्रसङ्गः / कारणबहुत्वस्य तद्धेतुत्वात् / अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् / अणुन एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् / अस्तु महदारम्भ एव त्रिभिरिति चेत्, न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् / तथापि वा तारतम्ये संख्यैव प्रयोजिकेति / न च प्रचयोऽपेक्षणीयोऽवयवसंयोगस्याभावात् / तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः / अतोऽनेकसंख्या परिशिष्यते / सा अपेक्षाबुद्धिजन्या, अनेकसंख्यात्वात् / न चास्मदादीनामपेक्षाबुद्धिः परमाणुषु सम्भवति / तद् यस्यासौ सर्वज्ञः / अन्यथा अपेक्षाबुद्धेरभावात् संख्याऽनुत्पतौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् त्र्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः / अस्मदादीनामेवानुमानिक्यपेक्षाबुद्धिरस्त्विति चेत्, न / इतरेतराश्रयप्रसङ्गात् / जाते हि स्थूलकार्ये तेन परमाण्वाद्यनुमानम्, तस्मिन् सति व्यणुकादिक्रमेण स्थूलोत्पत्तिः / अस्तु अदृष्टादेव परिमाणम्, कृतमपेक्षाबुद्धयेति चेत् / न / अस्तु तत एव सर्वम्, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति / 134. इष्ट एवायमर्थ इति शङ्कते - एवमिति / दोषमाह - परमाण्विति / परमाणुकार्यस्य महत्त्वप्रसङ्गः। कारणबहुत्वस्यान्यत्र महत्त्वहेतुत्वेन निरूपित[त्वात्] अत्रापि च कारणबहुत्वोपलभ्यमानत्वात् / ननु परमाणुभ्यामारब्धस्यैव परमाणुभिरप्यारम्भे अणुत्वमेव भविष्यतीत्यत्र बाधकमाह - अन्यथेति / नन्वणूनां सङ्ख्यावैचित्र्यमणुपरिमाणतारतम्यसंपादनाय भविष्यतीत्याशक्य परिहरति - अणुन एवेति / तथापि तारतम्ये सङ्ख्यैव प्रयोजिकेत्यर्थः / यदा च व्यणुकबहुत्वं त्र्यणुकमहत्त्वारम्भकं तदा [त]दुत्पत्तावपेक्षाबुद्धिर्वक्तव्या / सा च नास्मदादीनामपरोक्षा संभवति व्यणुकानामतीन्द्रियत्वात् / नाप्यानुमानिकी लिङ्गाभावात् / न च कार्थ(य)लिङ्गम्, तस्य महोत्त्वोत्पत्तेः पूर्वमत्यन्तपरोक्षत्वात् / तद् यस्य व्यणुकविषयिण्यपरोक्षाकारा बुद्धिः स परमेश्वर इत्याह - तद् यस्यासौ स सर्वज्ञ इति / प्रयोगस्तु - व्यणुकबहुत्वं कस्यचिदपेक्षाबुद्धिजन्यम्, बहुत्वात्, पटगतबहुत्ववत् / त्र्यणुकमहत्त्वं बहुत्वसङ्ख्याजन्यम्, परिमाणप्रचयानपेक्षत्वे सति महत्त्वात्, त्रितन्तुमहत्त्ववदिति / यदि पक्षे बाधकमाह - अन्यथेत्यादिना / सुबोधमितरत् /
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210