Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 162
________________ 147 * न्यायकुसुमाञ्जलि स्तबकः 5 न कश्चित् विरोध इत्यर्थः / ननु च प्रागेवा[न]योः साक्षात्प्रयत्नाधिष्ठेयत्वमस्ति, न च तदवच्छिन्नप्रयत्नोत्पत्ताविन्द्रियाणामुपयोगोऽस्ति / प्राणसञ्चारणेछायास्वजोवर(च्छायास्तु ज्ञानोत्तर)समीहिता साधनता ज्ञानयोगित्वात् / समीहितसाधनानत(साधनता)ज्ञानस्य चानुमानिकत्वात् / न हि प्राणसञ्चारणं तत्समीहितसाधनताज्ञानं च लिङ्गं विना भवितुमर्हतः / नैव कार्य(य) साक्षात्प्रयत्नाधिष्ठेयत्वप्रसक्तमिदं शरीरत्वम् / ननु साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमिदं शरीर[म्] / ननु साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमित्युपाध्युद्भावने अस्य तात्पर्यादित्यनाकुलमेतदिति / न तृतीयेऽपि व्याप्तिशैथिल्यमिति वक्तुमाह - अत एवेति / सोपाधिसम्बन्धशालित्वादित्यर्थः / क उपाधिरित्यर्थ(त) [125A] आह - न हीति / ज्ञानानित्यत्वमित्यर्थः / भोगमित्यादिकर्तृपदे आयतनकर्मेत्यर्थः / - - - - - - -1 / तस्येति यावदित्यर्थः / तथाऽत्रैव भोक्तृकर्मोपग्रहमुपाधिमादेशयितुं भूमिमार[च] यति - न च नित्येति / नित्यसर्वविषयज्ञानवदित्यर्थः / तेन न साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमर्थाश्रयत्वं किन्तु भोक्तृकर्मोपग्रहप्रयुक्तमित्यर्थः / तस्मात् प्रसङ्गदूषणैरेतदनुग्राह्यो [हेतुरपि दूषितः] / परमाण्वादयो न साक्षाद् चेतनाधिष्ठेयाः शरीरेतरत्वात, नापि परम्पराधिष्ठेयाः स्वव्यापारे शरीरानपेक्षत्वादिति हेतदषितादित्याशयवानपसंहरति - तस्मादिति / परमाण्वादयो न साक्षाच्चेतनाधिष्ठेयाः स्वशरीरेतरत्वादित्यत्र यदा 'शरीर'शब्देन साक्षात्प्रयत्नाधिष्ठेयत्वमपेक्षितं तदा शरीरेतरत्वात् प्रयत्नाधिष्ठितेतरत्वादित्यर्थः संपद्यते / तथा च साध्याविशिष्टत्वमित्यर्थः / एवं च स्वव्यापारे तदनपेक्षत्वात् स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयत्वानपेक्षत्वादित्यर्थः संपद्यते / इदमेव च परम्परानधिष्ठेयत्वमत: साध्याविशिष्टत्वम् / अनिन्द्रियेति / परमाण्वादयो न साक्षाच्चेतनाधिष्ठेयाः शरीरेतरत्वादिन्द्रियाश्रये[त] रत्वादिति यदा पदार्थः तदा परमाण्वादीनामनिन्द्रियाश्रयत्वमित्यन्यथासिद्धः(द्धम्) / शरीरे[125B]त[र]था(त्वा)[द्] भोगायतनेतरत्वादित्यर्थः / तदा भोक्तृकर्मानुपग्रहात् परमाण्वादीनामभोगायतनत्वमचेतनत्वाच्चेतनाधिष्ठितत्वं स्यादित्यन्यथासिद्धिः / स्वव्यापारे शरीरानपेक्षस्यापि परमाण्वादेः स्पर्शवद्वेगवद्रव्यमुत्प(त्पादक)तया परस्परानधिष्ठेयत्वं च स्यात्, स्वशरीरानधिष्ठेयत्वं वेत्यन्यथासिद्धि: / 126. तथा च साक्षात् प्रयत्नाधिष्ठितेतरजन्यत्वादिति साध्यसमः / इन्द्रियाश्रयेतरजन्यत्वाद् हेतुकत्वाच्चेतनाधिष्ठितमपीति को विरोधः / अप्रसिद्धविशेषणश्च पक्षः / न हि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाणसिद्धम् / न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात् / गगनादेरपि सपक्षाद् व्यावृत्तेः / यत् पुनरुक्तम् - कुविन्दादेः पटादौ कथमपेक्षेति / तत्र कारणतयेति कः सन्देहः / किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः / तदेव चाधिष्ठातृत्वम् / यत्तु अधिष्ठिते किमधिष्ठानेनेति / तत् किं कुविन्द उद्धार्यते, ईश्वरो वा, अनवस्था वाऽऽपाद्यते / न प्रथमः / अन्वयव्यतिरेकसिद्धत्वात् / न द्वितीयः / परमाण्वदृष्टाद्यधिष्ठातृत्वसिद्धौ ज्ञानादीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् / न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः / न तृतीयः / तस्मिन् प्रमाणाभावात् / तथाप्येकाधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत् / हेतुप्रश्नोऽयं प्रयोजनप्रश्नो वा ? नाद्यः / ईश्वराधिष्ठानस्य नित्यत्वात् / कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् / न द्वितीयः / कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् / एकाधिष्ठानेनैव कार्यं स्यादिति चेत् / स्यादेव / तथापि न सम्भेदेऽन्यतरवैयर्थ्यम् / परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामोपलब्धौ सम्भूयकारित्वोपपत्तेः / 1. The copyst has left the blank space.

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210