Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 151. न्यायकुसुमाञ्जलि स्तबकः 5 दर्शयितुमाह - तमिममिति / शेषमतिरोहितम् / 129. आयोजनात् खल्वपि - स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् / हेत्वभावे फलाभावो विशेषस्तु विशेषवान् // 4 // परमाण्वादयो हि चेतनायोजिताः प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् / अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः / अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् / क्रियाविशेषविश्रान्तोऽयमर्थः न तु तन्मात्रगोचरः / चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् / अथ केयं चेष्टा नाम ? यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम् / तन्न / तस्यैव तत्रानुपाधित्वात् / अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् / तन्न / विषभक्षणोद्वन्धनाद्यव्यापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् / कर्तारं प्रत्यन्यं वा ? उभयथापि परमाण्वादिक्रियासाधारण्यादविशेषः / भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च / शरीरसमवायिक्रियात्वं तदिति चेत्, न / मृतशरीरक्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः / जीवत इति चेत्, न / नेत्रस्पन्दादेश्चेतनाधिष्ठानाभ्युपगमप्रसङ्गात् / स्पर्शवद्रव्यान्तराप्रयोगे सतीति चेत्, न / ज्वलनपवनादौ तथाभावाभ्युपगमापत्तेः / शरीरस्य स्पर्शवद्रव्यान्तराप्रयुक्तस्येति चेत्, न / चेष्टयैव शरीरस्य लक्ष्यमाणत्वात् / सामान्यविशेषश्चेष्टात्वं यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेत्, न / क्रियामात्रेणैव तदुन्नयनात् / भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्, तर्हि तद्विश्रान्तत्वमेव तस्य / न चैतावतैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते / विशेषस्य विशेष प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् / अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् / एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् / अत्राप्यागमसंवादः - यदा स देवो जागर्ति तदेदं चेष्टते जगत् / यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति // अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् / तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च // इत्यादि / अत्र जागरस्वापौ सहकारिलाभालाभौ / ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वं च हेतू दर्शितौ परमाण्वादिसाधारणौ / स्वर्गश्वभ्रे चेष्टानिष्टोपलक्षणे / एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते मयेत्यादिना / न केवलं प्रेरणायामहमधिष्ठाता, अपि तु प्रतिरोधेऽपि / यो हि यत्र प्रभवति स तस्य प्रेरणावद् धारणेऽपि समर्थः / यथाऽर्वाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना / धृतेः खल्वपि / क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च / एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्याताः / सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः 'आत्मैवेदं सर्वम्' इति / यथैक एव मायावी
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210