Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 149 * न्यायकुसुमाञ्जलि स्तबकः 5 विषयलाभार्थमप्यपेक्षणात् / ततः प्रयत्नाद् बुद्धिः, तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्धयत्येवेति विस्तृतमन्यत्र / कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्तते, न नित्यः / नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्तते, नानित्या / न हि तया तस्य विषयलाभसम्भवः / शरीरादेः प्राक् तदसम्भवे देहानुपपत्तौ सर्वानुपपत्तेः / शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति संक्षेपः / तर्काभासतयाऽन्येषां तर्काशुद्धिरदूषणम् / अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् // 3 // 127. ननु तथापि प्रधानीभूतप्रयत्नपू[126B]र्वकत्वसाध्यपक्षेऽप्यप्रधानीभूता बुद्धिः कुतः सेत्स्यति / प्रयत्नादेवेति चेत्, न, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात्, तथा च प्रयत्नमात्रशाली कर्ता प्राप्त इत्याशक्य निराकरोति - एतेनेति / प्रयत्नानित्यत्वस्यानुपाधित्वेन कुतो निरस्तमित्यत आह - यो हीति / ईश्वरः शरीरी बुद्धिमत्त्वात्, ईश्वरो न बुद्धिमान् अशरीरित्वादित्येवमादि यः साधयति तं प्रति बुद्धि[गत] कार्यत्वमुपाधिरुद्भाव्यते / तथा च यः प्रयत्नेन बुद्धि साधयति - ईश्वरो बुद्धिमान् प्रयत्नवत्त्वात्, ईश्वरो निष्प्रयत्नो बुद्धिशून्यत्वादिति तं प्रति प्रयत्नगतकार्यत्वं बुद्धिसाधने उपाधिरुद्भाव्यते / यदा तु कार्यत्वं प्रति साधनमुच्यते तदा कार्यगतेनोपाधिना तद् दूषणीयम् न तु प्रयत्नगतेन, व्यधिकरणस्यादूषणत्वात् / वयं त्विति / तथाऽस्य कार्यस्य प्रयत्नेनैव ज्ञानेच्छाभ्यामा(म)पि स्वाभाविक एव संबन्ध इति नोपाधिशङ्का / न चैव(वं) तथैव शरीरसम्बन्धप्रयोमोप्रीति(गोऽपीति) वाच्यते व्यापारविरामेऽपि बहिरन्तश्च शाखाभंगध्यानावृत्त्या - - दर्शनादित्यर्थः / कुत इत्यत आह - तत्रेति / स्वभावमात्रनियतसाहित्ये ज्ञानादिसमुदाये साध्यो(ध्ये) / तस्येति कार्यत्वस्य / 'न तु विवादपदमकर्तृक[म्] अनित्यप्रयत्नाजन्य[127A]त्वात् गगनवत्' इति प्रतिरोधानुमानं भविष्यतीत्यत आह - शरीरेति / असमर्थविशेषणत्वादित्यर्थः / परा(रो)क्ततर्काणां पूर्वोक्तानामाभासता(तां) संसाधयन् प्रकृते सकलोपाधिशङ्कानिराकरणपटीयान् अनुकूलस्तर्कोऽस्तीति प्रतिपादयति / तर्काभासेत्यादि सुबोधमिति / ___128. कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः / चेतनाचेतनव्यापारयोर्हेतुफलभावावधारणात् कारणान्तराभावे इव कर्बभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि कारणत्वात् / यस्त्वाह - प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः / प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात्, धूमाग्निवत्, कम्पमारुतवच्च / न हि धूमः कार्योऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरिश्वन इति स्तिमितस्यापि स्यात्, किन्तु भौमस्पृश्ययोरेव / तथेहापि शरीरवत एव कारणत्वमवगन्तुमुदितम्, नान्यस्येति / तदसत् / प्रत्यक्षानुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चिये, न तु दृश्यतैव तत्रोपेया / किं नाम दृश्याश्रितं सामान्यद्वयम् / तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति / यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव, अस्माकं चातीन्द्रियसमवायादिसिद्धौ / न चेदेवमुदाहृतयोरेव दहनपवनयोरालोकरूपवतोस्तदुत्पत्तिनिश्चये कथमनालोकनिरस्तरूपयोः सिद्धिर्यदुदर्यस्तिमितसाधारणी सिद्धिः स्यात् इति / तद्भवेदप्येवं यदि 1. अर्थो न स्पष्टः / 2. The copyst has left the blank space.
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210