________________ 149 * न्यायकुसुमाञ्जलि स्तबकः 5 विषयलाभार्थमप्यपेक्षणात् / ततः प्रयत्नाद् बुद्धिः, तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्धयत्येवेति विस्तृतमन्यत्र / कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्तते, न नित्यः / नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्तते, नानित्या / न हि तया तस्य विषयलाभसम्भवः / शरीरादेः प्राक् तदसम्भवे देहानुपपत्तौ सर्वानुपपत्तेः / शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति संक्षेपः / तर्काभासतयाऽन्येषां तर्काशुद्धिरदूषणम् / अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् // 3 // 127. ननु तथापि प्रधानीभूतप्रयत्नपू[126B]र्वकत्वसाध्यपक्षेऽप्यप्रधानीभूता बुद्धिः कुतः सेत्स्यति / प्रयत्नादेवेति चेत्, न, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात्, तथा च प्रयत्नमात्रशाली कर्ता प्राप्त इत्याशक्य निराकरोति - एतेनेति / प्रयत्नानित्यत्वस्यानुपाधित्वेन कुतो निरस्तमित्यत आह - यो हीति / ईश्वरः शरीरी बुद्धिमत्त्वात्, ईश्वरो न बुद्धिमान् अशरीरित्वादित्येवमादि यः साधयति तं प्रति बुद्धि[गत] कार्यत्वमुपाधिरुद्भाव्यते / तथा च यः प्रयत्नेन बुद्धि साधयति - ईश्वरो बुद्धिमान् प्रयत्नवत्त्वात्, ईश्वरो निष्प्रयत्नो बुद्धिशून्यत्वादिति तं प्रति प्रयत्नगतकार्यत्वं बुद्धिसाधने उपाधिरुद्भाव्यते / यदा तु कार्यत्वं प्रति साधनमुच्यते तदा कार्यगतेनोपाधिना तद् दूषणीयम् न तु प्रयत्नगतेन, व्यधिकरणस्यादूषणत्वात् / वयं त्विति / तथाऽस्य कार्यस्य प्रयत्नेनैव ज्ञानेच्छाभ्यामा(म)पि स्वाभाविक एव संबन्ध इति नोपाधिशङ्का / न चैव(वं) तथैव शरीरसम्बन्धप्रयोमोप्रीति(गोऽपीति) वाच्यते व्यापारविरामेऽपि बहिरन्तश्च शाखाभंगध्यानावृत्त्या - - दर्शनादित्यर्थः / कुत इत्यत आह - तत्रेति / स्वभावमात्रनियतसाहित्ये ज्ञानादिसमुदाये साध्यो(ध्ये) / तस्येति कार्यत्वस्य / 'न तु विवादपदमकर्तृक[म्] अनित्यप्रयत्नाजन्य[127A]त्वात् गगनवत्' इति प्रतिरोधानुमानं भविष्यतीत्यत आह - शरीरेति / असमर्थविशेषणत्वादित्यर्थः / परा(रो)क्ततर्काणां पूर्वोक्तानामाभासता(तां) संसाधयन् प्रकृते सकलोपाधिशङ्कानिराकरणपटीयान् अनुकूलस्तर्कोऽस्तीति प्रतिपादयति / तर्काभासेत्यादि सुबोधमिति / ___128. कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः / चेतनाचेतनव्यापारयोर्हेतुफलभावावधारणात् कारणान्तराभावे इव कर्बभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि कारणत्वात् / यस्त्वाह - प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः / प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात्, धूमाग्निवत्, कम्पमारुतवच्च / न हि धूमः कार्योऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरिश्वन इति स्तिमितस्यापि स्यात्, किन्तु भौमस्पृश्ययोरेव / तथेहापि शरीरवत एव कारणत्वमवगन्तुमुदितम्, नान्यस्येति / तदसत् / प्रत्यक्षानुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चिये, न तु दृश्यतैव तत्रोपेया / किं नाम दृश्याश्रितं सामान्यद्वयम् / तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव तज्जातीयं तदुत्पत्तिमत्तया निश्चितं भवति / यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव, अस्माकं चातीन्द्रियसमवायादिसिद्धौ / न चेदेवमुदाहृतयोरेव दहनपवनयोरालोकरूपवतोस्तदुत्पत्तिनिश्चये कथमनालोकनिरस्तरूपयोः सिद्धिर्यदुदर्यस्तिमितसाधारणी सिद्धिः स्यात् इति / तद्भवेदप्येवं यदि 1. अर्थो न स्पष्टः / 2. The copyst has left the blank space.