________________ 150 * वामध्वजकृता सृङ्केतटीका शरीरादिकं विना कार्यमिव भौमं स्पर्शवद्वेगवन्तं च विनाऽग्निमात्रात् पवनमात्राद् वा धूमकम्पौ स्याताम्, न त्वेवम् / न चैवं चेतनव्यभिचारोऽपि शक्याभिधान इत्यलं बालप्रलापानां समाधानैः / तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्तारमतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति / एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते / एवं च सिद्धे प्रतिबन्धे न प्रतिबन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः / प्रतिबन्धसिद्धाविष्टापादनात् / तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति / ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वरपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगरदाहः / तन्न। स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् / ॐ इति ब्रुवतः सौगतस्य दत्तमुत्तरं प्राक् / आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना / यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः // तमिममर्थमागमः संवदति, विसंवदति तु परेषां विचारम् - विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् / सम्बाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन् देव एकः // अत्र प्रथमेन सर्वज्ञत्वम्, चक्षुषा दृष्टरुपलक्षणात् / द्वितीयेन सर्ववक्तृत्वम्, मुखेन वागुपलक्षणात् / तृतीयेन सर्वसहकारित्वम्, बाहुना सहकारित्वोपलक्षणात् / चतुर्थेन व्यापकत्वम्, पदा व्याप्तेरुपलक्षणात / पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वम, तौ हि लोकयात्रावहनाद बाह / षष्ठेन परमाणरूपप्रधानाधिष्ठेयत्वम्, ते हि गतिशीलत्वात् पतत्त्रव्यपदेशाः - पतन्तीति / सन्धमति, सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः / तेन संयोजयति समुत्पादयन्नित्यर्थः / द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणम्, भूमीत्यधस्तात्, एक इत्यनादितेति / स्मृतिरपि - अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इत्यादि / एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः / 128. संप्रति बौद्धमुत्थाप्य निराचष्टे - यस्त्विति / न चेदेवमिति / प्रभाशालिन एव दहनस्य धूमः कार्यो दृष्ट इति / कथमप्रभः कारीषादिः सिद्धयति / एवंरूपं वेगस्पर्शाधिष्ठानस्येवान्यत्रकार्यजनकत्वमुपलब्धमिति / कथमरूपस्य पवनस्य सिद्धिः / दहन-पवनयोः कथमनालोकनिरस्तरूपयोरिति योजना / आलोकरूपवतोरिति साध्यं विहायान्यत्रेति बोद्धव्यम् / तदेवं कर्तुः कारणत्वसिद्धिपुरस्करणमन्तरेण कार्यलोपप्रसङ्गमुक्त्वा संप्रति तदुत्पत्तेः प्रत्यक्षानुपलम्भसाधनीयत्वात् तयोश्च दृश्यादृश्यविषयत्वात् कर्तुश्च तत्साधारण्या[त् त]त्कारणत्वसिद्धि(द्धा)वपि प्रकारान्तरेण विपक्षे कार्यलोपप्रसङ्गं वक्तुमाह - तदुत्पत्तेरसिद्धावपीति / ननूपाधिविधूननमेकत्वकारां(मेव तु कथं) सेत्स्यतीत्याह - एतच्च सर्वमिति / विस्तरतयोपाधिनिरसनं बौद्धधिक्कारे द्रष्टव्यमित्यर्थः / तदसिद्धाविति / [तत एव] प्रतिबन्] धासिद्धेरेवेत्यर्थः / तद(त्)सिद्धेः साधकत्वादिसिद्धेरप्रसङ्गः इति शशविषाणादेरिति शेषः / दत्तमुत्तरमिति / व्यापकस्यापि नित्यस्येत्यादिना / तमेव त(तु) न्याध(य)सिद्धमर्थे(थ) वेदशास्त्राविरोधेन प्रामाणिकमिति मन्वादि[127B]स्मृतिसंवादेन दृढयति - आर्षमिति / विस्तरतो वेदाविरोधमेव 1. 'कारणत्वसिद्धौ प्रकारान्तरेण' इति पाठः समीचीनः / 2. आत्मतत्त्वविवेके।