________________ 151. न्यायकुसुमाञ्जलि स्तबकः 5 दर्शयितुमाह - तमिममिति / शेषमतिरोहितम् / 129. आयोजनात् खल्वपि - स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् / हेत्वभावे फलाभावो विशेषस्तु विशेषवान् // 4 // परमाण्वादयो हि चेतनायोजिताः प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् / अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः / अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् / क्रियाविशेषविश्रान्तोऽयमर्थः न तु तन्मात्रगोचरः / चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् / अथ केयं चेष्टा नाम ? यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वा विवक्षितम् / तन्न / तस्यैव तत्रानुपाधित्वात् / अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् / तन्न / विषभक्षणोद्वन्धनाद्यव्यापनाद् इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् / कर्तारं प्रत्यन्यं वा ? उभयथापि परमाण्वादिक्रियासाधारण्यादविशेषः / भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च / शरीरसमवायिक्रियात्वं तदिति चेत्, न / मृतशरीरक्रियाया अपि चेतनपूर्वकत्वप्रसक्तेः / जीवत इति चेत्, न / नेत्रस्पन्दादेश्चेतनाधिष्ठानाभ्युपगमप्रसङ्गात् / स्पर्शवद्रव्यान्तराप्रयोगे सतीति चेत्, न / ज्वलनपवनादौ तथाभावाभ्युपगमापत्तेः / शरीरस्य स्पर्शवद्रव्यान्तराप्रयुक्तस्येति चेत्, न / चेष्टयैव शरीरस्य लक्ष्यमाणत्वात् / सामान्यविशेषश्चेष्टात्वं यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेत्, न / क्रियामात्रेणैव तदुन्नयनात् / भोक्तृबुद्धिमत्पूर्वकत्वं यत इति चेत्, तर्हि तद्विश्रान्तत्वमेव तस्य / न चैतावतैव क्रियामात्रं प्रत्यचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते / विशेषस्य विशेष प्रति प्रयोजकतया सामान्यव्याप्तिं प्रत्यविरोधकत्वात् / अन्यथा सर्वसामान्यव्याप्तेरुच्छेदादित्युक्तम् / एतेनाशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् / अत्राप्यागमसंवादः - यदा स देवो जागर्ति तदेदं चेष्टते जगत् / यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति // अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् / तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च // इत्यादि / अत्र जागरस्वापौ सहकारिलाभालाभौ / ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वं च हेतू दर्शितौ परमाण्वादिसाधारणौ / स्वर्गश्वभ्रे चेष्टानिष्टोपलक्षणे / एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते मयेत्यादिना / न केवलं प्रेरणायामहमधिष्ठाता, अपि तु प्रतिरोधेऽपि / यो हि यत्र प्रभवति स तस्य प्रेरणावद् धारणेऽपि समर्थः / यथाऽर्वाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना / धृतेः खल्वपि / क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवच्च / एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अप्यागमा व्याख्याताः / सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः 'आत्मैवेदं सर्वम्' इति / यथैक एव मायावी