________________ 152 * वामध्वजकृता सृङ्केतटीका अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि / अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत्, तद्भावेऽपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात् / कारणैकदेशस्य च कारणान्तरं प्रति अनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् / शरीरस्थितिरेवं न त्वन्यस्थितिरिति चेत् / न / प्राणेन्द्रिययोः स्थितेरव्यापनात्, प्राङ्न्यायेनापास्तत्वाच्च / अत्राप्यागमः - ‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः' इति / प्रशासनं दण्डभूतः प्रयत्नः / उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः // इति स्मृतिः / अत्रोत्तमत्वमसंसारित्वं सर्वज्ञत्वादि च / परमत्वं सर्वोपास्यता / लोकत्रयमिति सर्वोपलक्षणम् / आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः / भरणं धारणम् / अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम् / ऐश्वर्यं संकल्पाप्रतिघातः इति / एतेन कूर्मादिविषया अप्यागमा व्याख्याताः / संहरणात् खल्वपि / ब्रह्माण्डादिद्वयणुकपर्यन्तं जगत् प्रयत्नवद् विनाश्यं विनाश्यत्वात् पाट्यमानपटवत् / अत्राप्यागमः - एष सर्वाणि भूतानि समभिव्याप्य मूर्तिभिः / जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् // सर्वभूतानि कौन्तेय ! प्रकृति यान्ति मामिकीम् / कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // इत्यादि // एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः / 129. आयोजनादिति / परमाण्वादयो हि व्यणुकाद्यन्यथानुपपत्त्या प्रवर्तन्त इत्यविवादमेव, प्रवृत्तिरेषां स्वातन्त्र्येण वा स्याद् अदृष्टमात्रादेव वा चेतनव्यापारसहिताद् वा / आद्ये स्वातन्त्र्य इति / प्रवृत्ताविति शेषः / द्वितीये नादृष्टि]मिति / अन्यथा व्यणुकादीनामपि तन्मात्रादेवोत्पत्तिप्रसङ्गादित्युक्तम् / अतस्तृतीयः परिशिष्यत इति भावः / नन्वत्रापि विपक्षे किं बाधकमित्यत आह - हेत्वभाव इति / हेतोश्चेतन[व्यापार] स्यान्यत्रोपलब्धस्याभावे क्रियारूपफ्लाभाव इत्यर्थः / क्रियाविशेषप्रयुक्तं चेतनपूर्वकत्वमिति शङ्कामपाकर्तुमुक्तम् - विशेषस्त्विति / एतदेव विवृणोति - परमाण्वादयो हीति / विशेषस्त्वित्यादि संगमयितुमाशङ्कते - क्रियाविशेषेति / परिहरति - न, तस्यैवेति / प्रयत्नवदात्माल(त्मसं)योगासमवायिकारणकत्व एव हि परमाण्वादिक्रियाणां तेषां चेतनायोजितत्वं साध्यमित्यथः / क्रियाविशेषस्य हि प्रयत्नपूर्वकत्वमित्याशक्य निराकरोति - अथेति / न चेष्टानिष्टप्राप्तिपरिहारफलत्वं क्रियाविशेषतः / कुत इत्यत आह - उभयथापीति / तत्क्रियाया अस्मदादेरीश्वरस्य चेच्छाविषयीभूतार्थहेतुत्वादित्यर्थः / अत्रैव दूषणान्तरं समुच्चिनोति - जीवत इति / जीवच्छरीरक्रियात्वमिति किं शरीरान्तथं(व)तिक्रियात्वमात्रं चेष्टा शरीरसमवायिक्रियात्वमेव वाभिप्रेतम् / आद्ये दूषणमाह [128A]- न नेत्रेति / अत्र शङ्कते - स्पर्शेति / बाहुनेत्रस्फुरणादीनां स्पर्शवद्वायुनोद्यत्वादित्यर्थः / तदा न सत्प्रतिपक्षत्वम् / चेतनाधिष्ठेयत्वे साध्यतद्विपर्ययसाधनस्य प्रतिपक्षत्वम्, न च तद्विशिष(ष्ट)विपर्ययसाधनस्य / अशरीरत्वं च शरीराधिष्ठेयत्वे प्रयोजकम, ननु (न तु) चेतनाधिष्ठेयत्वमात्रे / विह[]गमादिसंयुक्तद्रव्यान्तरेणानैकान्तिकत्वं साध्यान्तभा(6)वे नेति रा(आ)चष्टे [साक्षात्] परम्परया वेति / एतेनेति धारकप्रयत्नधृतत्वव्युत्पादनेन / व्याख्याताः मुख्यार्थतयेति भावः /