Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 152 * वामध्वजकृता सृङ्केतटीका अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि / अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत्, तद्भावेऽपि प्रयत्नान्वयव्यतिरेकानुविधानेन तस्यापि स्थितिं प्रति कारणत्वात् / कारणैकदेशस्य च कारणान्तरं प्रति अनुपाधित्वात्, उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् / शरीरस्थितिरेवं न त्वन्यस्थितिरिति चेत् / न / प्राणेन्द्रिययोः स्थितेरव्यापनात्, प्राङ्न्यायेनापास्तत्वाच्च / अत्राप्यागमः - ‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः' इति / प्रशासनं दण्डभूतः प्रयत्नः / उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः / यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः // इति स्मृतिः / अत्रोत्तमत्वमसंसारित्वं सर्वज्ञत्वादि च / परमत्वं सर्वोपास्यता / लोकत्रयमिति सर्वोपलक्षणम् / आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः / भरणं धारणम् / अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम् / ऐश्वर्यं संकल्पाप्रतिघातः इति / एतेन कूर्मादिविषया अप्यागमा व्याख्याताः / संहरणात् खल्वपि / ब्रह्माण्डादिद्वयणुकपर्यन्तं जगत् प्रयत्नवद् विनाश्यं विनाश्यत्वात् पाट्यमानपटवत् / अत्राप्यागमः - एष सर्वाणि भूतानि समभिव्याप्य मूर्तिभिः / जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् // सर्वभूतानि कौन्तेय ! प्रकृति यान्ति मामिकीम् / कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // इत्यादि // एतेन रौद्रमंशं प्रतिपादयन्तोऽप्यागमा व्याख्याताः / 129. आयोजनादिति / परमाण्वादयो हि व्यणुकाद्यन्यथानुपपत्त्या प्रवर्तन्त इत्यविवादमेव, प्रवृत्तिरेषां स्वातन्त्र्येण वा स्याद् अदृष्टमात्रादेव वा चेतनव्यापारसहिताद् वा / आद्ये स्वातन्त्र्य इति / प्रवृत्ताविति शेषः / द्वितीये नादृष्टि]मिति / अन्यथा व्यणुकादीनामपि तन्मात्रादेवोत्पत्तिप्रसङ्गादित्युक्तम् / अतस्तृतीयः परिशिष्यत इति भावः / नन्वत्रापि विपक्षे किं बाधकमित्यत आह - हेत्वभाव इति / हेतोश्चेतन[व्यापार] स्यान्यत्रोपलब्धस्याभावे क्रियारूपफ्लाभाव इत्यर्थः / क्रियाविशेषप्रयुक्तं चेतनपूर्वकत्वमिति शङ्कामपाकर्तुमुक्तम् - विशेषस्त्विति / एतदेव विवृणोति - परमाण्वादयो हीति / विशेषस्त्वित्यादि संगमयितुमाशङ्कते - क्रियाविशेषेति / परिहरति - न, तस्यैवेति / प्रयत्नवदात्माल(त्मसं)योगासमवायिकारणकत्व एव हि परमाण्वादिक्रियाणां तेषां चेतनायोजितत्वं साध्यमित्यथः / क्रियाविशेषस्य हि प्रयत्नपूर्वकत्वमित्याशक्य निराकरोति - अथेति / न चेष्टानिष्टप्राप्तिपरिहारफलत्वं क्रियाविशेषतः / कुत इत्यत आह - उभयथापीति / तत्क्रियाया अस्मदादेरीश्वरस्य चेच्छाविषयीभूतार्थहेतुत्वादित्यर्थः / अत्रैव दूषणान्तरं समुच्चिनोति - जीवत इति / जीवच्छरीरक्रियात्वमिति किं शरीरान्तथं(व)तिक्रियात्वमात्रं चेष्टा शरीरसमवायिक्रियात्वमेव वाभिप्रेतम् / आद्ये दूषणमाह [128A]- न नेत्रेति / अत्र शङ्कते - स्पर्शेति / बाहुनेत्रस्फुरणादीनां स्पर्शवद्वायुनोद्यत्वादित्यर्थः / तदा न सत्प्रतिपक्षत्वम् / चेतनाधिष्ठेयत्वे साध्यतद्विपर्ययसाधनस्य प्रतिपक्षत्वम्, न च तद्विशिष(ष्ट)विपर्ययसाधनस्य / अशरीरत्वं च शरीराधिष्ठेयत्वे प्रयोजकम, ननु (न तु) चेतनाधिष्ठेयत्वमात्रे / विह[]गमादिसंयुक्तद्रव्यान्तरेणानैकान्तिकत्वं साध्यान्तभा(6)वे नेति रा(आ)चष्टे [साक्षात्] परम्परया वेति / एतेनेति धारकप्रयत्नधृतत्वव्युत्पादनेन / व्याख्याताः मुख्यार्थतयेति भावः /
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210