Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 150 * वामध्वजकृता सृङ्केतटीका शरीरादिकं विना कार्यमिव भौमं स्पर्शवद्वेगवन्तं च विनाऽग्निमात्रात् पवनमात्राद् वा धूमकम्पौ स्याताम्, न त्वेवम् / न चैवं चेतनव्यभिचारोऽपि शक्याभिधान इत्यलं बालप्रलापानां समाधानैः / तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्तारमतिपत्य कार्यं स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति / एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपपादितमिति नेह प्रतन्यते / एवं च सिद्धे प्रतिबन्धे न प्रतिबन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः / प्रतिबन्धसिद्धाविष्टापादनात् / तदसिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति / ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वरपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगरदाहः / तन्न। स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् / ॐ इति ब्रुवतः सौगतस्य दत्तमुत्तरं प्राक् / आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना / यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः // तमिममर्थमागमः संवदति, विसंवदति तु परेषां विचारम् - विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् / सम्बाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन् देव एकः // अत्र प्रथमेन सर्वज्ञत्वम्, चक्षुषा दृष्टरुपलक्षणात् / द्वितीयेन सर्ववक्तृत्वम्, मुखेन वागुपलक्षणात् / तृतीयेन सर्वसहकारित्वम्, बाहुना सहकारित्वोपलक्षणात् / चतुर्थेन व्यापकत्वम्, पदा व्याप्तेरुपलक्षणात / पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वम, तौ हि लोकयात्रावहनाद बाह / षष्ठेन परमाणरूपप्रधानाधिष्ठेयत्वम्, ते हि गतिशीलत्वात् पतत्त्रव्यपदेशाः - पतन्तीति / सन्धमति, सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः / तेन संयोजयति समुत्पादयन्नित्यर्थः / द्यावा इत्यूर्ध्वसप्तलोकोपलक्षणम्, भूमीत्यधस्तात्, एक इत्यनादितेति / स्मृतिरपि - अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इत्यादि / एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः / 128. संप्रति बौद्धमुत्थाप्य निराचष्टे - यस्त्विति / न चेदेवमिति / प्रभाशालिन एव दहनस्य धूमः कार्यो दृष्ट इति / कथमप्रभः कारीषादिः सिद्धयति / एवंरूपं वेगस्पर्शाधिष्ठानस्येवान्यत्रकार्यजनकत्वमुपलब्धमिति / कथमरूपस्य पवनस्य सिद्धिः / दहन-पवनयोः कथमनालोकनिरस्तरूपयोरिति योजना / आलोकरूपवतोरिति साध्यं विहायान्यत्रेति बोद्धव्यम् / तदेवं कर्तुः कारणत्वसिद्धिपुरस्करणमन्तरेण कार्यलोपप्रसङ्गमुक्त्वा संप्रति तदुत्पत्तेः प्रत्यक्षानुपलम्भसाधनीयत्वात् तयोश्च दृश्यादृश्यविषयत्वात् कर्तुश्च तत्साधारण्या[त् त]त्कारणत्वसिद्धि(द्धा)वपि प्रकारान्तरेण विपक्षे कार्यलोपप्रसङ्गं वक्तुमाह - तदुत्पत्तेरसिद्धावपीति / ननूपाधिविधूननमेकत्वकारां(मेव तु कथं) सेत्स्यतीत्याह - एतच्च सर्वमिति / विस्तरतयोपाधिनिरसनं बौद्धधिक्कारे द्रष्टव्यमित्यर्थः / तदसिद्धाविति / [तत एव] प्रतिबन्] धासिद्धेरेवेत्यर्थः / तद(त्)सिद्धेः साधकत्वादिसिद्धेरप्रसङ्गः इति शशविषाणादेरिति शेषः / दत्तमुत्तरमिति / व्यापकस्यापि नित्यस्येत्यादिना / तमेव त(तु) न्याध(य)सिद्धमर्थे(थ) वेदशास्त्राविरोधेन प्रामाणिकमिति मन्वादि[127B]स्मृतिसंवादेन दृढयति - आर्षमिति / विस्तरतो वेदाविरोधमेव 1. 'कारणत्वसिद्धौ प्रकारान्तरेण' इति पाठः समीचीनः / 2. आत्मतत्त्वविवेके।
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210