Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 163
________________ 148 * वामध्वजकृता सृङ्केतटीका अस्ति तत्र वैजात्यमिति चेत् / इहापि किञ्चिद् भविष्यतीति / न चाकुर्वतः कुलालादेः कायसंक्षोभादिसाध्यो भोगः सिद्धयेदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति / यत्त्वनित्यप्रयत्नेत्यादि / भवेदप्येवं यदि अनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवर्तेत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात् / हेतुभूता बुद्धिनिवर्तते इति चेत्, न / उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् / कारकविषया बुद्धिर्निवर्तते इति चेत्, न / उदासीनस्यापि कारकबोद्धृत्वात् / न हि घटादिकमकुर्वन्तश्चक्रादिकं नेक्षामहे / हेतुभूता कारकबुद्धिर्निवर्तते इति चेन्न / अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात् / चिकीर्षाहेतुभूतोऽनुभवो निवर्तते इति चेत्, न / केनचिन्निमित्तेनाकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भवात् / अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिनिवर्तते इति चेत्, न तर्हि बुद्धिमात्रम् / तथा चानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वक 126. एवं क्षित्यादि [न] चेतनाधिष्ठितहेतुकं शरीरेतरजन्यत्वादित्यपि, यद्यपि एवमेव विकल्प्य दूषयितुमुपक्रमते - तथा चेति / ननु ज्ञाननित्यत्वसिद्धौ सर्वमेतदेवं स्यात् / तदेवासिद्धम् / न च संभाव्यत इति वाच्यम् तस्याशश(स्याश्रय)पर्यायत्वात् / उभयथा दर्शनमन्तरेणानुत्पादान(त्) / न च पक्षधर्मताबलादाभिप्रायिकोऽयं विशेषः सिद्ध्यतीति वाच्यम्, अभिप्रायोऽपीच्छा ज्ञानं वेत्युभयस्यानुपपत्तेरिति चेत् नैवं द्रव्यगुणावित्यनयोरपि प्रतिबन्धितुल्यत्वात् / आप्यपरमाणुतद्गतरूपादिनित्यरूपतापि न सिद्धयेत तद्गतरूपाद्यवैलक्षण्यान्यथानुपपत्तेः / अकार्यद्रव्यगुणगतकार्यत्वोपाधित्वयुक्तत्वान्नैवमिति चेत् / न व्यणुकस्याप्यसिद्धेः / कार्यद्रव्यजन्यत्वादिप्रयुक्तत्वाद् द्रव्यकार्यजातीयताया इति वाचाटवचसः सावकाशत्वादत्रापि कार्यद्रव्यगतमहत्त्वमुपाधिरिति चेत् / न साध्यसामान्य[126A]व्यापकत्वासिद्धौ संभाव्यत इति चेत् मैवमुच्चै—याः / दूषणान्तरमाह - अप्रसिद्धेति / ननु चेतनाधिष्ठितहेतुकं तावदन्यत्रावगतमत एव निषेधः स ज्ञक(शक्य)साधनः प्रतीतस्य प्रातियोगिकत्वादित्यत्र आह - न चेति / कुत इत्यत आह - गगनादेरपीति / तृतीये प्रमाणाभावात् / यथाहि कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां सिद्ध्यति य(त)था वे(चे)श्वराभिधा(धिष्ठा)नं ज्ञानादिनित्य[तया] सर्वविषयत्वादर्थात् न तथाधिष्ठात्रन्तरकल्पनायां प्रमाणमस्ति यतोऽनवस्था स्यादित्यर्थः / उदासीनस्येति कारकाद्यव्यापारयतः / उदासीनबुद्धेरिति कर्मधारयः / हेतुभूता चासौ कारकविषया बुद्धिश्चेति सा तथा / तद्धेतुकण्टकेति दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति स तथा, तस्य बुद्धरित्यर्थः / तस्येति [अ] नित्यप्रयत्नस्येत्यर्थः / प्रयोजकत्वे उदासीनबुद्धेर्निवृत्तिप्रसङ्गात् / तदनेन प्रबन्धेन परिहारो यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते तदनुकूलतया कृत: / यदा तु सकर्तृकप्रधानीभूतविषयतया प्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिजानीते तदा अनित्यप्रयत्नस्योपाधित्वशङ्कापि नास्तीत्याह - बुद्धिमत्पूर्वकमिति / कुत इत्यत आह - तस्यैवेति / 127. एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपाधिरिति निरस्तम् / यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद् वा प्रयत्नेन बुद्धि बुद्धिनिवृत्त्या प्रयत्ननिवृत्ति साधयेत्, स एवं कदाचिदुपलभ्यः / वयं त्ववगतहेतुभावं कलितसकलशक्तिकारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः, तत्र तस्यानुपाधित्वात् / न च प्रयत्न आत्मलाभार्थमेव मतिमपेक्षते /

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210