Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 143 * न्यायकुसुमाञ्जलि स्तबकः 5 121. धर्मत्वे तु स्यादित्याशयवानाशङ्कते - ननु यदिति / तथा चेति विपर्ययनियमे शरीराजन्यत्वस्य क्षित्यादिधर्मत्वेनोभयसिद्धत्वादिति पक्षधर्मत्वलाभ इत्यर्थः / निरुपाधिसाध्यसंबन्धस्य पक्षे प्रतीतिः पक्षधर्मता / न च प्रकृतस्य निरुपाधिः साध्यसम्बन्ध: किन्त्वजन्यत्वोपाधिविद्यमानत्वेन / पुनरपि न पक्षधर्मत्वमित्याशयवान् परिहरति - न गगनादेरिति / ननु विशेषणासामर्थ्यादित्यसङ्गतम् / व्यभिचारव्यावर्तनफलाभावेऽपि धर्मिसम्बन्धासिद्धिपरिहारेण फलवत: समर्थत्वात् / न चासिद्धिपरिहारार्थं न विशेषणं दृष्टमिति वाच्यम् / रूपादिषु मधे(मध्ये) रूपस्यैव व्यञ्जकत्वादित्यादावसिद्धिपरी(रि)हारार्थतोपलब्धेरित्यत आह - हेतुव्यावृत्तीति / स्वरूपा[121B]परिहरतो व्याप्यत्वासिद्धिप्राप्तेरिति तात्पर्यम् / द्विधा हि प्रतिबन्धः - कर्तृधर्मः [कर्मधर्म]श्च / तत्र प्रथमः - तस्मिन् सति भवत्येवेत्येवंरूपो व्यापकाभावे व्याप्यधर्मो न भवेदिति वह्निमात्रेण निरूप्यते, न त्वव्यभिचारिभिरप्याट्टैन्धनवत्त्वादिभिः / विशेषेऽफलत्वात् / एवं तत्रैव भवतीत्येवंरूप: कर्मधर्मोऽप्यव्यभिचारिलिङ्गमात्रेण निरूप्यते, न त्वव्यभिचारितामात्रेणालोकवत्त्वादिना विशिष्टः, न खल्वालोकधूमत्वादिति प्रामाणिकाः प्रयुञ्जते / तथेहाप्यजन्यत्वमात्रस्यैव कर्तृत्वाव्यभिचारेण प्रतिबन्धग्रहसमय एव विशेषणासामर्थ्य विवक्षितमित्यजन्यत्वोपाध्युपजीवित्वेन शरीराजन्यत्वमप्रयोजकमिति फलितार्थः / ननु तथापि धर्मसम्बन्धासिद्धिपरिहारार्थ(र्थ) विशेषण(णं) भविष्यतीत्यत्र न किञ्चिदुक्तमित्यत आह - व्याप्तश्चेति / सत्यं साधितो धर्मिसम्बन्धः, त(न) 122. एतेन तव्यापकरहितत्वादिति सामान्योपसंहारस्यऽसिद्धत्वं वेदितव्यम् / न हि यद्वयावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्तृमशक्या, तत् तस्य व्यापकं नामेति / विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथो धर्मिपरिहारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति / स्यादेतत् / अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनुमीयते, तथा च तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् / 122. ननु शरीराजन्यत्वं प्रयोजकमस्तु / विवादपदमकर्तृकम् / कर्तृव्यापकरहितत्वादित्यु(त्य)दुष्टमेवेत्यत आह - एतेनेति / दृष्टान्ते विशेषणासामर्थ्यप्रतिपादनेनाशरीरस्य व्यापकत्वासिद्ध्या तद्रहितत्वमसिद्धमित्यर्थः / एतदेव दर्शयति - न हीति / यद्व्यावृत्तिः शरीरव्यावृत्तिः / यदभावे कभावे च तच्छरीरं तस्य कर्तुळपकमित्यर्थः / [122A] स एव हि तस्य व्यापको भवति यद्भावो यस्याभावे साध्य(ध्ये) अन्वयिनि च दृष्टान्ते विद्यमाने अन्वयव्यतिरेकाभ्यां पक्षे उपसंहर्तुं शक्यते, यथा वढेरभावे धूमाभावः / न चैवं प्रकृते अन्वयिनि दृष्टान्ते विशेषणसामर्थ्यवाचोयुक्त्या तस्यां त्स(त)स्याप्रयोजकत्वविभावनादिति / प्रकाशप्रयोजकतायां अन्वयाप्रयोज[क]त्वाव्यभिचारादित्यर्थः / सिद्ध्यसिद्धयोरित्यादि विधते(त्ते)-विशेषनि(वि)रोधस्त्विति / विशेषसिद्धाविति व्याप्तिपक्षधर्मताभ्यां समानीयमानशरीरित्वाशरीरित्वविशेषसिद्धौ रूपरसवत् सहोपलभ्यमानत्वान्नाशङ्कामधिरोहति / तदसिद्धौ विशेषद्वयाप्रतीतौ मिथो धर्मिपरिहारोऽन्योन्यधर्मिप्रतिक्षेपस्तस्यानुपलम्भेनापि नमुपलभ्यते तयोरेव परस्पराभावाव्यभिचारिणोः विरोधो नान्यथेति स्थितिरित्यर्थः / किञ्च, किमशरीरादिमत्कर्तृत्वस्य कार्यत्वेन विरोध: कार्यत्वस्य वा तेन उताशरीरादिरित्यादिकर्तुः अथवा तद्धर्मभूतयोः शरीरित्वकर्तृत्व वा / तत्र प्रथमे न किञ्चिद् दूषणम् / एकव्यक्तिकतापि प्रमाणसिद्धाऽभ्युपगमसिद्धा वा व्याप्तिपक्षधर्मता
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210