Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 159
________________ 144 * वामध्वजकृता सृङ्केतटीका सामर्थ्यसिद्धा वा व्याप्तिपक्षधर्मतयोरपि केवलयोः साध्यसमुच्चितयोर्वा / न तु प्रमाणसिद्धि(द्धे)ऽभ्युपगमसिद्धे वा सहोपलम्भेन विरोधः / केवलयोर्व्याप्तिपक्षधर्मतयोरसाधकत्वान्न विरोधसिद्धिः / समुच्चितयोस्त्वसंभव एव / न हि शरीरिणि[122B] कर्तरि साध्येऽङ्कुरादिषु पक्षधर्मता संभवति / नापि कर्तृत्वाशरार(रीरि)त्वयोविभिन्नव्यक्तिकयोविरोधः [त] स्याकिञ्चित्करत्वात् / एकधर्मितया त्वस्मदादा[व]नुपसंक्रि(हि)यमाणस्य विरोधस्यादूषणत्वात् / ईश्वरे तूपसंह्रियमाणस्य विरोधस्यासिद्धः धर्मिणोऽसिद्धत्वात् धर्मिसिद्धौ वा सहोपलम्भेन विरोधस्य बाधितत्वात् / नासिद्धिरनिबन्धनेऽपि पूर्वोक्तं समं(मा)धयितु(तृ) परां(रो)क्तमुपाधि(धि) न(नि)राचे(चि)का(की)षु(र्ष)रुपन्यस्य ----------------1 साधनसामान्याव्यापकतया चोपाधिलक्षणयोगानु(दु)पाधित्वमित्यभिमान: पद(र)स्येति तात्पर्यार्थः / तदेतत् परा(रोऽ)भिग[]तुमुत्स.....२ त्वादिति / _123. न स्यात् / न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् / तथा सति सौरभकटुत्वनीलिमाऽऽदिविशेषे सति न धूमसामान्यमग्नि गमयेत् / किं नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेत्, न तु विशेषे सति सामान्यमकिञ्चित्करम् / तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्वप्रसङ्गात / सौरभादिविशेषं विहायापि धमे वह्निर्दष्टः, न त विशेषं विहाय कार्ये कर्तेति चेत् / न / कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामान्ययोः प्रतिबन्धमन्यथाकुर्यादिति / किं न दृष्ट कार्य कारणमात्रे अङ्कुरो बीजे तद्विशेषो धान्ये तद्विशेषः शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके / क्व वा दृष्टमणुद्रव्यारभ्यं द्रव्यं नित्यरूपाद्यारब्धं रूपादि / तथापि सामान्यव्याप्तेरविरोधात् सिद्धयत्येव / अवश्यं चैतदेवमङ्गीकर्तव्यम् / ____123. उपाधिलक्षणविरहमाह - न हि विशेष इति / तस्य तद्विशेषत्वेनैव तत्साध्यसामान्यव्यापकत्वम्, न हि त[स्]योपाधिसलक्षणायोगादित्यर्थः / तथाहि यो यस्याव्यवहिता[व]वान(न्त)रसामान्यविशेषौ नासौ तत्साध्यसामान्यव्यापको यथा गोत्वाद् विषाणित्वाद् वौ(गौः) शाबले....३ अन्यथा चेलू(चैत)द्विशेषानुपपत्तिरिति / ननु विशेषस्यासाध्यसामान्यव्यापकत्वे यथा शाबलेयपरिहारेण बाहुलेयत्वादौ विषाणित्वं तथा शरीरकार्यपरिहारेण अन्यत्रापि कर्ता दृश्येतेत्याशङ्कते - सौरभादीति / अत्र दृश्यतेत्युपलभ्येतेत्येतावन्मात्रविवक्षिता(तम्) इन्द्रियसम्बन्धा[द्] गृह्येतेति [वा] / आद्ये अनुज्ञातरमाह - किं न दृष्टम् ? दृष्टमेवेत्यर्थः / कार्यकारणसामान्ययोः प्रतिबन्धादनुमान इति शेषः / ननु तद्विशेषस्यौपाधिकत्वशङ्कया त्वसौ शिथिलीकृत इत्यत आह - कार्यविशेष इति / न प्रतिबन्धमन्यथा कुर्यादिति विशेषत्वेन साध्व(ध्य)स्मृता[व]न्यव्यापकं(क)वा(त्वा)योगादित्यर्थः / एतदेवोदाहरणान्तरेण [123A] स्पष्टयितुमाह - कार्यमिति / द्वितीये तु उत्तरमाह - क्व वेति / अत्रापि हि कार्यद्रव्यं कारणद्रव्यं त्वित्यत्र कार्यद्रव्यत्वावान्तरसामान्यविशेषो यतो मह[द्]द्रव्यजन्यत्वमनुनी(मी)यते / तत्प्रयुक्तामेव व्याप्तिमुपजीवत्कार्य --- व्यणुकत्र्यणुकयोः कारणद्रव्यपूर्वकत्वं साधयेत् / तत्र समवायिकारणाभावेऽसमवायिनिमित्तयोरप्यनुपपत्तौ कार्यानुत्पत्तिप्रसङ्गलक्षणतर्कविरोधान्नैवमिति चेते(त्) तुल्यमत्रापि / अचेतनाना(नां) चेतनव्यापारमव(न्त)रेणाप्यु(प्य)प्रव(वृ)त्तेः / प्रवृत्तौ वा स्वातन्त्र्येण चेतनत्वप्रसङ्गात् / घटादेवा(वा) चेतनव्यापारे(र)मन्तरेण कदाचिदुत्पादप्रसङ्गाच्च / नि(वि)शेष एवायं नियम इति चेत् तर्हि कार्यविशेष एव कारणत्रय 1-2. The copyst has left blank space in the ms. 3. The copyst has left blank space in the ms.

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210