SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 143 * न्यायकुसुमाञ्जलि स्तबकः 5 121. धर्मत्वे तु स्यादित्याशयवानाशङ्कते - ननु यदिति / तथा चेति विपर्ययनियमे शरीराजन्यत्वस्य क्षित्यादिधर्मत्वेनोभयसिद्धत्वादिति पक्षधर्मत्वलाभ इत्यर्थः / निरुपाधिसाध्यसंबन्धस्य पक्षे प्रतीतिः पक्षधर्मता / न च प्रकृतस्य निरुपाधिः साध्यसम्बन्ध: किन्त्वजन्यत्वोपाधिविद्यमानत्वेन / पुनरपि न पक्षधर्मत्वमित्याशयवान् परिहरति - न गगनादेरिति / ननु विशेषणासामर्थ्यादित्यसङ्गतम् / व्यभिचारव्यावर्तनफलाभावेऽपि धर्मिसम्बन्धासिद्धिपरिहारेण फलवत: समर्थत्वात् / न चासिद्धिपरिहारार्थं न विशेषणं दृष्टमिति वाच्यम् / रूपादिषु मधे(मध्ये) रूपस्यैव व्यञ्जकत्वादित्यादावसिद्धिपरी(रि)हारार्थतोपलब्धेरित्यत आह - हेतुव्यावृत्तीति / स्वरूपा[121B]परिहरतो व्याप्यत्वासिद्धिप्राप्तेरिति तात्पर्यम् / द्विधा हि प्रतिबन्धः - कर्तृधर्मः [कर्मधर्म]श्च / तत्र प्रथमः - तस्मिन् सति भवत्येवेत्येवंरूपो व्यापकाभावे व्याप्यधर्मो न भवेदिति वह्निमात्रेण निरूप्यते, न त्वव्यभिचारिभिरप्याट्टैन्धनवत्त्वादिभिः / विशेषेऽफलत्वात् / एवं तत्रैव भवतीत्येवंरूप: कर्मधर्मोऽप्यव्यभिचारिलिङ्गमात्रेण निरूप्यते, न त्वव्यभिचारितामात्रेणालोकवत्त्वादिना विशिष्टः, न खल्वालोकधूमत्वादिति प्रामाणिकाः प्रयुञ्जते / तथेहाप्यजन्यत्वमात्रस्यैव कर्तृत्वाव्यभिचारेण प्रतिबन्धग्रहसमय एव विशेषणासामर्थ्य विवक्षितमित्यजन्यत्वोपाध्युपजीवित्वेन शरीराजन्यत्वमप्रयोजकमिति फलितार्थः / ननु तथापि धर्मसम्बन्धासिद्धिपरिहारार्थ(र्थ) विशेषण(णं) भविष्यतीत्यत्र न किञ्चिदुक्तमित्यत आह - व्याप्तश्चेति / सत्यं साधितो धर्मिसम्बन्धः, त(न) 122. एतेन तव्यापकरहितत्वादिति सामान्योपसंहारस्यऽसिद्धत्वं वेदितव्यम् / न हि यद्वयावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्तृमशक्या, तत् तस्य व्यापकं नामेति / विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्भेन तदसिद्धौ मिथो धर्मिपरिहारानुपलम्भेन निरस्तो नाशङ्कामप्यधिरोहतीति / स्यादेतत् / अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनुमीयते, तथा च तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् / 122. ननु शरीराजन्यत्वं प्रयोजकमस्तु / विवादपदमकर्तृकम् / कर्तृव्यापकरहितत्वादित्यु(त्य)दुष्टमेवेत्यत आह - एतेनेति / दृष्टान्ते विशेषणासामर्थ्यप्रतिपादनेनाशरीरस्य व्यापकत्वासिद्ध्या तद्रहितत्वमसिद्धमित्यर्थः / एतदेव दर्शयति - न हीति / यद्व्यावृत्तिः शरीरव्यावृत्तिः / यदभावे कभावे च तच्छरीरं तस्य कर्तुळपकमित्यर्थः / [122A] स एव हि तस्य व्यापको भवति यद्भावो यस्याभावे साध्य(ध्ये) अन्वयिनि च दृष्टान्ते विद्यमाने अन्वयव्यतिरेकाभ्यां पक्षे उपसंहर्तुं शक्यते, यथा वढेरभावे धूमाभावः / न चैवं प्रकृते अन्वयिनि दृष्टान्ते विशेषणसामर्थ्यवाचोयुक्त्या तस्यां त्स(त)स्याप्रयोजकत्वविभावनादिति / प्रकाशप्रयोजकतायां अन्वयाप्रयोज[क]त्वाव्यभिचारादित्यर्थः / सिद्ध्यसिद्धयोरित्यादि विधते(त्ते)-विशेषनि(वि)रोधस्त्विति / विशेषसिद्धाविति व्याप्तिपक्षधर्मताभ्यां समानीयमानशरीरित्वाशरीरित्वविशेषसिद्धौ रूपरसवत् सहोपलभ्यमानत्वान्नाशङ्कामधिरोहति / तदसिद्धौ विशेषद्वयाप्रतीतौ मिथो धर्मिपरिहारोऽन्योन्यधर्मिप्रतिक्षेपस्तस्यानुपलम्भेनापि नमुपलभ्यते तयोरेव परस्पराभावाव्यभिचारिणोः विरोधो नान्यथेति स्थितिरित्यर्थः / किञ्च, किमशरीरादिमत्कर्तृत्वस्य कार्यत्वेन विरोध: कार्यत्वस्य वा तेन उताशरीरादिरित्यादिकर्तुः अथवा तद्धर्मभूतयोः शरीरित्वकर्तृत्व वा / तत्र प्रथमे न किञ्चिद् दूषणम् / एकव्यक्तिकतापि प्रमाणसिद्धाऽभ्युपगमसिद्धा वा व्याप्तिपक्षधर्मता
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy