Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 136 * वामध्वजकृता सृङ्केतटीका हि सामान्यं गृहीतं तदेवेत्युपयुज्यते, अन्यथा अनुमानादिविकल्पानामनुत्पादप्रसङ्गः / तद्गतस्य विशेषणस्याग्रहणात्, अन्यगतस्य चानुपयोगात्, किं लिङ्गग्रहणसहकारि स्यादिति / ___113. एवं तावद् ज्ञानस्यातीन्द्रियत्वात् साधननिराकरणं कृतम्, अथैन्द्रियकत्वे परोक्तबाधकमुव्व(भा)व्य साधनं वक्तव्यमिति मन्वानो बाधकमाशङ्कते - नन्विति / जिज्ञासापेक्षणे वेति / जिज्ञासा हि सामान्यतोऽवगते धर्मिणि विशेषतश्चापरिज्ञाते भवति / ततश्च जिज्ञासासिद्ध्यर्थं सामान्येन ज्ञानानुभवो वाच्यः / तस्यापि च सामान्येन ज्ञानानुभव[स्य] सिद्ध्यर्थं जिज्ञासा वाच्या / साऽपि च सामान्यानुभवपूर्विका, मा(सोऽ)पि च जिज्ञासाधीनजन्मेति पूर्वपूर्वजिज्ञासापेक्षायामनवस्थाप्रसङ्गः / किञ्चिद् ज्ञानेन जिज्ञासितं ज्ञायते किञ्चित्त्वज्ञातमेव विनश्यतीति अनियमेन पूर्वदोषानुषङ्गः, अन्यथा ज्ञाततापक्षेऽपि समानमित्याशयवान् समाधानमुपक्रमते - तन्नेति / पुनर्ज्ञानप्रत्यक्षतायाः प्रकारान्तरेण बाधकमाशयते - न त्वि[116A]ति / समवायाभाववदिति समवायवदभाववच्चेत्यर्थः / अत्रापि किञ्चिद् ज्ञानं निर्विकल्पकैकवेद्यं, किञ्चित् सविकल्पकैकवेद्यं, अवेद्यं च किञ्चिदित्यनियमस्वीकारे पर्वोक्तदोषानवकाश इति हृदि निधाय परिहरति - नेति / आलोचनादिति / आलोचनं यतः ततस्तत्परस्सरमिति ने(ज्ञे)यम् / न च ज्ञानान्तरविकल्पोऽपि कथं निर्विकल्पकमन्तरेणेति वाच्यम्, तस्यापि विकल्पान्तरपूर्वकत्वादित्येवमादित्वात् / न चे(च)वं, घटादिविकल्पोऽपि न किकल्पपूर्वक इति जितं सविकल्पकैकप्रमाणवादिभिरिति चेत्, भवेदेवं यदि जातिरेव विशेषणं स्यात् / प्रतिधर्मि व्यभिचारिणां नीलादीनामपि विशेषणत्वात् / अतस्तदर्थमवश्यं कल्पनीयं निर्विकल्पकं सामान्यमप्युपनयति / सन्निहितपरित्यागे व्यवहितपरिग्रहस्य गुरुत्वात् / अपि च निर्विकल्पकपृष्ठभाविसविकल्पग्राह्यमेव ज्ञानम् / तथाहि - आत्ममन:संयोगस्य बुद्ध्यात्मसमवायस्य च पूर्वसिद्धत्वेन [उत्पन्नं] ज्ञानं मनसा सम्बद्धं चेत्येकः कालः / ततो निर्विकल्पकस्योत्पादो ग्राह्यज्ञानस्य विनश्यत्ता विकल्पस्योत्पद्यमानतेत्येकः कालः / ततो विकल्पस्योत्पादः, निर्विकल्पकस्य विनश्यत्ता ग्राह्यज्ञानस्य विनाश इत्येवमसमानकालत्वेऽप्यव्यवहितपूर्वापरकालभावित्वात् कार्यकारणभावस्य विषयविषयिभावस्य द्वित्वतद्बोधवद् विन[श्य] त्तया [त]द(द्) विनश्यत(ति) घटादि सन्निकर्षानन्तरं च ज्ञानप्रत्ययवद् वानुपपत्तेरभावादिति रहस्यम् / ननु यदा निर्विकल्पकवेद्यमेकं ज्ञानमपरं च सविकल्पकवेद्यं तदा व्यक्तंतर(व्यक्त्यन्तर)परिगृहीतेन व्यक्तेतेरे(व्यक्त्यन्तरे) ज्ञानजातीयताविशिष्टविकल्पोत्पादस्य संभवादित्युक्तमनुपपन्नें(न्) चैतद्विकल्पानुपपत्तेः / ज्ञानत्वं किं ग्राह्य[116B]शुक्तिसमवेतत्वेन गृहीतविशेषणमन्यव्यक्तिसमवायि(वेत)त्वेन वा ? न तावदन्यव्यक्तिसमवायि(वेत)त्वेन / न हि कलशान्तरसमवायि(वेत)त्वेन गुणकृपा(क्रिया)दयोऽनुभूताः कलशान्तरे विशिष्टप्रत्ययमुत्पादयन्तो दृष्टाः, नापि तत्समवायिक(वेत)त्वेन, तथा सति तदुत्पत्त्यनन्तरं ज्ञानव्यक्ते शात् प्रत्यक्षत्वानुपपत्तेरिति हृदि निधायाह - व्यक्त्यन्तरेति / व्यक्त्यन्तरे स्वरूपेण गृहीतं ज्ञानत्वं व्यक्त्यन्तरोपरक्तबुद्ध्युत्पत्वा(त्तौ) उपयुज्यते, यथा पर्वतोऽग्निमानिति विकल्पोत्पत्तौ / तत्रापि शक्यते वक्तुं किं व्यक्त्यन्तरं(रे) परिगृहीतं वह्निस्व(त्व)रूप(पं) पर्वतोऽग्निमानिति विकल्पा(ल्पो)त्पत्तौ बीजं पर्वतनिष्ठतया वा [परिगृहीतम्] / न तावदाद्यः, न ह्यत्र परिगृहीतं विशेषणमन्यत्र विशिष्टप्रत्ययमुत्पादयतीति त्वायवो(त्वया चो)क्तत्त्वात् / न द्वितीयोऽनुमानविकल्पोत्पत्तेः पूर्वं विशेषणस्य दहनस्यागृहीतत्वात्, तस्माद् व्यक्त्यन्तरगृही]तमपि वह्नित्वरूपं वर्तते स्वोपरक्तविशिष्टबोधोत्पत्तावुपयुज्यते / विशेषणस्याभिन्नजातीयत्वादिति वाच्यम् / अनन्यगतिकत्वादेवं तहि ज्ञानत्वस्य विशेष[ण] स्याभिन्नत्वात् सुतरां विशिष्टप्रत्ययोत्पत्तानु(वु)पयोग इत्याशयवानाह - अन्यथेति / तद्गतस्येति पर्वतग[त]स्येत्यर्थः /
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210