Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 135 * न्यायकुसुमाञ्जलि स्तबकः 4 ताप्रसङ्गात् / न ह्यसौ तदानीं तदीयान्यदीया वेति / अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत् / एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् / अन्यथा ज्ञानस्यापि तथानुवृत्तेः को दोषः / न हि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम / अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात् / अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति / 112. ननु ज्ञानस्यानेकक्षणावस्थायित्वे बाधकसंभवादेककाल[क्षणा]वस्थानसिद्धौ कुतोऽसिद्धिः क्षणिकताया इति मन्वानोऽनेकक्षणावस्थायित्वबाधकमाह - नन्विति / यदीति शेषः / यादृशं प्र[थ]मक्षणावच्छिन्नमित्यर्थः / तादृशमेव प्रथमक्षणावच्छिन्नमेव / अन्यादृशं द्वितीयक्षणावच्छिन्नमित्यर्थः / न वा कमपीति न प्रथमक्षणावच्छिन्नम्, न द्वितीयक्षणावच्छिन्नम् इत्यर्थः / न च प्रथमक्षणावच्छिन्नत्वेन घटादयोऽनुभूयन्ते किन्तु घटत्वाद्यवच्छिन्नत्वेन, तथा चानेककालावस्थानेऽपि ज्ञानस्य नोक्तदोष इत्याशयवान् समाधत्ते - तदसदिति / प्रथमक्षणावभा[115B]साभ्युपगमेन शङ्कते / ज्ञेयनिवृत्तौ प्रथमक्षणरूपज्ञेयनिवृत्तावित्यर्थः / तदनुवृत्तौ वा ज्ञानानुवृत्तावित्यर्थः / नाक्र(त्र) क्षणावभासोऽस्तीत्युक्तम् / घटादयो हि भासन्ते / न च प्रचुरतरकालावस्थायिनां तेषां निवृत्तिः, ज्ञानविनाशे तेषामवस्थानसंभवात्, तस्मात् प्रथमक्षणावभासमभ्युपगम्य तन्निवृत्तावपि ज्ञानानुवृत्तिः ज्ञानानुवृत्तौ ज्ञेयनिवृत्तिरित्याशयवान् परिहरति - किमस्मिन्निति / एवं तावदुक्तन्यायेनाक्षणिकत्वा(त्वं) विज्ञानस्येति समर्थितम्, संप्रति क्षणिकत्वाभ्युपगमेऽपि नातीन्द्रियत्वमिति प्राकट्यप्रतिबन्दिद्वारेण समर्थयति - तथानुवृत्तरिति / अतीतेनापि क्षणेनोपलक्षितस्य वर्तमान(ना) [र्थ] तयाऽनुवृत्तेरित्यर्थः / ननु ज्ञातता[पक्षे] अर्थनिरपेक्षवर्तमानज्ञाततासम्बन्धमात्रेणैव तज्जनकत्वा(स्य) ज्ञानस्य वर्तमानाभू(भ)ताऽर्थापि(त्य)य(ये)ऽप्युपपद्यते / अन्वये (त्वन्नये) त्य(अ)र्थस्यातीतत्वा[द्] ज्ञातताश्रयानभ्युपगमात् कथमुपपद्यत इत्यतोऽतिप्रसङ्गापादनेन समीकर्तुमाह - न हि वर्तमानार्थेति / 113. ननु ज्ञानमैन्द्रियकं चेद् विषयसञ्चारो न स्यात् / संजातसम्बन्धत्वात् / न च जिज्ञासानियमान्नियमः / तस्याः संशयपूर्वकत्वात् / तस्य च धर्मिज्ञानपूर्वकत्वात् / धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाऽप्यनवस्थानादिति / तन्न / ज्ञाततापक्षेऽपि तुल्यत्वात्, तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापाताज्जिज्ञासानियमस्य च तद्वदनुपपत्तेः / न च इन्द्रियसम्बन्धविच्छेदाद् विराम इति युक्तम् / आत्मप्राकट्याव्यापनात् / स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न तु सर्वेति चेत्, तुल्यम् / प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्, तुल्यमेतत् / ननु ज्ञानं न सविकल्पकग्राह्यम्, तस्य निर्विकल्पकपूर्वकत्वात् निर्विकल्पकगृहीतस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् / नापि केवलनिर्विकल्पकवेद्यम् / तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् / न च समवायाभाववद् निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् / तयोविशेषणांशस्य प्राग्ग्रहणादनुमानादिवत् तदुपपत्तेः / प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीतविशेषणायाश्च बुद्धेविशेष्यानुपसंक्रमात् कथमेवं स्यात् / न / उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् / ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्तरस्य विकल्पनात् / इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः / व्यक्त्यन्तरसमवेतमपि
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210