Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 139 * न्यायकुसुमाञ्जलि स्तबकः 4 116. प्रत्यक्षत्वानुपपत्तौ वस्तुत्वात् सुखवदेव प्रकारान्तरेणेतरज्ञानस्वभावकरणकर्तृव्युत्पत्तिमभ्युपेत्य प्रमात्वं प्रमाणत्वं प्रमातृत्वं च निषेधतीति उक्तम् / तर्का(क)परिशु[118B]द्धिविभवेऽपि तु अफलत्वादफलरूपत्वादित्यर्थः / ईश्वरज्ञानं न प्रमाणमिति त्विष्टमेवास्माकमफलत्वं च / तथाप्युक्तप्रमाणयोगे च सर्वमुपपद्यते इति नोक्तदोष इत्याह - मितिरित्यादि / कुत एव[म्] / पूर्वोक्तव्यवस्थापितप्रमाणलक्षणं स्मारयति - समीचीनो हीति / अनित्येति विशेषणं संभवव्यभिचाराभ्यामुर्पदया' नान्यथेति मन्वान आह - तथा चेति / न तु नेश्वरज्ञानं प्रमा फलरूपत्वादित्यत्रानुमानिकं दूषणमित्यत आह - न तदिति / सिद्ध्यसिद्ध्योरुभयोरपि व्यवच्छेद्याभावादित्यर्थः / ननु यदीश्वरस्य प्रमातृत्वं तदा तत् प्रमाण(णं) न / 'आप्तप्रामाण्यात्' इति सूत्रप्रतीकारं विरोधमाशङ्क्यते - यद्येवमिति / यद्यपि 'आप्तप्रामाण्यात्' इति सूत्रमाप्तानां प्रमासमवायाभिप्रायेण सङ्गच्छते तथापीश्वरा(र)प्रमाणव्यवहारनिमित्तसद्भावेन यथाश्रुतसूत्रान्यथाकरण(णं) व्याख्यातॄणामुचितमित्याशयवान् परिहरति - न निमित्तेति / नन्वयोगव्यवच्छेदेन किमात्यन्तिकयोगोऽभिमतः कादाचित्कयोगो वा / आद्ये चक्षुरादीनामात्यन्तिकयोगविधुराणां सर्वजनसिद्धप्रामाण्ये(ण्यं) न स्यादित्यव्यापकनिमित्तं कथमाद्रियामहे / द्वितीयेऽपि परमेश्वरस्य सदा प्रमायुक्तस्यासंभवेनैवाव्यापकमिति न द्वि(वि)द्वज्जनमनोहरं निमित्तमिति नाङ्गीकुर्मः / नैवमनवबोधात् / चक्षुरादीनामपि न सर्वदा प्रमाणत्वमस्ति किन्तु चरमसहकारिप्राप्तिसमये / तथा च विशेषौ / तदेव सामान्यमिह विवक्षितम् / अतो विशेषो विशेष व्यवतिष्ठते / स च लोके [119A] तस्मिन् सति प्रमाणं जायत इति, त(स) च:(च) साकारः, अन्यत्र तु यस्मिन् विद्यमाने प्रमा न विद्यत इति न भवतीति / न किञ्चिदनुपपन्नमिति / सामान्यं तु प्रमा(म)या त्वयोगव्यवच्छेदेन सम्बन्धः / समवाय(यः) कार्यकारणभावोऽन्यतरस्वभाव इति बोद्धव्यम् / ननु कार्य(L) प्रमासमवायस्तदयोगव्यवच्छेदे लोकव्यवहार(र:) निमित्तमिति कथं परमेश्वरे तद्व्यवहार इत्यत आह - अनापीति पूर्ववदिति / सिद्ध्यसिद्ध्योरुभयोरपि व्यवच्छेद्याभावादित्यर्थः / 117. स्यादेतत् - प्रमीयतेऽनेनेति प्रमाणम्, प्रमिणोतीति प्रमातेति कारकशब्दत्वमनयोः, तथा च कथमकारकमर्थ इति चेत् / न / एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् / प्रवृत्तिनिमित्तं तु यथोपदर्शितमेव व्यवस्थापनात् / अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्, सर्वत्र स्वातन्त्र्याभावात् / करणव्यवहारस्तु अन्यत्र यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति / एवं तर्हि पञ्चमप्रमाणाभ्युपगमेऽपसिद्धान्तः / न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्गशब्दकरणत्वात् / न, साक्षात्कारिप्रमावत्तण प्रत्यक्षान्तर्भावात् इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात् / / 117. अनयोः प्रमातृ-प्रमाणशब्दयोः कथमकारकमर्थ इत्यर्थः / उभयशब्दोऽपि प्रमातृशब्दसमर्थनं करोति / एतस्येति अन्यथेति / यदि प्रमाकर्तृत्वेन प्रमातृत्वं तदा अस्मदादीनामाद्यप्रमा प्रत्यकर्तृत्वात् प्रमातृत्वं लोकप्रसिद्धं न स्यादित्यर्थः / प्रमाशब्दं समर्थयति - करणेति / अन्यथे(त्रे)ति लोके / अन्यनिमित्तकोऽपीति / अयोगव्यवच्छेदेन जनकत्वनिमित्तकोऽपीति / एतेन कारकविशेष[वाचकः] प्रमाणशब्दः परमेश्वरे न वर्तते किन्त्वन्यथेत्युक्तं भवति / ननु तथापीश्वरप्रमाणं भवतोक्तप्रमाणेषु नान्तर्भवति, तथा च पञ्चमप्रमाणाभ्युपगमः स्यादित्याशक्यते - एवं तीति / साक्षात्कारिप्रमया त्वयोगव्यवच्छेदेन सम्बन्धसम्भवे प्रत्यक्षप्रमाणा[न्त]र्भावान्नोक्तदोषावकाश इति परिहरति - नेति / यथाश्रुतं सूत्रं तु लौकिकप्रत्यक्षपरमित्याह - इन्द्रियार्थेति / 1. पाठो भ्रष्टः /
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210