________________ 139 * न्यायकुसुमाञ्जलि स्तबकः 4 116. प्रत्यक्षत्वानुपपत्तौ वस्तुत्वात् सुखवदेव प्रकारान्तरेणेतरज्ञानस्वभावकरणकर्तृव्युत्पत्तिमभ्युपेत्य प्रमात्वं प्रमाणत्वं प्रमातृत्वं च निषेधतीति उक्तम् / तर्का(क)परिशु[118B]द्धिविभवेऽपि तु अफलत्वादफलरूपत्वादित्यर्थः / ईश्वरज्ञानं न प्रमाणमिति त्विष्टमेवास्माकमफलत्वं च / तथाप्युक्तप्रमाणयोगे च सर्वमुपपद्यते इति नोक्तदोष इत्याह - मितिरित्यादि / कुत एव[म्] / पूर्वोक्तव्यवस्थापितप्रमाणलक्षणं स्मारयति - समीचीनो हीति / अनित्येति विशेषणं संभवव्यभिचाराभ्यामुर्पदया' नान्यथेति मन्वान आह - तथा चेति / न तु नेश्वरज्ञानं प्रमा फलरूपत्वादित्यत्रानुमानिकं दूषणमित्यत आह - न तदिति / सिद्ध्यसिद्ध्योरुभयोरपि व्यवच्छेद्याभावादित्यर्थः / ननु यदीश्वरस्य प्रमातृत्वं तदा तत् प्रमाण(णं) न / 'आप्तप्रामाण्यात्' इति सूत्रप्रतीकारं विरोधमाशङ्क्यते - यद्येवमिति / यद्यपि 'आप्तप्रामाण्यात्' इति सूत्रमाप्तानां प्रमासमवायाभिप्रायेण सङ्गच्छते तथापीश्वरा(र)प्रमाणव्यवहारनिमित्तसद्भावेन यथाश्रुतसूत्रान्यथाकरण(णं) व्याख्यातॄणामुचितमित्याशयवान् परिहरति - न निमित्तेति / नन्वयोगव्यवच्छेदेन किमात्यन्तिकयोगोऽभिमतः कादाचित्कयोगो वा / आद्ये चक्षुरादीनामात्यन्तिकयोगविधुराणां सर्वजनसिद्धप्रामाण्ये(ण्यं) न स्यादित्यव्यापकनिमित्तं कथमाद्रियामहे / द्वितीयेऽपि परमेश्वरस्य सदा प्रमायुक्तस्यासंभवेनैवाव्यापकमिति न द्वि(वि)द्वज्जनमनोहरं निमित्तमिति नाङ्गीकुर्मः / नैवमनवबोधात् / चक्षुरादीनामपि न सर्वदा प्रमाणत्वमस्ति किन्तु चरमसहकारिप्राप्तिसमये / तथा च विशेषौ / तदेव सामान्यमिह विवक्षितम् / अतो विशेषो विशेष व्यवतिष्ठते / स च लोके [119A] तस्मिन् सति प्रमाणं जायत इति, त(स) च:(च) साकारः, अन्यत्र तु यस्मिन् विद्यमाने प्रमा न विद्यत इति न भवतीति / न किञ्चिदनुपपन्नमिति / सामान्यं तु प्रमा(म)या त्वयोगव्यवच्छेदेन सम्बन्धः / समवाय(यः) कार्यकारणभावोऽन्यतरस्वभाव इति बोद्धव्यम् / ननु कार्य(L) प्रमासमवायस्तदयोगव्यवच्छेदे लोकव्यवहार(र:) निमित्तमिति कथं परमेश्वरे तद्व्यवहार इत्यत आह - अनापीति पूर्ववदिति / सिद्ध्यसिद्ध्योरुभयोरपि व्यवच्छेद्याभावादित्यर्थः / 117. स्यादेतत् - प्रमीयतेऽनेनेति प्रमाणम्, प्रमिणोतीति प्रमातेति कारकशब्दत्वमनयोः, तथा च कथमकारकमर्थ इति चेत् / न / एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् / प्रवृत्तिनिमित्तं तु यथोपदर्शितमेव व्यवस्थापनात् / अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्, सर्वत्र स्वातन्त्र्याभावात् / करणव्यवहारस्तु अन्यत्र यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति / एवं तर्हि पञ्चमप्रमाणाभ्युपगमेऽपसिद्धान्तः / न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्गशब्दकरणत्वात् / न, साक्षात्कारिप्रमावत्तण प्रत्यक्षान्तर्भावात् इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात् / / 117. अनयोः प्रमातृ-प्रमाणशब्दयोः कथमकारकमर्थ इत्यर्थः / उभयशब्दोऽपि प्रमातृशब्दसमर्थनं करोति / एतस्येति अन्यथेति / यदि प्रमाकर्तृत्वेन प्रमातृत्वं तदा अस्मदादीनामाद्यप्रमा प्रत्यकर्तृत्वात् प्रमातृत्वं लोकप्रसिद्धं न स्यादित्यर्थः / प्रमाशब्दं समर्थयति - करणेति / अन्यथे(त्रे)ति लोके / अन्यनिमित्तकोऽपीति / अयोगव्यवच्छेदेन जनकत्वनिमित्तकोऽपीति / एतेन कारकविशेष[वाचकः] प्रमाणशब्दः परमेश्वरे न वर्तते किन्त्वन्यथेत्युक्तं भवति / ननु तथापीश्वरप्रमाणं भवतोक्तप्रमाणेषु नान्तर्भवति, तथा च पञ्चमप्रमाणाभ्युपगमः स्यादित्याशक्यते - एवं तीति / साक्षात्कारिप्रमया त्वयोगव्यवच्छेदेन सम्बन्धसम्भवे प्रत्यक्षप्रमाणा[न्त]र्भावान्नोक्तदोषावकाश इति परिहरति - नेति / यथाश्रुतं सूत्रं तु लौकिकप्रत्यक्षपरमित्याह - इन्द्रियार्थेति / 1. पाठो भ्रष्टः /