SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 140 * वामध्वजकृता सृङ्केतटीका 118. स्यादेतत् - तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात् / यदा खल्वेतदस्मदादिविभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थोऽप्यालम्बनमभ्युपेयम्, तथा च तदपि विपर्ययः, विपरीतार्थालम्बनत्वात् / तदनवगाहने वा अस्मदादेविभ्रमानविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्वमिति / न / विभ्रमस्याप्रामाण्येऽपि तद्विषयस्य तत्त्वमुल्लिखतोऽभ्रान्तत्वात् / अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः / प्रमाणाभावात् / तथाप्यारोपितार्थावच्छिन्नज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत् / न, यद् यत्र नास्ति तत्र तस्यावगतिरिति भ्रान्त्यर्थत्वात् एतदालम्बनस्य चैवमुल्लिखितः सर्वत्र यथार्थत्वात् / न हि न तद्रजतम्, नापि तत्रासत्, नापि तन्नावगतमिति / / साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः / लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः // 6 // // इति चतुर्थः स्तबकः // ___ 118. पुनः परेषामीश्वरविद्वेषीणामाक्षेपमुत्थाप्य परिहरति - स्यादेतदिति / प्रमाणा[119B]भावादिति / तस्मिंस्तदिति प्रत्ययो ह्यभ्रान्तिलक्षणम्, अस्ति चैतदत्र यद् व्यज्यति(ते) न हि तद् रजतमित्यादि एवमपि भ्रान्तत्वे वा भ्रान्तिसमुच्छेदप्रसङ्ग इत्यर्थः / सकलपरिच्छेदार्थमीश्वरस्तुतिव्याजेन सङ्कलयति - साक्षादिति / यस्य भूतार्थानुभवे विषयतया प्रविष्टो निःशेषचित्रवस्तूनां क्रमो यस्मिन् सोऽस्मन्मते शिवः प्रमाणं, नाप्रमाणमिति कण्ठतः परनिरासः / प्रमाणं साक्षात्कारणमिति ध्वनिः / इति परमपाशुपताचार्यश्रीवामेश्वरध्वजविरचिते न्यायकुसुमाञ्जलिनिबन्धे चतुर्थः परिच्छेदः समाप्तः // मिथ्याज्ञानतमिस्रमुद्रितदृशः संसारदुःखाकुलान् लोकान् दर्शयितुं सुमार्गमभितो न्यायागमैर्व्यञ्जितम् / श्रीवामध्वजनामधेयमुनिना विद्यावतामचिंता टीकेयं कुसुमाञ्जलेविरचिता चेतश्चमत्कारिणी // शुभमस्तु / मिश्रशूलपाणिसुतउपाध्यायश्रीमहादेवस्य पाठार्थं तीरभुक्ति सं० चौसावास्तीकठक्कुर श्रीमाधवेन लिखितमिदम् / यथा दृष्टं तथा लिखितमिदम् / शुभमस्तु सर्व जगतां परहृदः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy