SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 138 * वामध्वजकृता सङ्केत्तटीका प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव / यदसूत्रयत् - 'ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' [न्यायसू. 5.1.31] इति / गृहीतग्राहित्वात् प्रत्यभिज्ञायाः स्मृत्यंशानभ्युपगमे ग्रहणे(ण)स्मरणयोनि(वि)भागो दुःख(दुरव)धार[ण] इत्याशयवान् शङ्कते - अथेति अधिक इत्यादि / ननु तथापि साक्षादिन्द्रियासन्निकृष्टविषयत्वादनुव्यवसायस्य कथं साक्षात्कारित्वमित्याशयवान् पृच्छति - अथेति / इन्द्रियसन्निकृष्टविषयत्वादेवापरोक्षाकारोऽनुव्यवसाय इत्युत्तरमाह - कारणेति / इन्द्रियेण मनसा जनितत्वा[त्], किंविशिष्टेन ? करणान्तरनिरपेक्षेणेति / यत्र हि लिङ्गशब्दसादृश्यसापेक्षं मनो ज्ञानमुपादत्ते तत्र परोक्षाकारमिति, तद(द)व्यवच्छेदः संस्काराधिकेत्यादिना, संस्कारमात्रमपेक्षमाणस्मरणस्य न साक्षात्कार इति तद्व्यवच्छेदः न तु संस्काराधिकसन्निकर्षे[ण], संस्काराधिकसन्निकर्ष एवेन्द्रियस्य मनसो नोपपद्यत इति उक्तमित्याशयवानाक्षिपति - क इति / समाधत्ते - ज्ञानेन[118A]त्यादिना विशेषणत्वमित्यनेन ने(न) त्वन्यत्रेन्द्रियसापेक्षं मनो बहिः प्रवर्तते इति दृष्टम् / नन्वितरनिरपेक्षम् / अथानुव्यवसायजनकमनसः कथमितरनिरपेक्षस्य बहिः प्रवर्तनम् / तथात्वे अन्धबधिराद्यभाव इति पूर्वमाशङ्कते - मनस इति / अत्रापीति / यदि जनितव्यवसाये सापेक्षस्य मनसो बहिः प्रवर्तने नोक्तदोषापत्तिरिति समाधत्ते - ज्ञानावच्छेदकमिति / ज्ञानाग्रहणप्रार्थिणोऽनुव्यवसायो(ये) न स्वातन्त्र्येण [पू]र्वग्रहणरूपमिति समाधानान्तरमाह - न चेति / ज्ञानस्योभेयसिद्धस्य प्रत्यक्षत्वाप्रत्य[क्ष] त्वविप्रतिपन्ना(त्ता)वप्रत्यक्षत्वे साधकप्रमाणविरहा(ह)बाधकप्रमाणसद्भावाभ्यास(म)प्रत्यक्षत्वनिषेधेन परपक्षनिषेधादेव पर(स्व)पक्षसिद्धिरिति मन्वानो नैयायिकं पृच्छति - अथापीति / अत्र सूत्रकारोक्तं मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे प्रमाणयति - प्रत्यक्षमेवेति / ज्ञानविकल्पान [ज्ञान] भेदानां प्रात्यक्षिकलैङ्गिकौपम्यशब्दानां भावाभावौ संवेद्यते / अस्ति मे प्रात्यक्षिकं ज्ञानमानुमानिकमौपमानिकं शाब्दं वेति, नास्ति मे प्रात्यक्षिकं ज्ञानमित्यादिकमित्याका[]क्ष(क्षा)यामाह - अध्यात्म मानसमित्यर्थः / अत्र न्यायरुचिं प्रत्यनुमानमुच्यते - ज्ञानं मानसप्रत्यक्षमाशुविनाश्यात्मविशेषगुणत्वात् सुखवत् / 116. ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् / नापि प्रमाणम् / अकारकत्वात् / अत एव च न तदाश्रयः प्रमातेति / उच्यते - मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता / तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते // 5 // समीचीनो ह्यनुभवः प्रमेति व्यवस्थितम् / तथा च अनित्यत्वेन विशेषणमनर्थकम् / नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्याभावात् / न चेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् / न तत्प्रमाकरणमिति त्विष्यत एव, प्रमया सम्बन्धाभावात् / तदाश्रयस्य तु 'आप्तप्रामाण्यात्' [न्यायसू० 2.6.67] इति सूत्रविरोधः / तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेत्, न / निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् / प्रमासमवायो हि प्रमातृव्यवहारनिमित्तम्, प्रमया त्वयोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तम्, तदुभयं चेश्वरे / अत्रापि कार्ययेति विशेषणं पूर्ववदनर्थकमूहनीयम् /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy