________________ 137 * न्यायकुसुमाञ्जलि स्तबकः 4 114. एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति / स्यादेतत् / विषयनिरूप्यं हि ज्ञानमिष्यते / न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति / न चागृहीतस्य विशेषणत्वम् / न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वं व्याघातादिति / न / बह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वज्ञानोपनीतस्यैव मनसा वेदनात् / अन्यथातीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् / इयांस्तु विशेषः - तस्मिन् सति तबलादेव, असति तु तज्जनितवासनाबलात् / न चैवंसति स्मरणमेतत् / अगृहीतज्ञानगोचरत्वात् / न च विषयांशे तत् तथा स्यादिति युक्तम् / अवच्छेदकतया प्रागवस्थावदवभासनात् / ___ 114. ज्ञानस्य निर्विकल्पकवेद्यत्वप्रकारस्तु(स्तू)क्तमन्यत्राप्यतिदिशन्ति - एतेनेति / यथाह - व्यक्त्यन्तरगृहीतं ज्ञानत्वं व्यक्त्यन्तरविषयविकल्पोत्पत्तौ निमित्तमेवं गकारादिव्यक्त्यन्तरविकल्पोत्पत्तौ निमित्तमित्यर्थः / ननु ज्ञानस्यार्थावच्छिन्नस्य मानसप्रत्यक्षत्वे नातीन्द्रियार्थविषयज्ञानस्य मानसप्रत्यक्षत्वं, तथा च त[द्] दृश्यते, नेतरज्ञानस्यापि मानस्य(स)प्रत्यक्षत्वनिषेध इत्याशयवान् परः शङ्कते - स्यादेतदिति / ज्ञानान्तरमन्तर्मुखतया सुखादिवद् विषयनिरपेक्षमेव गृह्यते / अथवा परमेश्वरे ज्ञानस्य[117A] स्वीकारेऽपि स्वसंवेदनापत्तिर्दुष्परिहारेति / एकज्ञानस्य स्वेतरपदार्थावगाहिनो द्वितीयज्ञानावगाहनसंभवे द्वितीयेन प्रथमज्ञानग्रहणाभ्युपगमे विषयानवच्छेदस्वीकार(रः) स्वात्मनोऽपि पूर्वज्ञानविषयस्य ग्रहणसम्भवात् / इतरथा विषयान्नवि(नव)च्छिन्नस्य ज्ञानस्य ग्रहणेन विषयभूतस्य स्वात्मनो ग्रहण(णं) निरन्तरं स्वसंवेदनत्वमिति / यद्यपि परमार्थतत्त्वाद्यदीश्वरज्ञानस्य विषयावच्छिन्नस्य ग्रहसा(ण)मभ्युपगम्य पूर्वोक्तदोषं परिहरति - न बाह्येति / ज्ञानद्वारा ब(बो)धो बहिः प्रवर्तते इन्द्रियद्वारेण रूपादौ, तथावतिग(वगति)जनितलिङ्गबोधस्य मानसत्वाभ्युपगमे नोक्तदोषापत्तिरि[ति] तात्पर्यम् / यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो बाह्येन्द्रिये न प्रवर्तते ततः व(त)त्कारणिका स्मृतिरतीन्द्रिया(ये) विषये न स्यादिति बाधकमाह - अन्यथातीन्द्रियेति / ननु यदि ज्ञानादनुव्यवसायः स्मरणं च स्याताम् तदाऽनुव्यवसायः साक्षात्कारवान् स्मरणं तु विपरीतमित्येतत् कुत इत्याह - इयांस्त्विति / तस्मिन् सति ज्ञाने सतीति / तस्मादेव ज्ञानादेवानुव्यवसायोऽत इन्द्रियार्थसन्निकर्षजत्वेनापरोक्षानुव्यवसाय इत्यभिप्रायः / असति तु ज्ञान इति बोद्धव्यम् / अतुः(तः) संस्कारातिरिक्तसन्निकर्षविरहात् परोक्षं भवति स्मरणमित्यभिप्राय: / न तु बहिरिन्द्रियलिङ्गादिविषयत्वाद् अनुव्यवसायस्य गृहीतगोचरत्वेन स्मरणमेव स्यादित्याशयवानाशङ्कते - न चैवमिति एतदिति / मनसा बहिरिन्द्रियानुभवोपनीतार्थग्रहणमिति परिहरति [117B] - अगृहीतेति / अगृहीतं च तत् ज्ञानं चागृहीतज्ञानम्, तद्गोचरो यस्यानुव्यवसायस्तस्य भावस्तत्त्वं, तस्मादिति / पूर्वोक्ताभिप्रायेण पुनराशङ्कते - न चेति / परिहरति - अवच्छेदकतयेति / यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणमभ्युपेयते तथा व्यवसायसहकारिणा मनसा जनितोऽनुव्यवसायः संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तत्र तस्य स्मरणत्वं प्रत्यभिज्ञानेन प्रागवस्थायामिवेत्यर्थः ॥छ।। _115. न प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम् / विरोधात् / अथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसन्निकर्षों ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य / अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षेण संस्काराधिकसन्निकर्षवतेन्द्रियेण जनितत्वात् / अथ कः सन्निकर्षः ? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति / मनसो निरपेक्षस्य बहिापारेऽन्धबधिराद्यभावप्रसङ्ग इति चेत् / अत्रापि ज्ञानावच्छेदकं प्रति नायं दोषः / न च ज्ञानापेक्षया बहिरित्यस्ति / नापि तद्विषयापेक्षया निरपेक्षत्वम्, तस्यैव ज्ञानस्यापेक्षणात् / अथापि ज्ञानं