SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 136 * वामध्वजकृता सृङ्केतटीका हि सामान्यं गृहीतं तदेवेत्युपयुज्यते, अन्यथा अनुमानादिविकल्पानामनुत्पादप्रसङ्गः / तद्गतस्य विशेषणस्याग्रहणात्, अन्यगतस्य चानुपयोगात्, किं लिङ्गग्रहणसहकारि स्यादिति / ___113. एवं तावद् ज्ञानस्यातीन्द्रियत्वात् साधननिराकरणं कृतम्, अथैन्द्रियकत्वे परोक्तबाधकमुव्व(भा)व्य साधनं वक्तव्यमिति मन्वानो बाधकमाशङ्कते - नन्विति / जिज्ञासापेक्षणे वेति / जिज्ञासा हि सामान्यतोऽवगते धर्मिणि विशेषतश्चापरिज्ञाते भवति / ततश्च जिज्ञासासिद्ध्यर्थं सामान्येन ज्ञानानुभवो वाच्यः / तस्यापि च सामान्येन ज्ञानानुभव[स्य] सिद्ध्यर्थं जिज्ञासा वाच्या / साऽपि च सामान्यानुभवपूर्विका, मा(सोऽ)पि च जिज्ञासाधीनजन्मेति पूर्वपूर्वजिज्ञासापेक्षायामनवस्थाप्रसङ्गः / किञ्चिद् ज्ञानेन जिज्ञासितं ज्ञायते किञ्चित्त्वज्ञातमेव विनश्यतीति अनियमेन पूर्वदोषानुषङ्गः, अन्यथा ज्ञाततापक्षेऽपि समानमित्याशयवान् समाधानमुपक्रमते - तन्नेति / पुनर्ज्ञानप्रत्यक्षतायाः प्रकारान्तरेण बाधकमाशयते - न त्वि[116A]ति / समवायाभाववदिति समवायवदभाववच्चेत्यर्थः / अत्रापि किञ्चिद् ज्ञानं निर्विकल्पकैकवेद्यं, किञ्चित् सविकल्पकैकवेद्यं, अवेद्यं च किञ्चिदित्यनियमस्वीकारे पर्वोक्तदोषानवकाश इति हृदि निधाय परिहरति - नेति / आलोचनादिति / आलोचनं यतः ततस्तत्परस्सरमिति ने(ज्ञे)यम् / न च ज्ञानान्तरविकल्पोऽपि कथं निर्विकल्पकमन्तरेणेति वाच्यम्, तस्यापि विकल्पान्तरपूर्वकत्वादित्येवमादित्वात् / न चे(च)वं, घटादिविकल्पोऽपि न किकल्पपूर्वक इति जितं सविकल्पकैकप्रमाणवादिभिरिति चेत्, भवेदेवं यदि जातिरेव विशेषणं स्यात् / प्रतिधर्मि व्यभिचारिणां नीलादीनामपि विशेषणत्वात् / अतस्तदर्थमवश्यं कल्पनीयं निर्विकल्पकं सामान्यमप्युपनयति / सन्निहितपरित्यागे व्यवहितपरिग्रहस्य गुरुत्वात् / अपि च निर्विकल्पकपृष्ठभाविसविकल्पग्राह्यमेव ज्ञानम् / तथाहि - आत्ममन:संयोगस्य बुद्ध्यात्मसमवायस्य च पूर्वसिद्धत्वेन [उत्पन्नं] ज्ञानं मनसा सम्बद्धं चेत्येकः कालः / ततो निर्विकल्पकस्योत्पादो ग्राह्यज्ञानस्य विनश्यत्ता विकल्पस्योत्पद्यमानतेत्येकः कालः / ततो विकल्पस्योत्पादः, निर्विकल्पकस्य विनश्यत्ता ग्राह्यज्ञानस्य विनाश इत्येवमसमानकालत्वेऽप्यव्यवहितपूर्वापरकालभावित्वात् कार्यकारणभावस्य विषयविषयिभावस्य द्वित्वतद्बोधवद् विन[श्य] त्तया [त]द(द्) विनश्यत(ति) घटादि सन्निकर्षानन्तरं च ज्ञानप्रत्ययवद् वानुपपत्तेरभावादिति रहस्यम् / ननु यदा निर्विकल्पकवेद्यमेकं ज्ञानमपरं च सविकल्पकवेद्यं तदा व्यक्तंतर(व्यक्त्यन्तर)परिगृहीतेन व्यक्तेतेरे(व्यक्त्यन्तरे) ज्ञानजातीयताविशिष्टविकल्पोत्पादस्य संभवादित्युक्तमनुपपन्नें(न्) चैतद्विकल्पानुपपत्तेः / ज्ञानत्वं किं ग्राह्य[116B]शुक्तिसमवेतत्वेन गृहीतविशेषणमन्यव्यक्तिसमवायि(वेत)त्वेन वा ? न तावदन्यव्यक्तिसमवायि(वेत)त्वेन / न हि कलशान्तरसमवायि(वेत)त्वेन गुणकृपा(क्रिया)दयोऽनुभूताः कलशान्तरे विशिष्टप्रत्ययमुत्पादयन्तो दृष्टाः, नापि तत्समवायिक(वेत)त्वेन, तथा सति तदुत्पत्त्यनन्तरं ज्ञानव्यक्ते शात् प्रत्यक्षत्वानुपपत्तेरिति हृदि निधायाह - व्यक्त्यन्तरेति / व्यक्त्यन्तरे स्वरूपेण गृहीतं ज्ञानत्वं व्यक्त्यन्तरोपरक्तबुद्ध्युत्पत्वा(त्तौ) उपयुज्यते, यथा पर्वतोऽग्निमानिति विकल्पोत्पत्तौ / तत्रापि शक्यते वक्तुं किं व्यक्त्यन्तरं(रे) परिगृहीतं वह्निस्व(त्व)रूप(पं) पर्वतोऽग्निमानिति विकल्पा(ल्पो)त्पत्तौ बीजं पर्वतनिष्ठतया वा [परिगृहीतम्] / न तावदाद्यः, न ह्यत्र परिगृहीतं विशेषणमन्यत्र विशिष्टप्रत्ययमुत्पादयतीति त्वायवो(त्वया चो)क्तत्त्वात् / न द्वितीयोऽनुमानविकल्पोत्पत्तेः पूर्वं विशेषणस्य दहनस्यागृहीतत्वात्, तस्माद् व्यक्त्यन्तरगृही]तमपि वह्नित्वरूपं वर्तते स्वोपरक्तविशिष्टबोधोत्पत्तावुपयुज्यते / विशेषणस्याभिन्नजातीयत्वादिति वाच्यम् / अनन्यगतिकत्वादेवं तहि ज्ञानत्वस्य विशेष[ण] स्याभिन्नत्वात् सुतरां विशिष्टप्रत्ययोत्पत्तानु(वु)पयोग इत्याशयवानाह - अन्यथेति / तद्गतस्येति पर्वतग[त]स्येत्यर्थः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy