________________ 135 * न्यायकुसुमाञ्जलि स्तबकः 4 ताप्रसङ्गात् / न ह्यसौ तदानीं तदीयान्यदीया वेति / अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत् / एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् / अन्यथा ज्ञानस्यापि तथानुवृत्तेः को दोषः / न हि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम / अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात् / अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति / 112. ननु ज्ञानस्यानेकक्षणावस्थायित्वे बाधकसंभवादेककाल[क्षणा]वस्थानसिद्धौ कुतोऽसिद्धिः क्षणिकताया इति मन्वानोऽनेकक्षणावस्थायित्वबाधकमाह - नन्विति / यदीति शेषः / यादृशं प्र[थ]मक्षणावच्छिन्नमित्यर्थः / तादृशमेव प्रथमक्षणावच्छिन्नमेव / अन्यादृशं द्वितीयक्षणावच्छिन्नमित्यर्थः / न वा कमपीति न प्रथमक्षणावच्छिन्नम्, न द्वितीयक्षणावच्छिन्नम् इत्यर्थः / न च प्रथमक्षणावच्छिन्नत्वेन घटादयोऽनुभूयन्ते किन्तु घटत्वाद्यवच्छिन्नत्वेन, तथा चानेककालावस्थानेऽपि ज्ञानस्य नोक्तदोष इत्याशयवान् समाधत्ते - तदसदिति / प्रथमक्षणावभा[115B]साभ्युपगमेन शङ्कते / ज्ञेयनिवृत्तौ प्रथमक्षणरूपज्ञेयनिवृत्तावित्यर्थः / तदनुवृत्तौ वा ज्ञानानुवृत्तावित्यर्थः / नाक्र(त्र) क्षणावभासोऽस्तीत्युक्तम् / घटादयो हि भासन्ते / न च प्रचुरतरकालावस्थायिनां तेषां निवृत्तिः, ज्ञानविनाशे तेषामवस्थानसंभवात्, तस्मात् प्रथमक्षणावभासमभ्युपगम्य तन्निवृत्तावपि ज्ञानानुवृत्तिः ज्ञानानुवृत्तौ ज्ञेयनिवृत्तिरित्याशयवान् परिहरति - किमस्मिन्निति / एवं तावदुक्तन्यायेनाक्षणिकत्वा(त्वं) विज्ञानस्येति समर्थितम्, संप्रति क्षणिकत्वाभ्युपगमेऽपि नातीन्द्रियत्वमिति प्राकट्यप्रतिबन्दिद्वारेण समर्थयति - तथानुवृत्तरिति / अतीतेनापि क्षणेनोपलक्षितस्य वर्तमान(ना) [र्थ] तयाऽनुवृत्तेरित्यर्थः / ननु ज्ञातता[पक्षे] अर्थनिरपेक्षवर्तमानज्ञाततासम्बन्धमात्रेणैव तज्जनकत्वा(स्य) ज्ञानस्य वर्तमानाभू(भ)ताऽर्थापि(त्य)य(ये)ऽप्युपपद्यते / अन्वये (त्वन्नये) त्य(अ)र्थस्यातीतत्वा[द्] ज्ञातताश्रयानभ्युपगमात् कथमुपपद्यत इत्यतोऽतिप्रसङ्गापादनेन समीकर्तुमाह - न हि वर्तमानार्थेति / 113. ननु ज्ञानमैन्द्रियकं चेद् विषयसञ्चारो न स्यात् / संजातसम्बन्धत्वात् / न च जिज्ञासानियमान्नियमः / तस्याः संशयपूर्वकत्वात् / तस्य च धर्मिज्ञानपूर्वकत्वात् / धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाऽप्यनवस्थानादिति / तन्न / ज्ञाततापक्षेऽपि तुल्यत्वात्, तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापाताज्जिज्ञासानियमस्य च तद्वदनुपपत्तेः / न च इन्द्रियसम्बन्धविच्छेदाद् विराम इति युक्तम् / आत्मप्राकट्याव्यापनात् / स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न तु सर्वेति चेत्, तुल्यम् / प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्, तुल्यमेतत् / ननु ज्ञानं न सविकल्पकग्राह्यम्, तस्य निर्विकल्पकपूर्वकत्वात् निर्विकल्पकगृहीतस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् / नापि केवलनिर्विकल्पकवेद्यम् / तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् / न च समवायाभाववद् निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् / तयोविशेषणांशस्य प्राग्ग्रहणादनुमानादिवत् तदुपपत्तेः / प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीतविशेषणायाश्च बुद्धेविशेष्यानुपसंक्रमात् कथमेवं स्यात् / न / उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् / ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्तरस्य विकल्पनात् / इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः / व्यक्त्यन्तरसमवेतमपि