Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 137 * न्यायकुसुमाञ्जलि स्तबकः 4 114. एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति / स्यादेतत् / विषयनिरूप्यं हि ज्ञानमिष्यते / न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति / न चागृहीतस्य विशेषणत्वम् / न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वं व्याघातादिति / न / बह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वज्ञानोपनीतस्यैव मनसा वेदनात् / अन्यथातीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् / इयांस्तु विशेषः - तस्मिन् सति तबलादेव, असति तु तज्जनितवासनाबलात् / न चैवंसति स्मरणमेतत् / अगृहीतज्ञानगोचरत्वात् / न च विषयांशे तत् तथा स्यादिति युक्तम् / अवच्छेदकतया प्रागवस्थावदवभासनात् / ___ 114. ज्ञानस्य निर्विकल्पकवेद्यत्वप्रकारस्तु(स्तू)क्तमन्यत्राप्यतिदिशन्ति - एतेनेति / यथाह - व्यक्त्यन्तरगृहीतं ज्ञानत्वं व्यक्त्यन्तरविषयविकल्पोत्पत्तौ निमित्तमेवं गकारादिव्यक्त्यन्तरविकल्पोत्पत्तौ निमित्तमित्यर्थः / ननु ज्ञानस्यार्थावच्छिन्नस्य मानसप्रत्यक्षत्वे नातीन्द्रियार्थविषयज्ञानस्य मानसप्रत्यक्षत्वं, तथा च त[द्] दृश्यते, नेतरज्ञानस्यापि मानस्य(स)प्रत्यक्षत्वनिषेध इत्याशयवान् परः शङ्कते - स्यादेतदिति / ज्ञानान्तरमन्तर्मुखतया सुखादिवद् विषयनिरपेक्षमेव गृह्यते / अथवा परमेश्वरे ज्ञानस्य[117A] स्वीकारेऽपि स्वसंवेदनापत्तिर्दुष्परिहारेति / एकज्ञानस्य स्वेतरपदार्थावगाहिनो द्वितीयज्ञानावगाहनसंभवे द्वितीयेन प्रथमज्ञानग्रहणाभ्युपगमे विषयानवच्छेदस्वीकार(रः) स्वात्मनोऽपि पूर्वज्ञानविषयस्य ग्रहणसम्भवात् / इतरथा विषयान्नवि(नव)च्छिन्नस्य ज्ञानस्य ग्रहणेन विषयभूतस्य स्वात्मनो ग्रहण(णं) निरन्तरं स्वसंवेदनत्वमिति / यद्यपि परमार्थतत्त्वाद्यदीश्वरज्ञानस्य विषयावच्छिन्नस्य ग्रहसा(ण)मभ्युपगम्य पूर्वोक्तदोषं परिहरति - न बाह्येति / ज्ञानद्वारा ब(बो)धो बहिः प्रवर्तते इन्द्रियद्वारेण रूपादौ, तथावतिग(वगति)जनितलिङ्गबोधस्य मानसत्वाभ्युपगमे नोक्तदोषापत्तिरि[ति] तात्पर्यम् / यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो बाह्येन्द्रिये न प्रवर्तते ततः व(त)त्कारणिका स्मृतिरतीन्द्रिया(ये) विषये न स्यादिति बाधकमाह - अन्यथातीन्द्रियेति / ननु यदि ज्ञानादनुव्यवसायः स्मरणं च स्याताम् तदाऽनुव्यवसायः साक्षात्कारवान् स्मरणं तु विपरीतमित्येतत् कुत इत्याह - इयांस्त्विति / तस्मिन् सति ज्ञाने सतीति / तस्मादेव ज्ञानादेवानुव्यवसायोऽत इन्द्रियार्थसन्निकर्षजत्वेनापरोक्षानुव्यवसाय इत्यभिप्रायः / असति तु ज्ञान इति बोद्धव्यम् / अतुः(तः) संस्कारातिरिक्तसन्निकर्षविरहात् परोक्षं भवति स्मरणमित्यभिप्राय: / न तु बहिरिन्द्रियलिङ्गादिविषयत्वाद् अनुव्यवसायस्य गृहीतगोचरत्वेन स्मरणमेव स्यादित्याशयवानाशङ्कते - न चैवमिति एतदिति / मनसा बहिरिन्द्रियानुभवोपनीतार्थग्रहणमिति परिहरति [117B] - अगृहीतेति / अगृहीतं च तत् ज्ञानं चागृहीतज्ञानम्, तद्गोचरो यस्यानुव्यवसायस्तस्य भावस्तत्त्वं, तस्मादिति / पूर्वोक्ताभिप्रायेण पुनराशङ्कते - न चेति / परिहरति - अवच्छेदकतयेति / यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणमभ्युपेयते तथा व्यवसायसहकारिणा मनसा जनितोऽनुव्यवसायः संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तत्र तस्य स्मरणत्वं प्रत्यभिज्ञानेन प्रागवस्थायामिवेत्यर्थः ॥छ।। _115. न प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम् / विरोधात् / अथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसन्निकर्षों ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य / अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षेण संस्काराधिकसन्निकर्षवतेन्द्रियेण जनितत्वात् / अथ कः सन्निकर्षः ? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति / मनसो निरपेक्षस्य बहिापारेऽन्धबधिराद्यभावप्रसङ्ग इति चेत् / अत्रापि ज्ञानावच्छेदकं प्रति नायं दोषः / न च ज्ञानापेक्षया बहिरित्यस्ति / नापि तद्विषयापेक्षया निरपेक्षत्वम्, तस्यैव ज्ञानस्यापेक्षणात् / अथापि ज्ञानं
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210