Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 149
________________ 134 * वामध्वजकृता सृङ्केत्तटीका ज्ञानाभ्युपगमेऽपि तुल्यत्वात् / स्वहेतोः कुतश्चिदिति चेत् / तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति / स्यादेतत् / प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्थायामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् / तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्तते इति चेत् / हन्तैवं सुष्वापनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवापरोक्षमिष्यते / अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति / तथा च कालात्ययापदिष्टो हेतुः / एतेन क्षणिकत्वादिति निरस्तम् / अपि च किमिदं क्षणिकत्वं नाम ? यदि आशुतरविनाशित्वम्, तदानैकान्तिकम् / अथैकक्षणावस्थायित्वम्, तदसिद्धं प्रमाणाभावात् / 111. ननु प्रवृत्तिरूपव्यवहारस्तावत् प्रत्यक्षसिद्धतयाऽशक्यापह्नवोऽतस्त[द्]व्यवहारान्यथानुपपत्तिनिमित्तं किञ्चिदुपकल्पयिष्यति / तत्त्वज्ञानकार्यमिति ज्ञानस्यासिद्धिरित्याशयवानाशङ्कते - अस्ति तावदिति / तदिति व्यवहारनिमित्तमिति / तस्यैवासिद्धिरित्यर्थः / ज्ञानसिद्धौ हि व्यवहारनिमित्तस्य तज्जन्यतासिद्धिः, त[द]सिद्धौ व्यवहारनिमित्ताज्ञान(त्ताजन्यता)सिद्धिरिति भावः / ननु कर्तृ[धर्म]प्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मश्च ज्ञानमेवेति मन्वानः पुनः शङ्कते - तथापीति / समाधते - अस्त्विच्छेति / एतत् तव ज्ञानाप्रतीतावतीन्द्रिय[त्व]साधनस्याश्रयासिद्धि प्रतिजा(ज्ञा)तां सन् समर्थ्य संप्रति ज्ञानाप्रतीतावतीन्द्रियत्वसाधनस्य कालात्यपापदिष्टत्वं वक्तुमुपक्रमे(म)त(ते) - स्यादेतदिति / ननु पूर्वोक्तप्रमाणस्य हेत्वाभावः(स)ता, ज्ञानस्यातीन्द्रियत्वेऽनुमानमुच्यते परैस्तत् सर्वं पूर्वन्यायेनाश्रयासिद्धिकालात्ययापदिष्टत्वाभ्यामननुमानमिति मन्तव्यम् / 112. ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृशमेव गृह्णाति, अन्यादृशं वा, न वा कमपि इति / न प्रथमः / तस्य क्षणस्यातीतत्वात् / प्रत्यक्षज्ञानस्य च वर्तमानाभत्वात् / न चातीतमेव वर्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् / न द्वितीयः, विरम्य व्यापारायोगात् / प्रथमतोऽपि तथाभ्युपगमेऽनागतावेक्षणप्रसङ्गात् / न तृतीयः / ज्ञानत्वहानेरिति महाव्रतीयाः / तदसत् / ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् / अपि तु तदेव ग्रहणमित्यभ्युपगमः / तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं द्वितीयेऽपि क्षणे तदालम्बनमेव तन्न वेति प्रश्नार्थः / तत्र तदालम्बनमेव तदिति परमार्थः / न चैवं भ्रान्तत्वम् / विपरीतानवगाहनात् / तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् / किमस्मिन्ननुपपन्नम् / न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति / सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथोच्यते - न स्वप्रकाशम्, वस्तुत्वात्, इतरवस्तुवत् / न च ज्ञानान्तरग्राह्यम्, ज्ञानयोगपद्यनिषेधेन समानकालस्य तस्याभावात् / ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः / ग्राह्यकाले च ग्राहकस्यानागतत्वात् इति चेत् / नन्वेवं ज्ञाततापि न प्रत्यक्षा स्यात्, क्षणिकत्वात् / कथम् ? इत्थम् - न स्वप्रकाशा वस्तुत्वात् / न जनकग्राह्या, अनागतत्वात्, विरम्यव्यापारायोगाच्च / न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् / न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वादिति / क्षणिकत्वमेव तस्याः कुत इति चेत् / त्वदुक्तयुक्तरेव / तथाहि - यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपि / तत्र न प्रथमः / तस्य तदानीमसत्त्वात् / न द्वितीयः / अप्रतिसंक्रमात् / एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञातताफलत्वेन भ्रान्तत्वप्रसङ्गात्, रजतावगाहिनि पुरोवर्तिवृत्तिज्ञातताफल इव / न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात् / न तृतीयः / निःस्वभाव

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210