Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 135
________________ 120 * वामध्वजकृता सृङ्केतटीका मिति आत्माश्रयः / द्वितीये दूषणमितरेतराश्रयः इति / तद्गोचरत्वाद् ज्ञानाभावनिरूपणे तद्विषयव्यवहाराभावनिरूपणं, तद्विषयव्यवहाराभावे तद्गोचरत्वाद् ज्ञान(ना) भावनिरूपणमितीतरेतराश्रयत्वम् / तृतीये दूषणं चक्रकेति / तदाश्रितधर्माभावनिरूपणं तदाश्रितधर्मानुपलम्भेन, उपलम्भाभावावधारणं च प्राकट्याभावेन, प्राकट्याभावज्ञानं च व्यवहाराभावेन, तद्गोचर[104B]व्यवहारनिवृत्तिश्च तदाश्रितप्राप्त्यादिरूपधर्माभावेनेति चक्रकमिति विवेचनीयम् / 97. न चाज्ञातस्योपलम्भाद्यभावस्य लिङ्गता / न च प्राकट्याभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम् / लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात् / अविनाभावबलेन तु नियमे तत्प्रतिसन्धानापत्तेः / न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादावपि तथाभावप्रसङ्गादिति / ज्ञानप्रत्यक्षत्वेन त्वद्दिशा भविष्यतीति चेत्, न / शब्दध्वंसादिनोक्तोत्तरत्वात् / अपि च प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरनुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद् व्यवस्थाप्येत, व्याप्तिबलाद् वा / न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते / नापि व्याप्तेः / तथासति वायौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात् / अनाक्षेपे वा न तत्कारणको भवेद् न वा भवेत् / ततो न भवत्येव, लिङ्गात् तदुत्पत्तिरिति चेत् / ननु लिङ्गमपि सैव, न तत्त्वान्तरम् / यथा योनिसम्बन्धोऽलिङ्गदशायामिन्द्रियसन्निकर्षमपेक्षते, लिङ्गदशायां तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेत्, न / कार्यजातिभेदात् तदुपपत्तेः / प्रकृते च तदनभ्युपगमात् / पारोक्ष्यापारोक्ष्ये विहायान्यथाऽप्यसौ भविष्यतीति चेत्, न / अनुपलम्भात् / 97. ननु वायौ रूपाभावाद्यनुमाने तथानुपलब्ध्यादिकमज्ञातमेव लिङ्गं भविष्यति / तथा च नोक्तदोषावकाशमिति आशयवान् आशङ्क्य परिहरति - न चेति / सत्तया गमकत्वे प्रत्यक्षवेद्यत्वमुक्तं तदुद्दिधीषं(ष)या लिङ्गत्वमास्थितं परेण लिङ्गस्य च ज्ञातस्यैव गमकत्वेन कस्यचिद् विप्रतिपत्तिरस्तीत्यभिप्रायः / नन्वन्येषामज्ञातानामलिङ्गत्वम्, प्राकट्यं तु स्वसत्तयैव विषयप्रकाशवत्त्व[म्, तस्या]भावः सत्तयैव विज्ञानाभावं गमयिष्यति / न चायोग्यप्रतियोगिकत्वेनायोग्योऽस्याभाव इति वाच्यम् / अनुपलब्धेरेव तथाविशेषणापेक्षणादिति हदि निधाय शङ्कते - न चेति / अनुपलब्धेः ह्यस्तत्रया(स्वसत्तया) वा स्वकारणाभावमविनाभावबलेन वा प्रतिपादयेत् लिङ्गाभावत्वमात्रेण वा / न मध्यमान्तिमावित्याह - लिङ्गाभावस्येति / एवं सति धूमाभावोऽपि वह्नयभावं गमयेदित्यर्थः / प्रथममाशय निराकरोति - अविनाभावेति / एतदुक्तं भवति - [न] उपलम्भाभावो भवतामभा 105A]वोपलम्भ इति / तत्र शङ्कते - ज्ञानेति / भवन्मते ज्ञानस्याप्रत्यक्षत्वात् प्रत्यक्षेण ज्ञानाभावो रावगम्यते / न रूपाभावानुमानं भविष्यतीत्यर्थः / अस्मन्तरे(न्मते) योग्यप्रतियोग्यतया(प्रतियोगिमत्तया) अनुपलम्भवद्(म्भाद्) वाय्वादिरूपाभावस्यापि प्रत्यक्षत्वादनुमेयत्वाभाव इत्याशयवान् परिहरति - नेति / नन्वधिकरणमप्रतीत्य कथं वाय्वादौ रूपाभावः प्रत्यक्षः स्यादित्यत आह - शब्देति / अस्मन्मते अप्रत्यक्षेणाप्याश्रयेणाभावस्य प्रत्यक्षेण निरूपणात् शब्दप्रध्वंसवदिति व्युत्पादितत्वादित्यर्थः / संप्रति प्रतिपत्तियोग्यग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिरनुपलब्धेरङ्गमिति / 'यथा वेति / ननु स्मरणस्येनि(स्यानि)यतत्वे साक्षात्कार्यनुभवत्वप्रसङ्ग इत्याशक्य निराकरोति / .... वदतः परान् विविकल्या(विकल्प्य) निराकरोति - अपि चेति / तत इति अनुपलब्धित इत्यर्थः / सैवेति अनुपलब्धिरेवेत्यर्थः / ब्राह्मण्यज्ञाने योनिसम्बन्धो लिङ्गालिङ्गदशयारि१. प्रतीकमिदं मुद्रितमूले नास्ति /

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210