Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 138
________________ 123 * न्यायकुसुमाञ्जलि स्तबकः 3 तथा च आत्माश्रयो दोषः / तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्य अदुष्टस्य तत्समीचीनज्ञानसामर्थ्यमपि / तथा च प्रयोगः - इन्द्रियमभावप्रमाकरणम्, तद्विपर्ययकरणत्वात्, यद् यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति / विकल्पनात् खल्वपि / अघटं भूतलमिति हि विशिष्टधीरवश्यमिन्द्रियकरणिका स्वीकर्तव्या प्रमाणान्तरं वा सप्तममास्थेयम् / यथा हि विशेष्यमात्रोपक्षीणमिन्द्रियमकरणमत्र, तथा विशेषणमात्रोपक्षीणा अनुपलब्धिरपि न करणं स्यात् / स्वस्वविषयमात्रप्रवृत्तयोः प्रमाणयोः समाहारः कारणमिति चेत्, न / विषयभेदे फलवैजात्ये च तदनुपपत्तेः / न हि मृत्सु तन्तुषु च व्याप्रियमाणयोः कुलालकुविन्दयोः समाहारः स्यात् / नापि घटपटादिकारिणां चक्रवेमादीनां समाहारः क्वचिदुपयुज्यते / तत्र कर्बुरकार्याभावान्न तथा, प्रकृते तु विशिष्टप्रत्ययस्य परोक्षापरोक्षरूपस्य दर्शनात् तथेति चेत्, न / विरुद्धजातिसमावेशाभावात् / भावे वा करम्बित एव कार्ये द्वयोरपि शक्तिरभ्युपगन्तव्या दर्शनबलात्, न हि नियतविषयेण सामर्थ्येन कर्बुरकार्यसिद्धिः / अन्यत्रापि तथा प्रसङ्गात् / ननूभयोरप्युभयत्र सामर्थ्य कोऽर्थो मिथः सन्निधानेनेति चेत्, न / तत्सहितस्यैव तस्य तत्र सामर्थ्यादिति / 100. अभावप्रमायामिन्द्रियाणां करणत्वप्रतिपत्तये प्रमाणान्तरमाह - अपि चेति / इन्द्रियाणीति धर्मनिर्देशः, करणमिति साध्यं, प्रकरणात् / इन्द्रियं क्वचिदभावानुभवकरणं प्रतियोग्यनुभवकरणत्वाद् लिङ्गवत् / शब्द(ब्दो) वेति / यद् भावावगाहि, यत्ततीव(तत्तद)भावा]वगाहीति विवक्षितमतो नोपमानेनानेकान्तः / अथवा येषां भावानां नानाजातीनामवगाहीति व्याख्येयमतो नोक्तदोषः / एतदुभयमभिप्रेत्योपन्यस्याह - अन्यथेति / सिद्धत्वादत उक्तम् - व्यापाराव्यवधानत इति / तद् विवृणोति - ग्राहयतु वेति / व्यापारव्यवधायकत्वं(त्वे) चेन्द्रियस्य सवि(व)सविकल्पकप्रत्यक्षत्वविलोपमनिष्टमाह - अन्यथेति / नन्वधिकरणग्रहणनिर्विकल्पकोपक्षीणसविकल्पकप्रत्यक्षत्वधि(वि)लो[पा]न्न स व्यापारश्चक्षुषः / [107A] पर्वतनितम्बवतिवह्निबोधने धूमोपलम्भस्यापि व्यापारत्वमिति नानुमानसंभव इत्यादि निराकरोति - नन्वेवमिति / यदि चेन्द्रिय(यं) भावप्रतीतिकरणं न भवे[त्] तदा [अ]घट(टं) भूतलमिति विकल्पनात् विशिष्टधीन स्यादिति विपक्षे बाधकयु(मु)क्तं निवारयति - विकल्पनादिति / शङ्कते - स्वस्वेति / अत्र विवेचनीयं किं प्रमाणयोः समाहारः, समाहृतयोर्वा प्रामाण्यम् ? नाद्यः, वि(भि)न्नप्रमाजनकत्वेन तयोः पर्यवसितयोः प्रमान्तरजनकत्वानुपपत्तेः / तदुक्तम् - न विषयभेद इति / विसेष(विषय) भेदे समाहाराभावमुदाहरति - न हीति / फलभेदे तदनुपपत्ति दर्शयति - नापीति / द्वितीये तूभयत्रापि चक्षुषः सामर्थ्यमनिच्छतापि मन्तव्यम् इत्यतो भावात् नैव सम्बन्धोऽयोग्यत्वादिन्द्रियस्य हीत्यादि निरस्तप्रायमित्याशयवतोक्तम् - भावे वेत्यादि / 101. एतेन सुरभि चन्दनमित्यादयो व्याख्याताः / तथा चाभावविषयेऽपीन्द्रियसामर्थ्यस्य दुरपह्नवत्वादलमसत्ग्रहेणेति / स्यादेतत्, नागृहीते विशेषणे विशिष्टबुद्धिरुदेति, तत्कार्यत्वात् / न च विशिष्टसामर्थ्य केवलविशेषणेऽपि सामर्थ्यम्, केवलसौरभेऽपि चक्षुषो वृत्तिप्रसङ्गात् / अतोऽभावविशेषणग्रहणाय मानान्तरसम्भवः / अपि च कथमनालोचितोऽर्थ इन्द्रियेण विकल्प्येतः ? न च मानान्तरस्याप्येषा रीतिः / अनुमानादिभिरनालोचितस्याप्यर्थस्य विकल्पनात् / अप्राप्तेश्च / न ह्यभावेनेन्द्रियस्य संयोगादिः सम्भवति / न च विशेषणत्वं सम्बन्धान्तरपूर्वकत्वात् तस्य / अवश्याभ्युपगन्तव्यत्वा

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210