Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 127 * न्यायकुसुमाञ्जलि स्तबकः 4 104. न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात् / न चोत्पद्यमानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् / नापि पूर्वाविशिष्टतामात्रेणाप्रामाण्यम् / उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् / तदनपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् / छिन्ने कुठारादीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पादानुत्पादाभ्यां विशेषात् / तत्फलं प्रमैव न भवति, गृहितमात्रगोचरत्वात् स्मृतिवदिति चेत् / न / यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् / अनधिगतार्थत्वे सिद्धसाधनात् साध्यसमत्वाच्च / व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात्, बाधितत्वाच्च / न चानधिगतार्थत्वमेव तन्निमित्तम्, विपययेऽपि प्रमाव्यवहारप्रसङ्गात् / नापि यथार्थत्वविशिष्टमेतदेव धारावहनबुद्ध्यव्याप्तेः न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थत्वमुपपादनीयम् / क्षणोपाधीनामनाकलनात् / न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम्, स्वरूपेण तज्जननेऽनागतादिविशिष्टतानुभवविरोधात् / तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामज्ञाने तद्विशिष्टतानुत्पादात् / न चैतस्यां प्रमाणमस्ति / नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन / _104. श्लोकव्याचिख्यासुरनधिगतार्थगन्तृलक्षणप्रणेतुरभिप्रायं विकल्प्य निराकर्तुमुपन्यस्यति / श[]कते तत्फलमिति / समाधानम् - नेति / प्रमैव न भवतीति / अत्र [109B] यथार्थानुभवत्वस्य निषेधो विवक्षितः, अन]धिक(ग)[ता]र्थत्वस्य वा प्रमाव्यवहारमात्रस्य वेति / यथाक्रममुपन्यस्य निरस्यति / यथार्थानुभवेति / तन्निमित्तविरह(हा)[त्] प्रमानिमित्तविरहः / एतदेव निमित्तमित्याशक्य निराकरोति - न चेति / विपर्ययेऽपीति / भाता(भ्रमा)वपीत्यर्थः / अतिशय(अनधिगतार्थगन्त)लक्षणमाशक्य निराकरोति - न च / धारावहनबुद्धीनामप्यनधिगतविषयत्वमाशङ्क्य परिहरति - न चेति / 'घटोऽयम्' 'घटोऽयम्' इति बुद्धिसहस्रस्यापि न विषयभेदमुपलभामहे, कालश्च न प्रत्यक्षबुद्धौ प्रतिभासते / अप्रतिभासते च तस्यैकत्वात्, भेदाग्र[हा]च्चेति / सूक्ष्मकालोपाधय एव कालो वक्तव्यस्ते[षां] च न प्रतिभाहो(सो) वेति परिहारार्था(\) 'नुनु(ननु) मा भूवन् उपाधयः प्रतीतिविषयास्तज्जनितविशिष्टताप्रत्यक्षत्वादेवानधिगतविषयत्वम्' इत्याशक्य निराकरोति - न चाज्ञातेष्विति / उपाधयो हि ति(तां) विशिष्टतां स्त(स्व)धा(स)त्तयैव [ज]नयेयु(युः) स्वज्ञानसत्तया वा / आद्ये दूषणमाह - स्वरूपेणेति / अस्ति तावच्छुक्लगुणविशिष्टा पटानुभ[व]वेदना या 'अनागतश्वेतपटः' इति तथाविध[विशिष्टानुभवस्तेन विरोधः, [तस्माद्] असम्भव एवोक्तपक्षस्य / द्वितीयं दूषयति - तज्ज्ञानेनेति / ननु सतः सत्तामात्रेण असतः स्वज्ञानसत्तया विशेषणस्य विशिष्ट[110A]ताजनकत्वाभ्युपगमान्नोक्तप्रसङ्ग इत्यतोऽपरितुष्यन्निदमाह - न चैतस्यामिति / न तु विशिष्टोऽर्थ इति न च ज्ञानमिति विशिष्टतायां प्रमाणमित्युक्ष्ये(क्ते) अर्थज्ञाना(ने) शुक्लतायासि(मि)वेत्याशयवा[न] निष्टमाह / यथा शुक्लगुणसम्बन्धव्यतिरिक्ता जाति[रि]त्यत(तः) शुक्लता न चकास्ति तथा विशेषणसम्बन्धव्यतिरिक्तविशिष्टताऽपीत्याशयवानतिप्रसङ्गं निवारयति - व्यवच्छित्तीत्यादिना / 105. अन्यथा तवाप्यनवस्थानादिति / ज्ञाततैवोपाधिरिति चेत् / न, निराकरिष्यमाणत्वात् / तत्सद्भावेऽपि वा स्मृतेरपि तथैव प्रामाण्यप्रसङ्गात् / जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितज्ञाततावभासनात् / अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का वार्ता / अप्रमैवासाविति
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210