Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ चतुर्थः स्तबकः 103. ननु सदपीश्वरज्ञानं न प्रमाणम्, तल्लक्षणायोगात्, अनधिगतार्थगन्तुस्तथाभावात्, अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् / न च नित्यस्य सर्वविषयस्य चानधिगतार्थता, व्याघातात् / अत्रोच्यते - अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् / यथार्थानुभवो मानमनपेक्षतयेष्यते // 1 // 103. मिथ्याज्ञानतमिस्रमुद्रितदृशः संसारदुःख(खा)कुलान् लोकान् दर्शयितुं सुमार्गमभितो न्यायागमैय[ञ्]जितम् / श्रीवामध्वजनामधेयगु(मु)निना विद्यावतामचि(चि)ता टीकेयं कुसुमाञ्जलेविरचिता चेतश्चमत्कारिणी // आत्मानं श्रुतिवाक्यत: प्रकटयन् न्यायाच्च निर्णापयन् कञ्चित् प्रत्यवं(व)गृ(गू)हनं च निखिलैस्तनिराकारयन् / . यः पुष्णाति कुतूहलादिव सदा विद्वविनोदात्(न्) प्रभुः वन्द्यः सोऽस्तु महेश्वरो वरयिता दुःपक्ष-सत्पक्षयोः // एतदेवमीश्वरसाधकप्रमाणे बाधक[प्र]माणाभावं विस्तरतो व्युत्पाद्य संप्रति सत्वे(त्त्वे)पि तस्याप्रमाणत्वादित्यनेन तर्कापरिशुद्धि परोक्तां निराचिकीर्षुः चतुर्थी विप्रतिपत्तिमुत्थापयति - ननु सदपीति / [न] प्रमाणमिति न प्रमेत्यर्थः / [अनधिगतार्थ]गन्तुबौद्धस्येत्यर्थः / गन्तुबौ(|)ध[क]स्येत्यर्थः / परोक्तप्रमाणलक्षणं यथोक्तमाभिप्रायिकं चाप्ति(ति)व्याप्ता(प्त्य)व्याप्तिभ्यां लक्षणाभासमित्यस्मत्प्रमाणलक्षणमेवादरणीयमिति / तथा च पारमेश्वरज्ञानमपि प्रमेति न दोष इति / सिद्धान्तमुपक्रमते - अत्रोच्यते / अनधिगतार्थबोध: प्रमेति लक्षणं यथार्थत्वविशेषणसहितं तद्रहितं वा ? प्रथमे धारावहनबुद्धीनामुभयसिद्धप्रमाणभावानामधिगतार्थगो एतद्विवरणे स्पष्टीभविष्यति / परलक्षणमलक्षणमभिधाय स्वलक्षणमाह - यथार्थेति / न ह्यस्मल्लक्षणे परेणातिव्याप्त्यव्याप्ती प्रतिपादयितुं शक्यते इति रहस्यम् / अनुभय(व)ज्ञानत्वावान्तरजाति: म्मृ(स्मृतीतरज्ञानत्वं च व्यवस्थापकम् / पूर्वधीत्वव्यवस्थापकम् गन्धवस्त्व(वत्त्व)वत् / पृथिवीव्यवहारकारकगन्धवत्त्वमिव वा स्मृतीतरज्ञानत्वमनुभवव्यवहारकारकमिति / स्मृतित्वमपि जातिः, संस्कारासाधारणजनितज्ञानत्वं च व्यवस्थापकमिति सर्वं निरवद्यम् / अनुभवत्वैकनियतप्रमात्वमिति, स्मृतेरनुभवत्वविरहे न प्रमात्वमिति व्यवस्थिते, यथा स्मृतेः पूर्वानुभवैकविषयत्वं नियमेन, न तथाऽनुभूतेरपीत्यर्थः / यथा अननुभूते न स्मृतिः तथाऽनुभूते प्रमाऽपि न स्यात् / न चैवमस्ति / तस्मान्नियमेनानुभवापेक्षित्वात् स्मृतेर्न [स्वा] भाविकं यथार्थत्वमित्याशयवतोक्तम् - अनपेक्षतयेष्यत इति /
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210