________________ चतुर्थः स्तबकः 103. ननु सदपीश्वरज्ञानं न प्रमाणम्, तल्लक्षणायोगात्, अनधिगतार्थगन्तुस्तथाभावात्, अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् / न च नित्यस्य सर्वविषयस्य चानधिगतार्थता, व्याघातात् / अत्रोच्यते - अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक् / यथार्थानुभवो मानमनपेक्षतयेष्यते // 1 // 103. मिथ्याज्ञानतमिस्रमुद्रितदृशः संसारदुःख(खा)कुलान् लोकान् दर्शयितुं सुमार्गमभितो न्यायागमैय[ञ्]जितम् / श्रीवामध्वजनामधेयगु(मु)निना विद्यावतामचि(चि)ता टीकेयं कुसुमाञ्जलेविरचिता चेतश्चमत्कारिणी // आत्मानं श्रुतिवाक्यत: प्रकटयन् न्यायाच्च निर्णापयन् कञ्चित् प्रत्यवं(व)गृ(गू)हनं च निखिलैस्तनिराकारयन् / . यः पुष्णाति कुतूहलादिव सदा विद्वविनोदात्(न्) प्रभुः वन्द्यः सोऽस्तु महेश्वरो वरयिता दुःपक्ष-सत्पक्षयोः // एतदेवमीश्वरसाधकप्रमाणे बाधक[प्र]माणाभावं विस्तरतो व्युत्पाद्य संप्रति सत्वे(त्त्वे)पि तस्याप्रमाणत्वादित्यनेन तर्कापरिशुद्धि परोक्तां निराचिकीर्षुः चतुर्थी विप्रतिपत्तिमुत्थापयति - ननु सदपीति / [न] प्रमाणमिति न प्रमेत्यर्थः / [अनधिगतार्थ]गन्तुबौद्धस्येत्यर्थः / गन्तुबौ(|)ध[क]स्येत्यर्थः / परोक्तप्रमाणलक्षणं यथोक्तमाभिप्रायिकं चाप्ति(ति)व्याप्ता(प्त्य)व्याप्तिभ्यां लक्षणाभासमित्यस्मत्प्रमाणलक्षणमेवादरणीयमिति / तथा च पारमेश्वरज्ञानमपि प्रमेति न दोष इति / सिद्धान्तमुपक्रमते - अत्रोच्यते / अनधिगतार्थबोध: प्रमेति लक्षणं यथार्थत्वविशेषणसहितं तद्रहितं वा ? प्रथमे धारावहनबुद्धीनामुभयसिद्धप्रमाणभावानामधिगतार्थगो एतद्विवरणे स्पष्टीभविष्यति / परलक्षणमलक्षणमभिधाय स्वलक्षणमाह - यथार्थेति / न ह्यस्मल्लक्षणे परेणातिव्याप्त्यव्याप्ती प्रतिपादयितुं शक्यते इति रहस्यम् / अनुभय(व)ज्ञानत्वावान्तरजाति: म्मृ(स्मृतीतरज्ञानत्वं च व्यवस्थापकम् / पूर्वधीत्वव्यवस्थापकम् गन्धवस्त्व(वत्त्व)वत् / पृथिवीव्यवहारकारकगन्धवत्त्वमिव वा स्मृतीतरज्ञानत्वमनुभवव्यवहारकारकमिति / स्मृतित्वमपि जातिः, संस्कारासाधारणजनितज्ञानत्वं च व्यवस्थापकमिति सर्वं निरवद्यम् / अनुभवत्वैकनियतप्रमात्वमिति, स्मृतेरनुभवत्वविरहे न प्रमात्वमिति व्यवस्थिते, यथा स्मृतेः पूर्वानुभवैकविषयत्वं नियमेन, न तथाऽनुभूतेरपीत्यर्थः / यथा अननुभूते न स्मृतिः तथाऽनुभूते प्रमाऽपि न स्यात् / न चैवमस्ति / तस्मान्नियमेनानुभवापेक्षित्वात् स्मृतेर्न [स्वा] भाविकं यथार्थत्वमित्याशयवतोक्तम् - अनपेक्षतयेष्यत इति /