SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 127 * न्यायकुसुमाञ्जलि स्तबकः 4 104. न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात् / न चोत्पद्यमानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् / नापि पूर्वाविशिष्टतामात्रेणाप्रामाण्यम् / उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् / तदनपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् / छिन्ने कुठारादीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पादानुत्पादाभ्यां विशेषात् / तत्फलं प्रमैव न भवति, गृहितमात्रगोचरत्वात् स्मृतिवदिति चेत् / न / यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् / अनधिगतार्थत्वे सिद्धसाधनात् साध्यसमत्वाच्च / व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात्, बाधितत्वाच्च / न चानधिगतार्थत्वमेव तन्निमित्तम्, विपययेऽपि प्रमाव्यवहारप्रसङ्गात् / नापि यथार्थत्वविशिष्टमेतदेव धारावहनबुद्ध्यव्याप्तेः न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थत्वमुपपादनीयम् / क्षणोपाधीनामनाकलनात् / न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम्, स्वरूपेण तज्जननेऽनागतादिविशिष्टतानुभवविरोधात् / तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामज्ञाने तद्विशिष्टतानुत्पादात् / न चैतस्यां प्रमाणमस्ति / नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः ? व्यवच्छित्तिप्रत्यायनेन व्यवच्छित्तौ स्वभावेन / _104. श्लोकव्याचिख्यासुरनधिगतार्थगन्तृलक्षणप्रणेतुरभिप्रायं विकल्प्य निराकर्तुमुपन्यस्यति / श[]कते तत्फलमिति / समाधानम् - नेति / प्रमैव न भवतीति / अत्र [109B] यथार्थानुभवत्वस्य निषेधो विवक्षितः, अन]धिक(ग)[ता]र्थत्वस्य वा प्रमाव्यवहारमात्रस्य वेति / यथाक्रममुपन्यस्य निरस्यति / यथार्थानुभवेति / तन्निमित्तविरह(हा)[त्] प्रमानिमित्तविरहः / एतदेव निमित्तमित्याशक्य निराकरोति - न चेति / विपर्ययेऽपीति / भाता(भ्रमा)वपीत्यर्थः / अतिशय(अनधिगतार्थगन्त)लक्षणमाशक्य निराकरोति - न च / धारावहनबुद्धीनामप्यनधिगतविषयत्वमाशङ्क्य परिहरति - न चेति / 'घटोऽयम्' 'घटोऽयम्' इति बुद्धिसहस्रस्यापि न विषयभेदमुपलभामहे, कालश्च न प्रत्यक्षबुद्धौ प्रतिभासते / अप्रतिभासते च तस्यैकत्वात्, भेदाग्र[हा]च्चेति / सूक्ष्मकालोपाधय एव कालो वक्तव्यस्ते[षां] च न प्रतिभाहो(सो) वेति परिहारार्था(\) 'नुनु(ननु) मा भूवन् उपाधयः प्रतीतिविषयास्तज्जनितविशिष्टताप्रत्यक्षत्वादेवानधिगतविषयत्वम्' इत्याशक्य निराकरोति - न चाज्ञातेष्विति / उपाधयो हि ति(तां) विशिष्टतां स्त(स्व)धा(स)त्तयैव [ज]नयेयु(युः) स्वज्ञानसत्तया वा / आद्ये दूषणमाह - स्वरूपेणेति / अस्ति तावच्छुक्लगुणविशिष्टा पटानुभ[व]वेदना या 'अनागतश्वेतपटः' इति तथाविध[विशिष्टानुभवस्तेन विरोधः, [तस्माद्] असम्भव एवोक्तपक्षस्य / द्वितीयं दूषयति - तज्ज्ञानेनेति / ननु सतः सत्तामात्रेण असतः स्वज्ञानसत्तया विशेषणस्य विशिष्ट[110A]ताजनकत्वाभ्युपगमान्नोक्तप्रसङ्ग इत्यतोऽपरितुष्यन्निदमाह - न चैतस्यामिति / न तु विशिष्टोऽर्थ इति न च ज्ञानमिति विशिष्टतायां प्रमाणमित्युक्ष्ये(क्ते) अर्थज्ञाना(ने) शुक्लतायासि(मि)वेत्याशयवा[न] निष्टमाह / यथा शुक्लगुणसम्बन्धव्यतिरिक्ता जाति[रि]त्यत(तः) शुक्लता न चकास्ति तथा विशेषणसम्बन्धव्यतिरिक्तविशिष्टताऽपीत्याशयवानतिप्रसङ्गं निवारयति - व्यवच्छित्तीत्यादिना / 105. अन्यथा तवाप्यनवस्थानादिति / ज्ञाततैवोपाधिरिति चेत् / न, निराकरिष्यमाणत्वात् / तत्सद्भावेऽपि वा स्मृतेरपि तथैव प्रामाण्यप्रसङ्गात् / जनकागोचरत्वेऽप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितज्ञाततावभासनात् / अस्तु वा प्रत्यक्षे यथा तथा, गृहीतविस्मृतार्थश्रुतौ का वार्ता / अप्रमैवासाविति
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy