SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 128 * वामध्वजकृता सृङ्केतटीका चेत् / गतमिदानी वेदप्रामाण्यप्रत्याशया, न ह्यनादौ संसारे स्वर्गकामो यजेतेति वाक्यार्थः केनाचिनावगतः, सन्देहेऽपि प्रामाण्यसन्देहात् / न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति / न चैकजन्मावच्छेदपरिभाषयेदं लक्षणम्, तत्राप्यनुभूतविस्मृतवेदार्थं प्रति अप्रामाण्यप्रसङ्गात् / कथं तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव / यथार्थो ह्यनुभवः प्रमेति प्रामाणिकाः पश्यन्ति / 'तत्त्वज्ञानात्' इति सूत्रणात्, 'अव्यभिचारि ज्ञानम्' इति च / ननु स्मृतिः प्रमैव किं न स्यात्, यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेत् / न / सिद्धे व्यवहारे निमित्तानुसरणात्, न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम्, अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात् / न च स्मृतिहेतौ प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति, पृथगनुपदेशात् / उक्तेष्वन्तर्भावादनुपदेश इति चेत् / न / प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः, लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति / 105. अन्यथेति / व्यवच्छित्तिप्रत्ययजननेन स्वभावसामर्थ्यमभ्युपगन्तव्यम्, तवापीति विशिष्टतालक्षणोपकाराधानेऽप्युपकारान्तरापा[तं] स्यादिति / जनणां(नानां) संयोगसमवायबलेनैव द्रव्यगुणकर्मोपरक्तप्रत्ययो भवन् 'अघटं भूतलम्' इत्यत्राभावो[प]रक्तः कथमसत्यां विशिष्टतायां स्यात् / न ह्यत्र भावाभावयोः सङ्गमनिराकरणे सिद्धे न(ना)तिप्रसङ्गभयादपि विशिष्टताऽभ्युपगन्तुं शक्येत्याशयः / तत्र द्रव्यगुणकर्मणैवैतदपीति चेत्, न, समवायविलोपप्रसङ्गात् / अधिकस्तत्र प्रवाहो हीयते, न तु प्रतीयते, न तु प्रतीयमान इति चेत्, तुल्यमितरत्रापि / बाधोऽत्रास्तीति चेत् तदनभिधानासङ्गतः, समवायो वा पराभ्युपगतपदार्थ(र्थः) संभवति विशिष्टताविशिष्टप्र[त्] य[य]वत् / विशिष्टप्रत्ययवता स्वभावरूपेणैवैतदपीति चेत् समवायविलोपप्रसङ्गात् / बाधोऽस्तीति चेत् तदनभिधानादनुपलम्भमात्रस्य चोभयत्रासुवगुयवचत्वात् / वाचकसम्भेदमात्रमिदमिति चेत्, न, इ(त)द्भेदमित्यादावपि तत्प्रसङ्गादिति / अत्रोच्यते / [110B] विशिष्टता 'स्मि(स्मृ)त्य(त्यु)परक्तप्रत्ययान्यथानुपपत्त्या वावसीयते विशिष्टप्रत्ययान्यथानुपपत्त्या वा? नाद्यो, अतदाधारव्यावृत्त्या विशेष्यस्य विशेषणबुद्ध्यादिमनारोपवर्तितामात्रस्यो(स्या) परा(र)मार्थत्वात् / न द्वितीयः, विशिष्टतयैव व्यभिचारात् / तथापीहप्रत्ययहेतुतया रूपादाविवाभावेऽपि समवायः सिद्ध्येत्, असिद्धौ न क्वचिदिति समवायविलोप इति तु विशिष्टतामांसिद्ध्यनतु (विशिष्टता मा सिद्धयतु) गुणमप्रस्तुतमित्युपेक्षणीयं समवायप्रतीतिपरिपन्थि तावद् भवतीति चेत् ततः किं तस्या(स्य) अप्रस्तुतत्वात् / यदापि तत्प्रस्तावस्तदापि भूतला(ल) भावापेक्षया / 'इह भूतले' इति प्रत्ययः किं निषिध्यमानसंयोगप्रतिसम्बन्धिघटाद्यपेक्षयेति / यत्किञ्चिदेतत् / ननु तथापीति पृच्छाम: समवायवृत्त्यैव रूपादिवदभावोऽपि किं न भूतलविशेषणमिति चेत् / न, प्रमाणाभावात् / इह-प्रत्ययस्य त्वन्यापेक्षत्वस्योक्तत्वात् / समवेतकार्यस्य तन्नाशे ना(ना)शप्रसङ्गात् / प्रध्वंसविनाशकलनायां च कल्पनागौरवप्रसङ्गात् / इत्याशयवानुपाध्यन्तरमास(श)[का(क्य) निराकरोति - ज्ञाततेति / स्मृतिव्यवच्छेदार्थमनधिगतग्रहणमिच्छन्ति मीमांसकाः / ज्ञाततापक्षे च न स्मृतेरपि व्यवच्छेदः स्यादित्याह - तत्सद्भावेऽपीति। एतावता प्रबन्धेन प्रत्यक्षधारावाहिकबुद्धिवत् तदुपाधिविशिष्टग्रहो नास्तीति समर्थितं संप्रति तत्संदेहेऽप्यन्यत्र वेदे उभयसिद्धप्रामाण्ये अधिगतमर्थमधिगमयति प्रामाण्यस(सं)भव इति न्यायामे(त्याज्यमे)वानधिगतग्रहणमन्यथा वेदाप्रामाण्यस्वीकार इति त[द्] दु[रु] त्तरं व्यसनमित्याह - अस्तु वेति / कालत्रयापरामृष्टभावतया विधिवाक्यादितज्ज्ञानेन तत्कालविशिष्टताभ्युपगमं 1-2. भ्रष्टः पाठः /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy