________________ 129 . न्यायकुसुमाञ्जलि स्तबकः 4 परेषामपीत्याशयवानाह - न [111A] चेति / ननु यद्यधिगतार्थग्रहणं तर्हि स्मृतेरपि व्यवच्छेदः प्रकारान्तरेणैवेत्याशयवान् परिहरति - अननुभवत्वेनैवेति / प्रतीतिसिद्धं गोत्वाश्वत्वादिजातिभेदवत् 'इममर्थमनुभवामि', 'इमं स्मरामि' इत्यनुभूतिस्मृतित्वादीनामपि प्रतीतिभेदसाक्षिकत्वादिति ! न च स्मृत्य[नु] भूत्योरपि कस्यचिद् भ्रान्तस्येमं स्मरामीत्यत्रेममनुभावामीत्यत्र चेत्स[मं] स्मरामीत्यध्यवसाय इत्येषा दिगिति / न चैतदुत्सूत्रमिवोक्तमिति शङ्कां सूत्रकारसंमतिप्रदर्शनेनापाकरोति तत्त्वेत्यादिना / यद्यपि स्मृतेः प्रमात्वं सर्वशास्त्रनिषिद्धं तथापि [यथार्थत्वं] न नि(नि)षिद्धम्, नृ(न) तु युक्ते(क्तमि)ति शङ्कां निराचिकीर्षुः युक्तिमुपदर्शयिष्यन् प्रथम(मं) तावत् सर्वपक्षयुक्तिमाह - नन्विति / ___106. एवं व्यवस्थिते तय॑तेऽपि - यदियमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्यवस्थाप्य न यथार्थतया व्यवहर्तुं शक्यते इति / व्यवहारेऽपि पूर्वानुभव एव प्रमितिरनपेक्षत्वात् / न तु स्मृतिः, नित्यं तदपेक्षणात् / असमीचीने ह्यनुभवे स्मृतिरपि तथैव / नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात् / न, विषयभेदात् / आगमस्तर्हि न प्रमाणम्, तद्विषयमानान्तरानुविधानात् / न / प्रमातृभेदात् / धारावाहिकबुद्धयस्तर्हि न प्रमाणम्, आद्यप्रमाणानुविधानात् / / 106. तयंत इति विचार्यत इत्यर्थः / यदियमिति यस्मादित्यर्थः / एतदुक्तं भवति स्वविषयप्रवर्तकत्वप्रापकत्वाभ्यां हि प्रमाणानां प्रामाण्यं मृग्यते तेन व्यसनितया / अथ समीहितसाधनविषयमनुस्मृत्यापि नत्रा(न ता)वन्निःश[कं] प्रवर्तते प्रो(प्रे)क्षावाना(न्) यावन्न पूर्वप्रवृत्तानुभवप्रामाण्यं व्यवस्थापयति / तद्व्यवस्थापने च तस्यैव क्ष(क्षि)प्रसामर्थ्यस्यैव निरपेक्षत्वात् स्मृतिरूपव्यापारेण प्रवर्तकत्वमिति युज्यते, न तु स्मृते(तेः) [111B] सापेक्षत्वात् कल्पनीयशक्तित्वाच्च / यथाह म(स) जयाथी(र्थी) त्रिलोचनगुरुः / तथाहि स्मृतिज्ञानेन पूर्वानुभूतमर्थ(थ) व्यवस्थापयता अनुभावो(भव उ)पस्थापितः, अनुभवस्य च स्वविषयापेक्षं प्रामाण्यमप्यु[प]स्थापित(तं), तावता तस्यैव स्मृत्यारूढस्य प्रवृत्त्य[]गत्वान्न स्मृतेः स्मर्तव्यार्थिनः प्रवृत्तिरिति / तस्मादप्रमाणमिति / सापेक्षत्वमेव स्मृति(ते)दर्शयितुमाह - असमीचीन इति / पूर्वानुभवापेक्षित्वेनानुमितेरप्यप्रमात्वमिति शङ्कते - नन्विति / पूर्वप्रत्यक्षस्य लिङ्गविषयत्वात्, अनुमितेश्च लिङ्गिविषयत्वात् स्मृत्यनुभवयोश्चैकविषयत्वाभावाद् वैषम्यमिति परिहरति - नेति / श्रोतुरागमजनितवाक्यार्थप्रमा वाक्यप्रणेतुर्वाक्यार्थ[ज्ञान]प्र(प्रा)म(मा)[ण्यापे]क्षितत्वान्न प्रमा स्यादित्याशयवान् शङ्कते - आगम इति / तज्जनिता प्रतिपत्तिर्न प्रमेत्यर्थः / प्रनकत्वप्रापकत्वाभ्यां हि प्रामाण्यमित्युक्तम्, तच्च प्रकृते स्मृतेरिव स्वानुभवशब्दात् तत्फलभूतं वक्तुः प्रामाण्यमनुमाय श्रोत्रा प्रवर्तयितव्यमिति संभवति / वैयधिकरण्याद् वक्तुः प्र[व]य(च)नं त्वप्रमाणमेवेति / अतएव परप्रत्यायनाय शब्दमुच्चारयन्ती(ती)त्येतावन्मानं निरुक्तिकुठ(श)[ल]तामुद्गिरयतीत्याशयवान् परिहरति - नेति / यद्येकविषये प्रमामात्रभेदे च यो(या) बुद्धयो [112A] न ताः पूर्वबुद्ध्यपेक्षितत्वात् प्रमारूपा इत्याशङ्कते - धारेति / अत्रापि न प्रमाणमिति न प्रमेत्यर्थः / / 107. न / कारणविशुद्धिमात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणभावात्, कारणबलायातं काकतालीयं पौर्वापर्यमिति / यदि हि स्मृतिर्न प्रमितिः पूर्वानुभवे किं प्रमाणम् / स्मृत्यन्यथानुपपत्तिरिति चेत् / न / तया कारणमात्रसिद्धेः, न तु तेनानुभवेनैव भवितव्यमिति नियामकमस्ति / अननुभूतेऽपि