________________ 130 * वामध्वजकृता सृङ्केत्तटीका तर्हि स्मरणं स्यादिति चेत्, किं न स्यात् / न ह्यत्र प्रमाणमस्ति / पूर्वानुभवाकारोल्लेखः स्मृतेर्दृश्यते, सोऽन्यथा न स्यादिति चेत् / तत् किं बौद्धवद् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते, तथाभूतं ज्ञानमेव वा तत्सिद्धिः ? आये तद्वदेवानैकान्तिकत्वम् / न हि यदाकारं ज्ञानं तत्पूर्वकत्वं तस्येति नियमः, अनागतज्ञाने विभ्रमे च व्यभिचारात् / द्वितीये तु स्मृतिप्रामाण्यमवर्जनीयम् / मा भूत् पूर्वानुभवसिद्धिः, किं नश्छिन्नमिति चेत् / न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति / न / तदप्रामाण्येऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः / योऽहमन्वभवममुमर्थं सोऽहं स्मरामीति मानसप्रत्यक्षमस्तीति / न च गृहीतग्राहित्वमीश्वरज्ञानस्य, तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य / न च तदेव ज्ञानं कालभेदेनाप्रमाणम्, अनपेक्षत्वस्यापरावृत्तेः / तथापि वा अप्रामाण्येऽतिप्रसङ्गादिति / स्यादेतत् / अनुपकारकं विषयस्य, तदीयमेतदीयं वा न भवितुमर्हत्यविशेषात् / न च तस्येत्यनियतं तत्र प्रमाणमतिप्रसङ्गात् / न च तदभिज्ञमन्तरेण तदुपकारस्योत्पत्तिः, तथानभ्युपगमात् / अभ्युपगमे वा कार्यत्वस्यानैकान्तिकत्वात् / अत्रोच्यते - स्वभावनियमाभावादुपकारोऽपि दुर्घटः / सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा // 2 // 107. धारावहनबुद्धीनामप्युभयसिद्धप्रमाभावानां दोषानुप[सं]हरते(ति) / नेन्द्रियार्थसन्निकर्षजन्मत्वेन पूर्वबुद्धाव(य)पेक्षित्वमित्याशयवान् समाधत्ते - नेति / नन्वनुभवस्य पूर्वकालत्वं कुत अनुभूयते - मान[स] प्रत्यक्षत्वात् स्मृतेर्वा ? न तावदाद्यः, अनुभवसत्तादशायाम् अनुभवस्य तदानीं वर्तमानतयाऽपूर्वत्वाभासात् कथं तेन रूपेणावभासनम् असत्तादशायां तु न प्रत्यक्षज्ञानगोचरत्वम् / अथ स्मृतावेवाभासते, कथं तर्हि स्मृतेरप्रामाण्यम् ? अनुभवपूर्वताग्राहकत्वात् / अतः स्मृत्यनुभवयोः कार्यकारणभावः / एवं स्मृते(तेः) प्रमात्वमन्तरेणाशक्यप्रतिपत्तिरित्याशयवान् परं शङ्कते - न तह-त्यादि / न त त्यनेन न स्मृतिः स्मृत्यनुभवयोः कार्यकारणभावयोः ग्राहिणी / किं तर्हि ? प्रत्यभिःक्षे(भिज्ञे)ति समाधत्ते - न, तदप्रामाण्ये इति / तदुपपत्तेः स्मृत्यनुभवयोः कार्यकारणभावोपपत्तेरित्यर्थः / योऽहमन्वभवममुमर्थं सोऽहं स्मरामीति प्रत्यभिज्ञाने घटानुभवस्य स्मरणं प्रत्यन्वयनियमः प्रतीयते / अतो अन्वयनियमेनैव स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरित्यर्थः / न चेति अतिप्रसङ्गादिति / सर्वज्ञानानां द्वितीयादिक्षणे गृहीतग्रहणरूपतयाऽप्रामाण्यप्रसङ्गादित्यर्थः / न च ज्ञानानां द्वितीयादिक्षणेऽनवस्थानमिति वाच्यम् अग्रे निराकरिष्यमाणत्वात् / ननूक्तक्रमेण मा भूदि(दी)श्वरज्ञानस्याप्रामाण्यमितरत्व(था) वक्ष्यमाणप्रकारादप्रामाण्यमस्य केन वारणीयमित्याशङ्कते - स्यादेतदिति / यद्य[112B]पि परमेश्वरज्ञानं सर्वविषयं तथापि सर्वत्रानियतं न सर्वोपकाराधाना(न)मन्तरेण भवितुमर्हति / सर्वोपकाराधानेऽपि सर्वोऽयमित्युच्यमाने अस्मदादिज्ञाना[ना]मपि सर्वविषयत्वप्रसङ्गात् / स्यात् परमेश्वरज्ञानस्य सर्वत्रोपकाराधार(य)कत्वमस्मदादिज्ञानानां तु क्वचिदेवोपकाराधायकत्वमित्यकामेनापि स्वीकर्तव्यमित्यभिसन्धिता / एतदेव स्पष्टयति - न च तस्येति / तस्येदमित्येवमाकारनियमरहितं यदित्यर्थः / अस्तु तर्हि ज्ञानं विषयोपकारकमेव मीमांसकानामिवो(वे)त्यत आह - न चेति / सम्भवेदेवमनीश्वरवादे, न तु सेश्वर[वादे] इति / सम्भवः तथाहीश्वरवादे कार्यमात्रस्योपादानोपकरणाद्यभिज्ञपुरुषपूर्वकत्वेन व्याप्तेरुपकारकारणमीश्वरज्ञानमपि ज्ञातव्यं ज्ञानान्तरेण, न चैवमभ्युपगमादनवस्थाप्रसङ्गाच्च / अतस्तदभिज्ञमन्तरेण ईश्वरज्ञानाभिज्ञमन्तरेण तज्जन्यविषयोपकारस्य नोत्पत्तिरिति विषया(य)व्यवस्थायां नेश्वरज्ञानं प्रमेति पूर्वपक्षः / अत्रेश्वरानीश्वरज्ञानस्य साधारणोपक्रमेण समाधानमारभतेः -