________________ 131 * न्यायकुसुमाञ्जलि स्तबकः 4 स्वभावेति / येनापि मीमांसक(के)न विषयोपकारकमित्यनैकान्तिकत्वम् / ___108. विशेषाभावात् तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः / स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः / अवश्यं चैतदनुमन्तव्यम्, अतीतादिविषयत्वानुरोधात् / न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् / असत्त्वात् / न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम् / तेन तस्यैव विषयत्वप्राप्तेः / तादात्म्याद् विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते, तादात्म्यात् / घटाकारेण ज्ञायते एवासौ रस इति चेत् / अथ रसाकारेण किं न ज्ञायते / तेन रूपेण ज्ञाततानाधारत्वादिति चेत् / न तर्हि वर्तमानसामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्, तेनााकारेण प्राकट्यानाधारत्वादिति / ननु क्रियया कर्मणि किञ्चित् कर्तव्यमिति व्याप्तेरस्त्वनुमानम् / न / अनैकान्त्यादसिद्धेर्वा न च लिङ्गमिह क्रिया / तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके // 3 // धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्, न हि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः / व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्, न हि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव / फलाभिप्रायेणापि तथा / अन्ततस्तेनैवानेकान्तात् अनवस्थानाच्च / आशुविनाशिधर्माभिप्रायेण द्वित्वादिभिरनियमात् / _108. उत्तरार्धं व्याख्यातुमाशङ्कते - अनुभवेति ज्ञानमिष्यते / तेनापि किं विषयसम्बद्धन ज्ञानेनोपकाराधानमसम्बद्धेन वेति / पूर्वस्मिन् विषयोपकारात् प्राग् यदि ज्ञानं विषयसम्बद्धं किमुपकारेण, असम्बद्धन चेत् कथं तर्हि क्वचिदेवोपकाराधानं न सर्वत्रेति नियामकमनुस्मरता स्वभाव एवोपगन्तव्यो गत्यन्तराभावादिति तात्पर्यम् / इममेवा) विवरणव्याजेन दर्शयति - विशेषाभावादित्यादि / सुबोधम् / न तु ज्ञान[113A]क्रिया कर्मणि किञ्चित्कारिका क्रियात्वात् उद्यमन-निपातनक्रियावदित्यनुमानमस्तीति प्रमाणसिद्धमिदमित्याशयवान् शङ्कते। - नन्विति / इदमप्यनुमानं ज्ञाततायां परेषां न सम्भवतीत्याह - अनैकान्त्यादित्यादि / नन्वनुभवसिद्धां(द्ध) विषयविशेषणत्वमेव किञ्चिदस्ति, अन्यथा स युक्त इति, ततः ज्ञाने सत्ययं प्रयोगो न स्यादिति हृदि निधायाह - तद्वैशिष्ट्येति / अस्ति(धि)के ज्ञातताविशिष्टत्वानुभा(भ)वेनाध्यक्षानुभवः कुतः / तद्वैशिष्ट्यत्वा[त्] ज्ञात इत्यनुभवस्य क्रिया किं धात्वर्थमात्रं वा स्यादथ करणादिव्यापारो वा फलं वेति ? यथाऽनुक्रमं दूषयति - धात्वर्थेत्यादिना / न हीति / गगनं शरेण सं[यो]ज्यत इति कर्मत्व(त्वं) यस्येत्यन(त्र) गगनस्य / न च गगने संयोगेन किञ्चित् क्रियत इत्यर्थः / अन्त्यशब्देति अन्त्यशब्दज्ञानानन्तरम[न्]त्य[शब्द]स्य नाशात् तव(त्र) ज्ञानेन [न] किञ्चित् क्रियते इत्यर्थः / एतच्च स्वसिद्धान्तावधृतेनोक्तम् / सुबोधमितरत् / फलाभिप्रायेणेति / गमनक्रिया हि ग्रामप्राप्तिफलं(ला) / न च ग्रामप्राप्त्या ग्रामे कर्मणि किञ्चित् क्रियत इति फल(लं) कर्मणि किञ्चित्करमिति व्यभिचार इत्यर्थः / अन्तत इति / तथाहि - यत् फलं तत् प्रमेये किञ्चिदतिशयाधायक[म्], फलत्वात्, प्रयत्नवदात्मशरीरसंयोगवत् भेरीदण्डसंयोगवत् च विभागवत् चेति / अत्र फलोत्पादितस्यापि फलत्वात् फलान्तरजनकत्वमिष्यते न वा / न चेदनैकान्तता, [इष्यते] चेदनवस्थेति त्याजनीयम् / न त्वाशु 1. मुद्रितमूले प्रतीकमिदं नास्ति /