________________ 132 * वामध्वजकृता सृङ्केतटीका [113B] विनाशिक्रियासाधर्म्यात् आशुविनाशिधर्ममात्रं क्रियेति विवक्षितमित्याशक्य निराकरोति - आशुविनाशीति / अनियमाद् व्यभिचारादित्यर्थः / ___109. आशुकारकाभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् / कर्तर्याशुकारकत्वस्य कर्मोपकारत्वेनाव्याप्तेः / शब्दादिव्यापारैरेवानेकान्तात् / स्यादेतत्, अनुभवसिद्धमेव प्राकट्यम् / तथाहि - ज्ञतोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् / तदसत् / यथा हि - अर्थे नैव विशेषो हि निराकारतया धियाम् / तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् // 4 // किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति / कथमसम्बद्धयोधर्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा / एतदपि कथमिति चेत्, नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि / तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् / प्रकृतेऽप्येवमेव / एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् / विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः / स्वाभाविकफलनिरूपकत्वं च तुल्यम् / ____109. नन्वस्तु तर्हि क्रियासाधादाशुकारकमानं क्रियेत्याशक्य निराचष्टे - आशुकारकेति / तथाहि - कर्मण्याशकारकत्वं वा हेतः, कर्तर्याशकारकत्वं वा [आशकारकत्वमात्रं] वा / न प्रथमम, साध्याव(वि)शिष्टत्वात / न द्वितीयततीयावनेकान्तादिति / दर्शयति कर्मणीति / शब्द(ब्दादिव्यापारैरिति पदार्थस्मरणादिभिरित्यर्थः / पदानां पदार्थस्मृतिरवान्तरव्यापारभूता वाक्यार्थप्रतिपत्ति(त्ति) कर्तर्याशुकरोति / न च कर्मणि वाक्यार्थ(\) किञ्चित् करोति / उभयसिद्ध(द्धं) मत[म्] / निराकारमपि ज्ञानं विषयेणैव नीलपीतादिना नीलज्ञानम् [पीतज्ञानम्] इति प्रत्ययव्यपदेशकारकमेव(वं) 'ज्ञातो घटः' इति ज्ञानक्रिययैव 'ज्ञातः' इति प्रत्ययव्यपदेशकारकमिति / एवमनभ्युपगमे 'कृतो घटः' इत्यादावपि कृतिजनितधर्माधारा(र)त्वप्रसङ्गः, न चैतत् त्वयेष्यत इति समुदायार्थः / एतेन व्यवहारान्यथानुपपत्त्याऽस्ति कश्चिदतिशये(यो) वि[षये] [सं]ज्ञाकाल इति / तस्यैव ताव[त्] संज्ञाकालादवगम्यते इति न्यायेन ज्ञाततेत्यादिभिः पदैनिरूव्य(प्य)त इति निरस्तिः / व्यवहारस्यान्यथानुपपन्नत्वात् / न च वाच्यं ज्ञातस्य ज्ञातृसम्बन्धित्वात् तस्य व्यवह(ह)र्तृत्व[म]नुपपद्यताम्, विषयस्तु पूर्व(व) विशेषात् कथं व्यवहर्तव्य इति / तस्यैकस्यात्मसमवायादात्मधर्मत्ववद् विषयनिरूपणीयत्वेन [114A], न स्वभावतो विषयधर्मत्वव्युत्पादनादिति / असम्बद्धयो(योः) धर्मर्मिभावेस्तु(वस्तु) कथमित्यवं(व)शिष्यते / तदाशङ्कते - कथमिति / परसमवेतक्रियाजनितफलशालित्वेन घटः कर्मभावतामियात् न त्वा(त्व)न्यथापीति / कर्मत्वान्यथानुपपत्त्यापि ज्ञातताकल्पनमनोरथमप्युत्क(त्था)प्य निराकरोति - एतेनेति / विनाश्यवदिति / न हि परसमवेतक्रियाफलभागित्वं कर्मत्वम्, आत्मानं जानामीत्याद्यव्यापनात्, कर्तृव्यापारविषयः करणमिति / तत(तः) करणव्यापारविषयः कर्मेति कर्मलक्षणं वक्तव्यम् / तथा च न किञ्चिदनुपपन्नम्। स्वाभाविकेति / पटस्य यदि विनाशरूपफलनिरूपकत्वमेव फलाश्रयत्वं तद(दा) ज्ञाने(ज्ञान)निरूपकत्वा