SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 133 * न्यायकुसुमाञ्जलि स्तबकः 4 (त्व)मेव ज्ञानाश(श्र)यत्वमिति तुल्यम् / एवं ताव[द्] ज्ञाततावादी तद्भावावेदकप्रमाणसम्भवेन निराकृतः / 110. ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतं च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् / तदप्यसत् / परस्पराश्रयप्रसङ्गात् / ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् / कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमानत्वादिति चेत् / न / अनुमानोपन्यासे साध्याविशिष्टत्वात्, अनुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत्, तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति / तथाविधज्ञाततानाश्रयत्वादिति चेत्, न / आश्रयासिद्धेः / व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेत्, न / ज्ञानहेतुनैव तदुपपत्तेः / तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावान्नैवमिति चेत्, न / तावन्मात्रस्य व्यवहाराहेतुत्वात् / अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् / स्मरणान्यथानुपपत्त्येति चेत्, न / तस्याप्यसिद्धेः / / 110. पुनरपि प्रमाणान्तराभिमानेन प्रत्यवतिष्ठते - नन्विति / ज्ञानेऽज्ञाते ज्ञातताव्यवहारो न भवति, घटेऽज्ञाते घटव्यवहारवत्, ज्ञानज्ञानं तु मानसमतोऽन्यथोपपत्तिरत्रापीत्याशयवान् यथोक्तमेव तावद् दूषयति - परस्परेति / ननु च ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताप्रत्यक्षत्वपरिकल्पनमस्तु, तथा च [त]त्प्रत्यक्षेण तावत् प्रथमं ज्ञातता [प्रतीयते], तथा च प्रतीयमानया तया ज्ञानव्यवहारो जन्यते, स च ज्ञानव्यवहारोऽन्यथानुपपद्यमानो ज्ञा[त]तायाः प्रत्यभिज्ञानविषयतां परिकल्पयतीति / यदि हि नि:संदिग्धं प्रत्यक्षादर्थापत्तिर्गरीयसी, यदा तु प्रत्यक्षत्वमेव परस्परविवादाक्रान्ततया संदिग्धं तदा तद्विषयभूताऽपि संदिग्धैव / तथा च कुतः तथाज्ञान(नं) कथं च ज्ञातताव्यवहार इति / [114B]परस्पराश्रयो भवति / स्वसिद्धान्तावष्टम्भमात्रस्मृत्याऽऽह - कुतश्चेति / कथमै(मि)न्द्रियजन्योपलम्भस्याभावं गमयेत् ज्ञानाप्रत्यक्षवादीनामुपलम्भस्यातीन्द्रियत्वादित्यर्थः / तद्विशेषणे [इ]ति। योग्यताविशेषणे त्वित्यर्थः / कथमितीति / इन्द्रियग्रहणयोग्या(ग्य)त्व अभ्युपगम्यमाने ज्ञानस्य घटादिवत् प्रत्यक्षत्वेऽतीन्द्रियत्वमनुपपन्नमित्यर्थः / ज्ञानमतीन्द्रियं, 'साक्षात्कृतोऽयम्' इति प्रत्ययविषयज्ञाततानाश्रयत्वात्, परमाणुवत्, इत्याशयवान् शङ्कते - तथाविधेति / ज्ञानमतीन्द्रियमिति साध्यं प्रत्यक्षवत्वावो(क्षत्वाभावादु)क्तमित्याशयः / इदमप्यनुमानं दूषयति - नेति / ज्ञानस्याप्रत्यक्षत्वे मानान्तर(रा)संभवेऽसिद्धम् आश्रयासिद्धं ज्ञानमित्यर्थः / आश्रयसिद्ध्यर्थमर्थापत्तिमाशङ्क्यान्यथोपपत्त्या निषेधति - व्यवहारेति चेत् तर्हि तदुपपत्तेरिति / व्यवहारोपपत्तेरित्यर्थः / ज्ञानहेतुसद्भावेऽप्यर्थवहाराभावात् / न ज्ञानहेतुताऽन्यथोपपत्तिरित्याशक्य निराकरोति - तस्येति / एवमनङ्गीकुर्वाणं प्रति बाधकमाह - अन्यथेति / आत्म[म]न:संयोगस्य ज्ञानहेतुत्वात् सुषुप्तौ ज्ञानमेव किं नोत्पद्यत इति समानोऽनुयोगः / तावन्मात्रस्याहेतुत्वादिति चेत् तर्हि यावती सामग्री ज्ञानमुपजनयति तावत्येव व्यवहारमुपपादयिष्यति / कृतमन्तर्गडुना ज्ञानेनेति ज्ञानाप्रत्यक्षवादीनां ज्ञानमेव न सिद्धयेदिति भावः / मा भूदुक्तप्रमाणा(ण)वेद्यं ज्ञानम्, प्रमाणान्तरवेद्यं भविष्यतीत्याशङ्कते - स्मर[115A]णेति / स्मरणस्यापी(पि) ज्ञानत्वेनातीन्द्रियत्वादप्रतीतेरिति परिहरति - न. तस्येति / 111. अस्ति तावद् व्यवहारनिमित्तं किञ्चिदिति चेत् / किमतः ? न ह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः / तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत् / अस्त्विच्छा प्रत्यक्षसिद्धा, न तु ज्ञानमिति / सैव कथं नियताधिकरणे उत्पद्यतामिति चेत्, न।
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy