________________ 125 * न्यायकुसुमाञ्जलि स्तबकः 3 प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्मापि नासाद्यते / तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवं देवानामपि देवमुद्भवदतिश्रद्धाः प्रपद्यामहे // 23 // // इति तृतीयः स्तबकः // 102. अभावस्यावच्छेदग्रहध्रौव्ये प्रतियोगिनिरूप्यत्व[मिति] [108A] मन्तव्यो वायं नियमः / तदेतत् सर्वहार्थ (स ह्यर्थ) इत्यादिनोपाधिस्वरूपं दर्शयित्वाऽधुना व्यतिरेकं दर्शयन्नाह - यस्त्विति / अतो विशिष्टप्रत्ययमात्रस्योपाधिसम्बन्धशालित्वादवच्छेदग्रहनियमावच्छेदग्रहानियमे स त्बि(तु) वि[शि]ष्टप्रत्ययादिति हेतुर्वक्तव्यः, तत्र च सिद्धसाधवह्निमाह(साधनत्वमाह) - [अध्रौव्य इति / न चाभावो निर्विकल्पवेद्यो न केनापीष्ट इति वाच्यम् / भूषणकारप्रभृतिरभावस्यापि निर्विकल्पकवेद्यत्वस्वीकारात् प्रबन्धेन व्युत्पादनाच्च / तदभिप्रायेणैव अध्रौव्य इत्युक्तम् / एतदत्वं(दन)गीकारे वा[5] प्रयोजकत्वमेवेति प्रतिसंधेयमिति तदग्रहेण ॥छ।। यत्त सम्बन्धान्तरपूर्वकत्वात् तस्येत्युक्तं तत्रानवस्थाप्रसङ्गं प्रतिज्ञातं विवृणोति - स्वभावप्राप्ताविति / अथ भूतलमिति विशिष्टप्रतिपत्तिदर्शनात् समवायिव्यतिरिक्तं भावस्य विशेषणत्वं सम्बन्धान्तरपूर्वकमेष्त(मेषित)व्यम्, गत्यन्तराभावादिति रहस्यम् / तदाऽन्येऽपि पराभ्युपेतप्रमाणतयाऽभावोऽपि दुर्णयो दुरुपपादनीय इति पूर्वोक्तसमस्तमनभ्युपगम अनिष्टमाहुः - न चेदेवमिति / अवश्याभ्युपगन्तव्यत्वे तु कारणत्वमस्तु / अन्यच्च भावोपलब्धावप्यभावानुपल[म्भः] [अभावोपलब्धौ] भावानुपलम्भवदित्यन्यथाऽयमेवेकं प्रमाणमनिष्टमापद्यतेत्याह - तस्येति / परिच्छेदसाध्यमर्थमुपसंहरन् परामर्शसरणं(णि) प्रतिपादयति - प्रत्यक्षेति / एवमुक्तक्रमेण भगवतो मुखवीक्षणैकविभु(धु)रैः प्रत्यक्षादिभिरात्मापि नासाद्यते तैरवि(तैर्वि)रोधः(धो)दयोऽधरोऽधः / [108B] अतो दूरे / असमोऽसौ स्वच्छन्दाद् चेतनान्तरप्रयोजकत्वात् लीलेच्छा सैवोत्सवो यस्य दुःखाभावैकनिबन्धनत्वादित्यर्थः ॥छ।। इति श्रीवामेश्वरध्वजविरचिते कुसुमाञ्जलिनिबन्धने तृतीयः परिच्छेदः //