________________ 124 * वामध्वजकृता सृङ्केतटीका च्चानुपलब्धेः, न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत् / उच्यते - अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् / प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः // 22 // ___101. ननु सुरभि चन्दनमिति प्रत्ययो न तावत् घ्राणजन्मा, तस्य गन्ध एव सामर्थ्यात्; नापि समुच्चितघ्राणत्वगिन्द्रियजन्मा, समुच्चितयोरिन्द्रिययोरणुना मनसाऽधिष्ठातुम[श]क्यत्वात्; नापि पारिशेष्यजन्मा 'तिक्ता शर्करा' इत्यादिभ्रमानुपपत्तिप्रसङ्गात्, तत्र पारिशेष्याभासस्याप्यभावात्, तिक्तत्वस्य शर्करासमवायि(य)त्वे मधुरशर्करास्मरणस्यैव बाधकस्पर्शत्वात्(बाधकस्य सत्त्वात्), अनपेक्षितबाधकोपपत्तौ शिष्यमाणसंप्रत्ययः परिशेषः / नापि परस्परसाकाङ्क्षपदार्थजन्मा अपदार्थप्रमाणस्वीकारप्रसङ्गात् / तत् कथं सुरभिचन्दनमित्यादिकः प्रत्य[107B] योऽत आह - प्रमाणजनिक(त)सौरभज्ञानसहकृतस्य त्वगिन्द्रियस्यैव सुरभित्वविशिष्टचन्दनज्ञानजनक[त्व] सामर्थ्यमित्यर्थः / प्रकृतमुपसंहरति - तथा चेति / ननु विशिष्टप्रत्ययस्यैन्द्रियकत्वेऽपि विशेषणतया ग्रहणायार्भा(भा)वप्रमाणाभ्युपगमः / सौरभग्रहणाय घ्राणाभ्युपगमा(मो) तवेत्याह - न चेति स्यादेतदिति / साक्षात्कारिसविकल्पपूर्वकत्वेन व्याप्तो दृष्टो भावे, अभावे च निर्विकल्पपूर्वकत्वेन व्याप्तो दृष्टः / तथा च निर्विकल्पकत्वपूर्वकत्वनिवृत्तौ निवर्तत इत्याशयवानाह - अपि चेति / बाधकान्तरमाह - अप्राप्तेश्चेति / सम्बन्धविशेषणत्वे(त्व)मिति चेदत्राह - न चेति / अनन्यगतिकतयाऽनुपलब्धिरभावप्रतिपत्तये स्वीकर्तव्येत्याह - अवश्याभ्युपगन्तव्य[त्वा ]च्चेति / शुक्तिकायामिन्द्रियसन्निकर्षे सत्यपि रजताभावेऽपि रजताभावो न गृह्यते / तदुक्तम् - तदुपलब्धौ रजतोपलब्धिरित्यर्थः / यत्तावदुक्तं विशिष्टप्रत्ययत्वाद् विशेषणज्ञानपूर्वकत्वं सविकल्पकत्वाच्च निर्विकल्पस(क)पूर्वकत्वं, तत्राप्रयोजकत्वात् / अवच्छेदग्रहानियतप्रकाश[विषय]त्वस्योपाधेर्विद्यमानत्वात् / मु(शु)क्तौ रजतबोधे रजतानुप[लब्धे]रे[वाभावज्ञानम्] / [अ]त एव हि ब्राह्मणत्वादिविकल्पानामालोचनपूर्वकत्वम् / तत् किमत्र तस्योपाधिरस्ति येन विवक्षितव्यतिरेकः स्यादिति चेत् ओमिति आशयवानाह - अवच्छेदेति / 102. स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्यञ्जकम् / स च विकल्पयितव्य आलोच्यते यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञाप्यते / यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः / स्वभावप्राप्तौ सत्यामत्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपादावभ्युपगता, इह त्वनवस्थादुस्थतया न तदभ्युपगमः, न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते / न चेदेवम्, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् / तथाहि - सर्वमेव मानं साक्षात् परम्परया वा निर्विकल्पकविश्रान्तम् / न हनुमानादिकमप्यनालोचनपूर्वकम् / ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत / न च तया तदालोचनमेव जन्यते, प्रतियोग्यनवछिन्नस्य तस्य निरूपयितुमशक्यत्वात्, शक्यत्वे वा किमपराद्धमिन्द्रियेण / तथा सम्बन्धान्तरगर्भत्वनियमेन विशेषणत्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् / परस्य तादात्म्यमस्तीति चेत् / ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव / न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति / अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेत्, न तु मानान्तरत्वम् / अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्यात्, नेन्द्रियम् / अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति /