Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 124 * वामध्वजकृता सृङ्केतटीका च्चानुपलब्धेः, न हि तदुपलब्धौ तस्याभावोपलम्भ इति चेत् / उच्यते - अवच्छेदग्रहध्रौव्यादध्रौव्ये सिद्धसाधनात् / प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः // 22 // ___101. ननु सुरभि चन्दनमिति प्रत्ययो न तावत् घ्राणजन्मा, तस्य गन्ध एव सामर्थ्यात्; नापि समुच्चितघ्राणत्वगिन्द्रियजन्मा, समुच्चितयोरिन्द्रिययोरणुना मनसाऽधिष्ठातुम[श]क्यत्वात्; नापि पारिशेष्यजन्मा 'तिक्ता शर्करा' इत्यादिभ्रमानुपपत्तिप्रसङ्गात्, तत्र पारिशेष्याभासस्याप्यभावात्, तिक्तत्वस्य शर्करासमवायि(य)त्वे मधुरशर्करास्मरणस्यैव बाधकस्पर्शत्वात्(बाधकस्य सत्त्वात्), अनपेक्षितबाधकोपपत्तौ शिष्यमाणसंप्रत्ययः परिशेषः / नापि परस्परसाकाङ्क्षपदार्थजन्मा अपदार्थप्रमाणस्वीकारप्रसङ्गात् / तत् कथं सुरभिचन्दनमित्यादिकः प्रत्य[107B] योऽत आह - प्रमाणजनिक(त)सौरभज्ञानसहकृतस्य त्वगिन्द्रियस्यैव सुरभित्वविशिष्टचन्दनज्ञानजनक[त्व] सामर्थ्यमित्यर्थः / प्रकृतमुपसंहरति - तथा चेति / ननु विशिष्टप्रत्ययस्यैन्द्रियकत्वेऽपि विशेषणतया ग्रहणायार्भा(भा)वप्रमाणाभ्युपगमः / सौरभग्रहणाय घ्राणाभ्युपगमा(मो) तवेत्याह - न चेति स्यादेतदिति / साक्षात्कारिसविकल्पपूर्वकत्वेन व्याप्तो दृष्टो भावे, अभावे च निर्विकल्पपूर्वकत्वेन व्याप्तो दृष्टः / तथा च निर्विकल्पकत्वपूर्वकत्वनिवृत्तौ निवर्तत इत्याशयवानाह - अपि चेति / बाधकान्तरमाह - अप्राप्तेश्चेति / सम्बन्धविशेषणत्वे(त्व)मिति चेदत्राह - न चेति / अनन्यगतिकतयाऽनुपलब्धिरभावप्रतिपत्तये स्वीकर्तव्येत्याह - अवश्याभ्युपगन्तव्य[त्वा ]च्चेति / शुक्तिकायामिन्द्रियसन्निकर्षे सत्यपि रजताभावेऽपि रजताभावो न गृह्यते / तदुक्तम् - तदुपलब्धौ रजतोपलब्धिरित्यर्थः / यत्तावदुक्तं विशिष्टप्रत्ययत्वाद् विशेषणज्ञानपूर्वकत्वं सविकल्पकत्वाच्च निर्विकल्पस(क)पूर्वकत्वं, तत्राप्रयोजकत्वात् / अवच्छेदग्रहानियतप्रकाश[विषय]त्वस्योपाधेर्विद्यमानत्वात् / मु(शु)क्तौ रजतबोधे रजतानुप[लब्धे]रे[वाभावज्ञानम्] / [अ]त एव हि ब्राह्मणत्वादिविकल्पानामालोचनपूर्वकत्वम् / तत् किमत्र तस्योपाधिरस्ति येन विवक्षितव्यतिरेकः स्यादिति चेत् ओमिति आशयवानाह - अवच्छेदेति / 102. स ह्यर्थविशेषणीभविष्यन् केवलोऽपि विस्फुरेद् यस्यावच्छेदकज्ञानं न व्यञ्जकम् / स च विकल्पयितव्य आलोच्यते यो विशेषणज्ञाननिरपेक्षेणेन्द्रियेण विज्ञाप्यते / यस्तु तत्पुरःसर एव प्रकाशते, तत्र तस्य विकल्पसामग्रीसमवधानवत एव सामर्थ्यान्नायं विधिः / स्वभावप्राप्तौ सत्यामत्यधिका प्राप्तिः प्रतिपत्तिबलेन रूपादावभ्युपगता, इह त्वनवस्थादुस्थतया न तदभ्युपगमः, न तु स्वभावप्रत्यासत्तिरेतावतैव विफलायते / न चेदेवम्, प्रमाणान्तरेऽपि सर्वमेतद् दुर्घटं स्यात् / तथाहि - सर्वमेव मानं साक्षात् परम्परया वा निर्विकल्पकविश्रान्तम् / न हनुमानादिकमप्यनालोचनपूर्वकम् / ततोऽनालोचितोऽभावः कथमनुपलब्ध्याऽपि विकल्प्येत / न च तया तदालोचनमेव जन्यते, प्रतियोग्यनवछिन्नस्य तस्य निरूपयितुमशक्यत्वात्, शक्यत्वे वा किमपराद्धमिन्द्रियेण / तथा सम्बन्धान्तरगर्भत्वनियमेन विशेषणत्वस्य, मानान्तरेऽपि कः प्रतीकारः ? तदभावस्य तदानीमपि समानत्वात् / परस्य तादात्म्यमस्तीति चेत् / ननु यद्यसावस्ति, अस्त्येव, न चेन्नैव / न ह्यभ्युपगमेनार्थाः क्रियन्ते, अनभ्युपगमेन वा निवर्तन्ते इति / अवश्याभ्युपगन्तव्यत्वे कारणत्वं सिद्धयेत्, न तु मानान्तरत्वम् / अन्यथा भावोपलम्भेऽप्यभावानुपलब्धिरेव प्रमाणं स्यात्, नेन्द्रियम् / अभावोपलम्भे भावानुपलम्भवद् भावोपलम्भे अभावानुपलम्भस्यापि वज्रलेपायमानत्वादिति /
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210